ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Enable Parallel


Showing 21 to 29 of 29 verses
Verse 21
मालाः कदम्बनवकेसरकेतकीभिरायोजिताः शिरसि बिभ्रति योषितोऽद्य । कर्णान्तरेषु ककुभद्रुममञ्जरीभिरिच्छानुकूलरचितानवतंसकांश्च ॥
Metre: वसन्ततिलका
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): माला इति ॥ वर्षाकाले योषितो नार्यः शिरसि माना विभ्रति धारयन्ति। च पुनः कर्णान्तरेषु कर्णमध्येषु अवतंसकान् कर्णपूरान् विभ्रति । कथं भूता मालाः — कदम्बनवकेसरकेतकीभिः अयोजिताः । कदम्बाश्च नवकेसराश्च नवशोकाश्च केतक्यश्च कदम्बनवकेसरकेतक्यस्ताभिरायोजिताः रचिताः अर्थात् कदम्बानां पुष्पैर्ग्रथिताः । कथं भूतान् अवतंसकान् — ककुभद्रुमाणामर्जुनवृक्षाणां मञ्जर्यः ककुभद्रूममञ्जर्यः। ताभिः पूतान् पवित्रान् । पुनः कथं भूतान् — दुकूलेन पट्टकूलेन रचितास्थान । अत्र नार्यः शोभानिमित्तमेतानि वस्तूनि कुर्वन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): माला इति ॥ योषितः स्त्रियोऽथ कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि केतक्यश्च ताभिरायोजिता ग्रथिताः । `अथ केसरे । बकुलः` इत्यमरः (अ.को.2।4।64) । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयाऽनुकूलं यथा भवति तथा रचितान् कृतानवतंसा एवावतंसकास्तान् कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलकावृत्तमेतत् । तदुक्तम् `उक्ता वसन्ततिलका तभजा जगौ गः` इति ॥

Verse 22
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥
Metre: वसन्ततिलका
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कालागुर्विति ॥ नार्यः प्रदोषे सन्ध्यायां जलमुचां मेघानां ध्वनितं गर्जितम् श्रुत्वा त्वरितं सत्वरं गुरुग्रहात् गुरोः श्वसुरस्य गृहं गुरुगृहं तस्माच्छय्याया गृहं प्रविशन्ति । भर्त्रा सह् क्रीडां कर्तुं प्रविशन्तीत्यर्थः । किं भूताः नार्यः — कालागुरुणा कृष्णागुरुणा प्रचुरेण सर्वोत्कृष्टेन चन्दनेन चर्चितं विलेपितं संस्कृतमङ्गं यासां ताः । पुनः किं भूताः नार्यः — पुष्पमयैरवतंसैः कुसुमरचितशिरोमालाभिः सुरभीकृताः केशपाशाः वेणीदण्डा यासां ताः । वसन्ततिलकावृत्तद्वयी । `उक्ता वसन्ततिलका तभजा जगौ गः` ॥
चन्द्रिकाटीका (मणिरामः): कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो बहुलो यस्मिंस्ताद्र्शं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तस्तथोक्ताः पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तस्तथोक्ता नार्यः स्त्रियो जलमुचां वनानाम् ध्वनिं गर्जनम् श्रुत्वाकर्ण्य त्वरितं शीघ्रम् प्रदोषे रजनीमुखे गुरुगृहात् श्वसुरगृहं परित्यञ्य शय्यागृहं प्रविशन्तीत्यर्थः ॥

Verse 23
कुवलयदलनीलैरुन्नतैस्तोयनम्रैर्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः । अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कुवलयेति ॥ तोयदैर्मेघैः । पथिकजनवधूनां पथिकजनानां वध्वस्तासां चेतोऽपहृतं मुषितमिव जातम् । क्ं भूतैः तोद्यदैः — कुवलयदलवत् कुमुदपत्रवन्नीलाः श्यामाः कुवलयदलनीलास्तैः । नीलश्यामयोरैक्यम् । पुनः उन्नतैरुन्नसितैः । पुनः किंभूतैः — तोयेन जलेन नम्रास्तैः । पुनः किंभूतैः — मृदुपवनविशेषान्मन्दमन्दं चलद्भिः मृदुः स्वल्पो योऽसौ पवनो वायुस्तस्मात् मन्दं मन्दं चलद्भिः चलमानैः । पुनः किंभूतैः — सेन्द्रचापैः इन्द्रचपेनेन्द्रधनुषा सह वर्तन्त इति सेन्द्रचापास्तैः । किं भूतानां पथिकजनानां —तद्वियोगक्षतानां तेषां पथिकजनानां वियोगस्तेन क्षताः पीडितास्तासाम् ॥
चन्द्रिकाटीका (मणिरामः): कुवलयेति ॥ कुवलयस्य नीलोत्पलस्य दलं पत्रमिव नीलैः श्यामवर्णैरुन्नतैरुच्चस्थैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमतिमन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मेघैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हत्वा नीतमिवित्युत्प्रेक्षा । मालिनीवृत्तमेतत् लक्षणं तूक्तम् ॥

