शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 81 to 88 of 88 verses
Verse 81
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥
Metre: रथोद्धता

Verse 82
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥
Metre: रथोद्धता

Verse 83
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥
Metre: रथोद्धता

Verse 84
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥
Metre: रथोद्धता

Verse 85
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥
Metre: रथोद्धता

Verse 86
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥
Metre: इन्द्रवज्रा

Verse 87
धन्योऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः । दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥
Metre: वसन्ततिलका

Verse 88
भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण । दत्तेर्ऽधे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥
Metre: प्रहर्षिणी

Showing 81 to 88 of 88 verses