पदं पदार्थस्य तु वाक्यगोचरो भवेद् यतोऽर्थस्तदतो निरूप्यते॥ ११४॥
इति महाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकाशे विभक्त्यर्थादिचतुष्टयप्रकाशो नाम
साहित्यविद्याध्ययनाब्धिमन्थमन्थाचलः कोऽपि सनातनोऽहम्।
प्रकाशमेतं प्रतिमुच्य दोषाच्छरावतो दीपमिवास्मि तुष्टः॥