नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Enable Parallel


Showing 131 to 135 of 135 verses
Verse 134
प्रवसते भरतार्जुनवैन्यंवत्स्मृतिधृतोऽपि नल ! त्वमभीष्टदः । स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥
Metre: द्रुतविलम्बितम्

Verse 135
इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी धर्मार्था सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् । त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥
Metre: शार्दूलविक्रीडितम्

Verse 136
यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति । एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥
Metre: शार्दूलविक्रीडितम्

Verse 137
इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं बभार । अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥
Metre: स्रग्धरा

Verse 138
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः ॥
Metre: शार्दूलविक्रीडितम्

Showing 131 to 135 of 135 verses