"अरण्य-याने सु-करे पिता मा प्रायुङ्क्त राज्ये बत दुष्-करे त्वाम् । मा गाः शुचं वीर ! भरं वहाऽमुम्"आभाषि रामेण वचः कनीयान् ॥
Metre: उपजातिः
"कृती श्रुती वृद्ध-मतेषु धीमांस्त्वं पैतृकं चेद्वचनं न कुर्याः । विच्छिद्यमानेऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या ॥
Metre: उपजातिः
अस्माकमुक्तं बहु मन्यसे चेद्यदीशिषे त्वं न मयि स्थिते च । जिह्रेष्य-तिष्ठन्यदि तात-वाक्ये जहीहि शङ्कां व्रज शाधि पृथ्वीम्।" ॥
Metre: उपजातिः
"वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय । मा मां प्रयुक्थाः कुल-कीर्ति-लोपे" प्राह स्म रामं भरतोऽपि धर्य्मम् ॥
Metre: उपजातिः
"ऊर्जस्-वलं हस्ति-तुरङ्गमेतदमूनि रत्नानि च राज-भाञ्जि । राजन्यकं चैतदहं क्षितीन्द्रस्त्वयि स्थिते स्यामिति शान्तमैतत्।" ॥
Metre: उपजातिः
इति निगदितवन्तं राघवस्तं जगाद "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये । च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारयाऽस्मन्-मतेन" ॥
Metre: मालिनी