Verse 24
मुदित इव कदम्बैर्जातपुष्पैः समन्तात्पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): मुदित इति ॥ वनस्यान्तो वनान्तः शालिभिर्वृक्षैर्नृत्यतीव नृत्यं करोतीव । किं — पवनेन वायुना चलिताः कम्पिताः शाखा येषां तैः । किं भूतो वनान्तः — समन्तात् समस्तप्रकारेण जातपुष्पैः जातान्युत्पन्नानि पुष्पाणि येषु ते जातपुष्पास्तैः कदम्बैः कदम्बवृक्षैर्मुदित इव । उत्प्रेक्षते उत्पन्नहर्ष इव । यथा हर्षितः पुमान् रोमाञ्चयुक्तो भवति तथाऽत्र विकसितपुष्पाः कदम्बवृक्षा रोमाञ्च सदृशा ज्ञेयाः । पुनः — केतकीनां सूचिभिः कुसुमैः हास्यं विधत्त इव । उत्प्रेक्षते हास्यं करोतीव । केतकीनां पुष्पाणि धवलानि भवन्ति हास्यमपि धवलं वर्ण्यतेऽतः साम्यं । किं भूत वनाः — नवसलिलनिषेकोत्खाततापः नवञ्च तत् सलिलञ्च नवसलिलमर्थान्मेघवर्षणजलं तस्य निषेकः सिञ्चनं तेनोत्खात उन्मूलितो दूरीकृतस्तापो यस्य सः ॥
चन्द्रिकाटीका (मणिरामः): मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेवनेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तो वनान्तोऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखाभिर्वृक्षैः । `वृक्षो महीरुहः शाखी विटपी पादपस्तरुः` इत्यमरः (अ.को.2।4।5) । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचीभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते विदधातीत्यर्थः ॥

Verse 25
शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च । विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): शिरसीति ॥ एषः समीपवर्ती वर्षाऋतुसम्बन्धी काले वधूनां कर्णपूरं कर्णाभरणम् । रचयति नवीनमुत्पादयति । कैः — विकचा विकासमाप्ता ये नवकदम्बा नूतनकदम्बवृक्षा विकचनवकदम्बास्तैः । नव शब्देन सुन्दरता सूचिता । अथ च पुनर्वधूनां शिरसि शिरोनिमित्तं बकुलानामशोकवृक्षपुष्पाणां माला बकुलमाला तां करोति निष्पादयति । किं भूतां बकुलमालाम् — मालतीभिर्मालिनीपुष्पैः समेतां संयुक्ताम् । पुनः किं भूतैः — कुसुमितानि विकसितानि यानि वनपुष्पाणि तैः। यूथिकायाः कुड्मलानि कलिकास्तैः समेतां मिश्रिताम् । `कुड्मलो मुकुलोऽस्त्रियाम्` इत्यमरः (अ.को.2।4।16) । किं कालः — जलदस्य मेघस्यौघः समूहो विद्यतेऽस्मिन्निति जलदौघः । किं तत् — कान्तवत् भर्तृवत् । यथा कान्तः कामिनीनां कर्णपूरं मालाञ्च रचयति ॥
चन्द्रिकाटीका (मणिरामः): शिरसीति ॥ जलदानां मेघानामोघः सङ्घातो यस्मिन् स तथोक्तः । `स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः` इत्यमरः (अ.को.2।5।42) । एषः कालो वर्षाकालः कान्तवत् प्रियवद् वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः । समेतां युक्तां बकुलमालां केसरस्रजं रचयति करोति तथा विकसितनवपुष्पैः संफ़ुल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुलानि तैः । `अथ मागधी । गणिका यूथिकाम्बष्ठाः` इत्यमरः (अ.को.2।4।71) । `कुड्मलो मुकुलोऽस्त्रियाम्` इत्यमरः (अ.को.2।4।16) । विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णावतंसं रचयति करोतीत्यर्थः ॥

Verse 26
दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः । नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): दधतीति ॥ नार्यः उन्नतैः कुचसमुद्गैः कुचाः स्तनाः एव समुद्गाः सम्पुटाः कुचसमुद्गास्तैर्हारयष्टिं मुक्ताहारं दधति धारयन्ति । पुनरायतैः विस्तीर्णैः श्रोणिबिम्बैः कटिप्रदेशैः । रुचिरतर दुकूलानि दधति धारयन्ति । अतिशयेन रुचिराणि रुचिरतराणि ईदृशानि यानि दुकूलानि क्षौमाणि तानि च पुनर्मध्यदेशैः तनुमध्यप्रदेशैः रोमराजिं दधति । रोम्णां राजिः श्रेणिः रोमराजिस्ताम् । किं भूतैः मध्यदेशैः — तिसृभिर्वलिभिर्ललिता मनोहरा शोभा येषां तैः। पुनः किं — नवजललवसेकादुद्गतां नवाः प्रत्यग्रा ये जललवास्तेषां सेकः सिञ्चनं तस्मादुत्पन्नाम् । एतैर्नार्यो विशेषतो मनोहारिण्यो भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): दधतीति ॥ नार्यः स्त्रिय उन्नतैरुर्ध्वमुखैर्वरा उत्तमाः पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागैर्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैः प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥

