अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥
Metre: अनुष्टुप्
आपतन्तममुन्दूरादूरीकृतपराक्रमः । बलोऽवलोकयामास मातङ्गमिव केसरी ॥
Metre: अनुष्टुप्
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् । भाभोऽभीभाभिभूभारारारिररिरीररः ॥
Metre: अनुष्टुप्
भवन्भवाय लोकानामाकम्पितमहीतलः । निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥
Metre: अनुष्टुप्
रामे रिपुः शरानाजिमहेष्वास विचक्षणे । कोपादथैनं शितमा महेष्वा स विचक्षणे ॥
Metre: अनुष्टुप्
दिशमर्कमिवावाचीम्मूर्च्छागतमपाहरत् । मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥
Metre: अनुष्टुप्
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् । ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥
Metre: अनुष्टुप्
उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् । तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥
Metre: अनुष्टुप्
पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः । तयैव वाचापगमं ययाचापमुदायुधः ॥
Metre: अनुष्टुप्
समं समन्ततो राज्ञामापतन्तीरनीकिनीः । कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥
Metre: अनुष्टुप्