ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Enable Parallel


Showing 11 to 20 of 29 verses
Verse 11
पयोधरैर्भीमगभीरनिस्वनैस्तडिद्भिरुद्वेजितचेतसो भृशम् । कृतापराधानपि योषितः प्रियान्परिष्वजन्ते शयने निरन्तरम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पयोधरैरिति ॥ योषितः स्त्रियः कृतापराधान् । कृता अपराधाः अन्ययोषिद्गमनादिरूपा यैस्ते । इदृशानपि प्रियान् भर्तॄन् शयने शय्यायां निरन्तरमनवरतम् परिष्वजन्ते आलिङ्गन्ति । कथं भूता योषितः — पयोधरैर्मेघैः भृशमुद्वेजितवेतसः उद्वेजितं पीडितं चेतो यासां ताः । किं भूतैः पयोधरैः — भीमो भयकृत् पुनर्गभीरश्च निःस्वनः शब्दो येषां तैः । किं कुर्वद्भिः — स्वनद्भिः शब्दायमानैः । अनेनात्र कामोद्रेकः सूचितः ॥
चन्द्रिकाटीका (मणिरामः): पयोधरैरिति ॥ भीमो भयानको गभीरो गम्भीरो निःस्वनो निर्घोषो येषां तैस्तथोक्तैः । `स्वाननिर्घोषनिह्रादनादनिस्वाननिस्वनाः` इत्यमरः (अ.को.1।6।25) । पयोधरैर्मेघैस्तडिद्भिर्विद्युद्भिश्च भृशमत्यन्तमुद्वेजितमुद्विग्नं चेतोऽन्तःकरणं यासां तास्तथोक्ता योषितो नार्यः । `स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः` इत्यमरः (अ.को.2।6।2) । कृतोऽपराधोऽन्यायः परवनितानिरीक्षणादिर्यैस्तांस्तथोक्तानपि प्रियान् शयने निरन्तरं निरवकाशं यथा भवति तथा परिष्वजन्ते आलिङ्गन्ते इत्यर्थः ॥

Verse 12
विलोचनेन्दीवरवारिबिन्दुभिर्निषिक्तबिम्बाधरचारुपल्लवाः । निरस्तमाल्याभरणानुलेपनाः स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विलोचनेति ॥ प्रवासिनां पथिकजनानां प्रमदाः निराशाः स्थिताः `वर्षास्ववश्यं वयमागमिष्याम` इत्यवधिलोपान्निराशाः स्थिताः इत्यर्थः । किं भूताः प्रमदाः — विलोचनान्येवेन्दीवराणि नीलकमलानि तत्र ये वारिबिन्दवस्तैः अर्थादश्रुभिर्निषिक्ताः बिम्बाकारा अधरा एव चारूपल्लवा यासां ताः । निरस्तानि माल्यानि पुष्पदामानि आभरणानि चानुलेपनानि चन्दनादीनि याभिस्ताः `माल्यं पुष्पे तु पुष्पदाम्नि` इति वैजयन्ती ॥
चन्द्रिकाटीका (मणिरामः): विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोतपलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः ॥

Verse 13
विपाण्डुरं कीटरजस्तृणान्वितं भुजंगवद्वक्रगतिप्रसर्पितम् । ससाध्वसैर्भेककुलैर्निरीक्षितं प्रयाति निम्नाभिमुखं नवोदकम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विलोचनेति ॥ प्रवासिनां पथिकजनानां प्रमदाः निराशाः स्थिताः `वर्षास्ववश्यं वयमागमिष्याम` इत्यवधिलोपान्निराशाः स्थिताः इत्यर्थः । किं भूताः प्रमदाः — विलोचनान्येवेन्दीवराणि नीलकमलानि तत्र ये वारिबिन्दवस्तैः अर्थादश्रुभिर्निषिक्ताः बिम्बाकारा अधरा एव चारूपल्लवा यासां ताः । निरस्तानि माल्यानि पुष्पदामानि आभरणानि चानुलेपनानि चन्दनादीनि याभिस्ताः `माल्यं पुष्पे तु पुष्पदाम्नि` इति वैजयन्ती ॥
चन्द्रिकाटीका (मणिरामः): विलोचनेति ॥ विलोचनानि नेत्राणीन्दीवराणीव नीलोतपलानीवेति विलोचनेन्दीवराणि तेषां ये वारिबिन्दवो जलबिन्दवस्तैः कृत्वा निषिक्ताः संसिक्ताः बिम्बाधरा बिम्बसदृशाधराश्चारुपल्लवा इवेति ते यासां तास्तथोक्ताः । बिम्बपदेनारक्तत्वं पल्लवपदेन च कोमलत्वं व्यज्यते । निरस्तानि त्यक्तानि माल्यान्याभरणानि भूषणान्यनुलेपनानि चन्दनादीनि याभिस्तास्तथोक्ताः प्रवासिनां प्रोषितानां प्रमदाः स्त्रियो निजरमणसमागमसङ्गजनितसुखे निराशा आशारहिताः स्थिता आसन्नित्यर्थः ॥

