किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Enable Parallel


Showing 41 to 47 of 47 verses
Verse 41
भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् । परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः ॥
Metre: प्रमिताक्षरा

Verse 42
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा । उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥
Metre: प्रमिताक्षरा

Verse 43
तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः । हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥
Metre: प्रमिताक्षरा

Verse 44
अविमृष्यमेतदभिलष्यति स द्विषतां वधेन विषयाभिरतिम् । भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥
Metre: प्रमिताक्षरा

Verse 45
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः । स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृष्यन्ति धियः ॥
Metre: प्रमिताक्षरा

Verse 46
आशंसितापचितिचारु पुरः सुराणामादेशमित्यभिमुखं समवाप्य भर्तुः । लेभे परां द्युतिममर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥
Metre: वसन्ततिलका

Verse 47
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः । अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥
Metre: मालिनी

Showing 41 to 47 of 47 verses