Verse 27
नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभस्वान्प्रोषितानां मनांसि ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नवेति ॥ नभस्वान् वायुः प्रोषितानां पथिकजनानाम् मनांस्यपहरति वशीकरोति । कथं भूतः नभः — किं कुर्वाणः नवा ये जलकणा नवजलकणास्तेषां सङ्गो मिलनं तस्मात् शीतस्य भावः शीतता तामादधानः। पुनः किं भूतः — कुसुमानां पुष्पाणां भरेण नता नभ्रीभूतासतेषां पादपानां वृक्षाणां लासकः नृत्यकारकः। पुनः किं भूतः — केतकीनां पुष्पाणां रजोभिः परागैः जनित उत्पादितो रुचिरो मनोहरो गन्धो यस्य सः ॥
चन्द्रिकाटीका (मणिरामः): नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्सम्बन्धाच्छीततां शैत्यमादधानो गृह्णन् कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षानां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम्। केतकीनां रजोभिः परागैः। `परागः सुमनोरजः` इत्यमरः (अ.को.2।4।17) । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥

Verse 28
जलभरनमितानामाश्रयोऽस्माकमुच्चैरयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): जलधरेति ॥ तोयदा मेघा इति कारणाज्जलानां सेका जलसेकास्तैः जलसिञ्चनैर्विन्ध्यं विन्ध्याचलं ह्लादयन्तीव हर्षमुत्पादयन्तीव। इतीति किमस्माकमयं प्रत्यक्षवर्ती विन्ध्याचलो विन्ध्यनामा पर्वतः उच्चैरतिशयेनोन्नतो वाश्रयः स्थानम् । कथं अस्माकम् जलभरेण नमितास्तेषाम् । किं भूताः — तोयदास्तोयेन नम्राः । किं भूतः — ग्रीष्मस्योष्मकालस्य वह्निर्दावाग्निस्तथा तस्य शिखाभिर्ज्ज्वालाभिः समुपजनितः समुत्पादितस्तापो यस्य स तम् । किं विशेषेण — अतिशयेन परुषाः कठोराः असह्यास्ताभिः ॥
चन्द्रिकाटीका (मणिरामः): जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघाः जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः। भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः सन्तापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥

Verse 29
बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥
Metre: मालिनी
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बहुगुणेति ॥ कविर्भोजराजं ब्रूते — हे राजन्नैषः जलदसमयः वर्षाकालस्तव हितानि हितकारीणि धनपुत्रराज्यसौख्यादीनि वाज्छितान्यचिरेण दिशतु । बहुभिर्गुणैः रम्यो रमणीयः । पुनः कथं — कामयन्त्यभिलषन्ति स्त्रीसङ्गममिति कामिनस्तेषां भोगिपुरुषाणाम् । चित्तं हरतीति वश्यं करोतीति चित्तहारी । पुनः — तताः विस्तृता विटपाः शाखा यासां तास्ततविटपा एवंविधा या लतास्ततविटपलतास्तासां निर्विकारो विकाररहितो बान्धवो मित्रम् । पुनः — प्राणिनां जीवानां प्राणभूतः प्राणसदृशः । मालिनीव्रत्तानीमानि सप्तसङ्ख्याकानि ॥ सुरीन्द्रवर्यामरकीर्तिसूरि विनिर्मितायामृतुवर्णनस्य । काव्यस्य वृत्तौ समजीजनद्वै द्वैतीयिकिः सर्गवरो वरेण्यः ॥ इति श्रीमन्नागपुरीय तपागच्छाधिप भट्टारक श्रीअमरकीर्ति सूरि कृतायां श्रीकालिदासकृतविशेषमहाकाव्यटीकायां प्रावृड्वर्णनो नाम द्वितीयः सर्गः॥
चन्द्रिकाटीका (मणिरामः): बहुगुणेति ॥ बहुगुणे रमणीयः सुन्दरः कामिनीनामङ्गनाना चित्तहारी मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्यश्च तासाम् । क्वचित्पुस्तके `नतविटपिलतानाम्` इति पाठः । तदर्थस्तु- नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । `वल्ली तु व्रततिर्लता` इत्यमरः (अ.को.2।4।9) । बान्धवो बन्धुः निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । `प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः` इत्यमरः (अ.को.1|4|32) । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृड्वर्णनं नाम द्वितीयः सर्गः ॥

Showing 21 to 29 of 29 verses