Verse 14
विपत्त्रपुष्पां नलिनीं समुत्सुका विहाय भृङ्गाः श्रुतिहारिनिस्वनाः । पतन्ति मूढाः शिखिनां प्रनृत्यतां कलापचक्रेषु नवोत्पलाशया ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विपन्नेति ॥ च पुनः भृङ्गाः भ्रमराः । शिखिनां मयुराणाम् । कलाप चक्रेषु बहिर्मण्डलेषु पतन्ति । कथं भूतः — नृत्यतां नृत्यं कुर्वताम् । किं कृत्वा — नलिनीं कमलिनीं विहाय त्यक्त्वा । कया — नवोत्पलाशया नवञ्च तदुत्पलञ्च नवोत्पलं तस्याशा नवोत्पलाशा तया । किं भूताः नलिनीम् — विपन्नानि नष्टानि पुष्पाणि कुसुमानि यस्याः सा विपन्नपुष्पा तां विपन्नपुष्पाम् । किं भूताः भृङ्गाः — समुत्सुकाः उत्कण्ठायुक्ताः । पुनः कथं भूताः — श्रुतिहारिनिःस्वनाः श्रुत्योः कर्णयोर्हारि मनोहरो निःस्वनो शब्दो येषां ते । पुनः कथं भूतः — मूढा उद्विग्नचित्ताः । अत्र नृत्यन्मयुराणां कलापाः प्रत्यग्रपद्मवन्मनोहरा भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी मनाह्लादकर इति यावत् । निःस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । `द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः` इत्यमरः (अ.को.2।5।32)। विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्या सा तां तथोक्तां नलिनीम् विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वताम् शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥

Verse 15
वनद्विपानां नववारिदस्वनैर्मदान्वितानां ध्वनतां मुहुर्मुहुः । कपोलदेशा विमलोत्पलप्रभाः सभृङ्गयूथैर्मदवारिभिश्चिताः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): वनद्विपानामिति ॥ वनद्विपानां काननहस्तिनाम् । कपोलदेशाः गल्लोपरिभागाः । नवतोयदस्वनैः नवाः प्रत्यग्राश्च तोयदा मेघाश्च नवतोयदास्तेषां स्वना गर्जितशब्दास्तथा तैः कृत्वा मदवारिभिः मदा एव वारीणि जलानि तैः श्रिताः क्षरन्मदा जाता इत्यर्थः । किं भूतानां — मदान्वितानां मदावस्थायुक्तानाम् । मुहुर्मुहुर्वारं वारं ध्वनतां बृंहताम् । शब्दं कुर्वतामित्यर्थः । कथं भूताः कपोलदेशाः — विमलञ्च तदुत्पलं च विमलोत्पलं तद्वत्प्रभा कान्तिर्येषां ते । कथं भूतैः — भृङ्गयुथैः सहितानि सभृङयूथानि तैः भ्रमरनिकरसहितैः ॥
चन्द्रिकाटीका (मणिरामः): वनद्विपानामिति ॥ नवाः सद्यः सम्भृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । `शब्दे निनादनिनदध्वनिध्वानरवस्वनाः` इत्यमरः (अ.को.1।6।24) । कृत्वा मदान्वितानाम् अपवारणगर्जनशङ्कयेति भावः । अत एव मुहुर्मुहुर्वारं वारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् `द्विपः मतङ्गजो गजो नागः` इत्यमरः (अ.को.2।8।34) । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः। `स्यादुत्पलं कुवलयम्` इत्यमरः (अ.को.1।10।37) । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मेदवारिभिर्दानोदकैश्चिताः व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥

