आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी । मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी तस्याः पर-गता विशुद्धमलसो नन्दन्ति योगीश्वराः ॥
Metre: शार्दूलविक्रीडितम्
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिर-परिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥
Metre: शिखरिणी
अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुल-परितापाय मनसः स्वयं त्यक्ता ह्येते शम-सुखमनन्तं विदधति ॥
Metre: शिखरिणी
ब्रह्म-ज्ञान-विवेक-निर्मल-धियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोग-भाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः । सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढ-प्रत्ययान्वाञ्छा-मात्र-परिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥
Metre: शार्दूलविक्रीडितम्
धन्यानां गिरि-कन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु- जलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ।अस्माकं तु मनोरथोपरचित-प्रासाद-वापी-तटक्रीडा- कानन-केलि-कौतुक-जुषामायुः परं क्षीयते ॥
Metre: शार्दूलविक्रीडितम्
भिक्षा-शतं तदपि नीरसमेक-बारं शय्या च भूः परिजनो निज-देह-मात्रम् । वस्त्रं विशीर्ण-शत-खण्ड-मयी च कन्था हा हा तथापि विषया न परित्यजन्ति ॥
Metre: वसन्ततिलका
स्तनौ मांस-ग्रन्थी कनक-कलशावित्युपमिती मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । स्रवन्-मूत्र-क्लिन्नं करि-वर-शिर-स्पर्धि जघनं मुहुर्निन्द्यं रूपं कवि-जन-विशेषैर्गुरु-कृतम् ॥
Metre: शिखरिणी
एको रागिषु राजते प्रियतमा-देहार्ध-हारी हरो नीरागेषु जनो विमुक्त-ललनासङ्गो न यस्मात्परः । दुर्वार-स्मर-बाण-पन्नग-विष-व्याबिद्ध-मुग्धो जनः शेषः काम-विडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥
Metre: शार्दूलविक्रीडितम्
अजानन्दाहात्म्यं पततु शलभस्तीव्र-दहने स मीनोऽप्यज्ञानाद्बडिश-युतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह वियज्जाल-जटिलान्न मुञ्चामः कानामहह गहनो मोह-महिमा ॥
Metre: शिखरिणी
तृषा शुष्यत्यास्ये पिबति सलिलं शीत-मधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादि-कलितम् । प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं प्रतीकारं व्याधः सुखमिति विपर्यस्यति जनः ॥
Metre: शिखरिणी