Verse 16
सितोत्पलाभाम्बुदचुम्बितोपलाः समाचिताः प्रस्रवणैः समन्ततः । प्रवृत्तनृत्यैः शिखिभिः समाकुलाः समुत्सुकत्वं जनयन्ति भूधराः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सितेति ॥ भूधराः पर्वताः प्रवासिनां पथिकजनानां समुत्सुकस्य भावः समुत्सुकत्वं जनयन्त्युत्पादयन्ति । किं भूताः भूधराः — अम्बुधरोक्षितोपलाः अम्बुधरैर्मेघैरुक्षिताः सिक्ता उपलाः पाषाणा येषां ते । पुनः किं भूतैः — प्रस्रवणैः निर्झरैः । समन्ततः सर्वतः । व्याप्ताः समाचिताः । पुनः किंभूतैः — प्रवृत्तनृत्यैः प्रवृत्तं प्रारब्धं नृत्यं नाटकं यैस्ते तैः । शिखिभिर्मयूरैः समाकुला व्याप्ताः ॥
चन्द्रिकाटीका (मणिरामः): सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उत्पला: पाषाणां येषां ते तथोक्ताः । `पाषाणप्रस्तरग्रावोपलाश्मानः` इत्यमरः (अ.को.2।3।4) । समन्तत इतस्ततः प्रस्रवर्णैर्निर्झरैः । `उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः इत्यमरः (अ.को.2।3।5) । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । `लास्यं नृत्यञ्च नर्तने` इत्यमरः (अ.को.1।7।11) । शिखिभिर्मयूरैः समाकुला व्याकुलाः भूधराः समुत्सुकत्वं चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥

Verse 17
कदम्बसर्जार्जुनकेतकीवनं विकम्पयंस्तत्कुसुमाधिवासितः । ससीकराम्भोधरसङ्गशीतलः समीरणः कं न करोति सोत्सुकम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कदम्बेति ॥ समीरणो वायुः कं मनुष्यं सोत्सुकं प्रियामिलनोत्कण्ठितं न करोत्यपि तु सर्वं जनं सोत्सुकं करोतीत्यर्थः । किं कुर्वन् — कदम्बश्च सर्जश्चार्जुनश्च नीपश्च केतकी च कदम्बसर्जार्जुननीपकेतक्यस्ता विकम्पयन् विशेषेण धूनयन् । किं भूतः समीरणः — तत् कुसुमाधिवासितः तेषां पूर्वोक्त व्र्क्षाणां कुसुमैः पुष्पैरधिवासितः सुगन्धीकृतः । पुनः कथं भूतः समीरणः — शीकरैर्जलकणैः सह वर्तत इति सशीकरः सशीकरो योऽसावम्भोधरो मेघस्तस्य सङ्गेन शीतलः ॥
चन्द्रिकाटीका (मणिरामः): कदम्बेति ॥ कदम्बो नीपः सर्जोऽश्वकर्णः, अर्जुनः ककुभः, केतक्यश्च तासां वनं समुदायम् । `नीपप्रियककदम्बास्तु हरिप्रिये` इत्यमरः (अ.को.2।4।42) । `साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः` इत्यमरः (अ.को.2।4।44) । `इन्द्रद्रुः ककुभोऽर्जुनः` इत्यमरः (अ.को.2।4।45) । विकम्पयन् तेषां पूर्वोक्त द्रुमाणां कुसुमैः पुष्पैरधिवासितः सञ्जाताधिवासः ससीकरो जलकणसहितो योऽम्भोधरो मेघस्तस्य सङ्गेन संसर्गेण शीतलः शीतः समीरणो मारुतः । `समीरमारुतमरुज्जगत्प्राणसमीरणाः` इत्यमरः (अ.को.1।1।74) । कं पुरुषं सोत्सुकं सोत्कण्ठं न करोति अपि तु सर्वमेवेत्यर्थः ॥

Verse 18
शिरोरुहैः श्रोणितटावलम्बिभिः कृतावतंसैः कुसुमैः सुगन्धिभिः । स्तनैः सहारैर्वदनैः ससीधुभिः स्त्रियो रतिं संजनयन्ति कामिनाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): शिरोरुहैरिति ॥ स्त्रियः कामिनां भोगिनाम् रतिं प्रीतिम् सञ्जनयन्ति उत्पादयन्ति । कैः — शिरोरुहैः । किं भूतैः — श्रोणेस्तटं श्रोणितटं कटीप्रदेशस्तदवलम्बन्ते ये ते श्रोणितटावलम्बिनस्तैः । शिरसि रोहन्त्युत्पद्यन्ते इति शिरोरुहास्तैः । किं भूतैः शिरोरुहैः — सुशोभनो गन्धो येषु तानि सुगन्धीनि तैः कुसुमैः कृत्वा । कृतोऽवतंसो येषु ते कृतावतंसास्तैः । पुनः कैः — सहारैः स्तनैः । हारैः मुक्ताहारैः सह वर्तन्त सहारैः । इदृशैः कुचैः । ससर्षपैः वदनैः सर्षपाकारप्रस्वेदबिन्दुसहितैर्मुखैः । अत्रैते कामिनां प्रीतिकरा भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): शिरोरुहैरिति ॥ स्त्रियस्तारुण्यः श्रोणितटे कटिपश्चाद्भागेऽवलम्बन्ते तैस्तथोक्तैः शिरोरुहैश्चिकुरैः । `चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः` इत्यमरः (अ.को.2।6।96) । कृतावतंसैः सुगन्धिभिः कुसुमैः पुष्पैः । `पुष्पं प्रसूनं कुसुमम्` इत्यमरः (अ.को.2।4।17) । संहारैः कुसुममालासहितैः स्तनैः कुचैः ससीधुभिर्मधुसहितैः वदनैराननैः कामिनां विलासिनां रतिं प्रीतिम् सञ्जनयन्ति सम्यक् प्रकारेणोत्पादयन्तीत्यर्थः ॥

Verse 19
वहन्ति वर्षन्ति नदन्ति भान्ति व्यायन्ति नृत्यन्ति समाश्रयन्ति । नद्यो घना मत्तगजा वनान्ताः प्रियाविहीनाः शिखिनः प्लवंगाः ॥
Metre: उपजातिः
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): अस्य पद्यस्य व्याख्या नोपलभ्यते । प्रक्षिप्तम् पद्यम् स्यात्
चन्द्रिकाटीका (मणिरामः): अस्य पद्यस्य व्याख्या नोपलभ्यते । प्रक्षिप्तम् पद्यम् स्यात्

Verse 20
तडिल्लताशक्रधनुर्विभूषिताः पयोधरास्तोयभरावलम्बिनः । स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला हरन्ति चेतो युगपत्प्रवासिनाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तडिल्लतेति ॥ एते युगपत् समकालम् । प्रवासिनां पान्थानाम् चेतो हरन्ति वशीकुर्वन्ति । एते के — शक्तस्येन्द्रस्य धनुः कोदण्डं तेन विभूषिताः शोभिताः नम्राः पयोधरा मेघाश्च । पुनः — काज्चीमणिकुण्डलोज्ज्वलाः स्त्रियश्च । काञ्चयः कटिमेखलाः । मण्युपलक्षितानि कुण्डलानि तैरुज्ञ्वलाः शोभमानाः । स्त्रियः कामिन्यः । एतानि वस्तूनि युगपत् प्रवासिनां चेतोहारीणि भवन्तीत्यर्थः । वंशस्थवृत्तानि ॥
चन्द्रिकाटीका (मणिरामः): तडिल्लतेति ॥ तडिल्लता लताकारा तडिच्छक्रधनुरिन्द्रायुधं च ताभ्यां विभूषिताः शोभिताः । `इन्द्रायुधं शक्रधनुः` इत्यमरः (अ.को.1।3।12) । तोयभरेण जलभारेणावलम्बिनो नम्राः पयोधरा मेघाः काञ्ची मेखला च मणिकुण्डलानि नानाविधरत्नखचितताटङ्कानि च तैरुज्ज्वलाः सुन्दराः स्त्रियश्च प्रवासिनां प्रोषितानां चेतोऽन्तःकरणम् युगपत्सममेव हरन्ति अपहरन्तीत्यर्थः । स्त्रियश्चात्र परकीयाः प्रवासिनां स्वकीयासान्निध्याभावात् ॥

Showing 11 to 20 of 29 verses