1. आसीत् अशेष-नरपति-शिरः-समभ्यर्चित-शासनः पाकशासन इवापरः, चतुरुदधि-माला-मेखलाया भुवो भर्ता, प्रताप-अनुराग-अवनत-समस्त-सामन्त-चक्रः, कर्ता महाश्चर्याणाम्, आहर्ता क्रतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आश्रयो रसिकानाम्, राजा शुद्रको नाम ॥
2. यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वसता, सर्वदेवमयस्य प्रकटित-विश्वरूप-आकृतेः अनुकरोति भगवतो नारायणस्य ॥
3. तस्य च राज्ञो जल-अवगाहन-आयात-जयङ्कुञ्जर-कुम्भ-सिन्दूर-सन्ध्यायमान-सलिलया वेत्रवत्या सरिता परिगता विदिशा अभिधाना नगरी राजधान्यासीत् ॥
4. स तस्याम् अवजित-अशेष-भुवन-मण्डलतया विगत-राज्य-चिन्ता-भार-निर्वृतः, वलयमिव लीलया भुजेन भुवनभारम् उद्वहन्, अमरगुरुमपि प्रज्ञया उपहसद्भिः अनेक-कुल-क्रम-आगतैः असकृद्-आलोचित-नीति-शास्त्र-निर्मल-मनोभिः अलुब्धैः स्निग्धैः प्रबुद्धैः अमात्यैः परिवृतः, समान-वयो-विद्या-अलङ्कारैः अग्राम्य-परिहास-कुशलैः इङ्गिताकार-वेदिभिः केसरि-किशोरकैः इव विक्रमैकरसैः अपि विनयव्यवहारिभिः आत्मनः प्रतिबिम्बैः इव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखम् अतिचिरम् उवास । तस्य च अतिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणम् आकलयतः, प्रथमे वयसि वर्तमानस्यापि, रूपवतो अपि, संतानार्थिभिः अमात्यैः अपेक्षितस्यापि, वनिता-व्यतिकरस्य उपरि द्वेष इव आसीत् | सत्यपि लावण्यवति विनयवति अन्वयवति हृदयहारिणि च अवरोधजने, स कदाचित् स्वयम् आरब्धमृदङवाद्यः संगीतकप्रसङ्गेन, कदाचित् मृगयाव्यापारेण, कदाचित् काव्य-प्रबन्ध-रचनेन, कदाचिच्छास्त्रालापेन, कदाचिद् आख्यानक-आख्यायिका-इतिहास-पुराण-आकर्णनेन, कदाचिद् आलेख्यविनोदेन, कदाचिद् वीणया, कदाचिद् दर्शन-आगत-मुनिजन-चरण-शुश्रूषया, कदाचिद् अक्षरच्युतक-मात्राच्युतक-बिन्दुमती-गूढचतुर्थपाद-प्रहेलिका-प्रदानादिभिः, वनितापरङ्मुखः सुहृत्परिवृतो दिवसम् अनयत् । यथैव च दिवसम्, एवम् आरब्ध-विविध-क्रीडा-परिहास-चतुरैः सुहृद्भिः उपेतो निशाम् अनैषीत् ॥
एकदा तु नातिदूरोदिते भगवति सहस्रमरीचिमालिनि राजानम् आस्थानमण्डपगतम् अङ्गनाजनविरुद्धेन वामपार्श्व-अवलम्बिना कौक्षेयकेण भीषणरमणीयाकृतिः प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-कर-कमला सविनयम् अब्रवीत् — “ देव, द्वारस्थिता सुरलोकम् आरोहतः त्रिशङ्कुरिव कुपित-शतमख-हुंकार-निपातिता राजलक्ष्मीः दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति — ‘ सकल-भुवनतल-सर्वरत्नानाम् उदधिरिव एकभाजनं देवः । विहङ्गमश्चायम् आश्चर्यभूतो निखिलभुवनतलरत्नम् इति कृत्वा देवपादमूलम् आदाय आगताहम् इच्छामि देवदर्शनसुखम् अनुभवितुम् ’ इति । एतदाकर्ण्य देवः प्रमाणम् ” इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि ‘ को दोषः । प्रवेश्यताम् ’ इत्यादिदेश ॥
अथ प्रतीहारी नरपतिवचनानन्तरम् उत्थाय तां मातङ्गकुमारीं प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य, गगनसिन्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्य अधस्तात् इन्दुकान्तमणिपर्यङ्किकानिषण्णम्, उद्धूयमानकनकदण्डचामरकलापम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामरपवनप्रनर्तितदशे दुकूले वसानम्, अतिसुरभि-चन्दन-अनुलेपन-धवलित-उरःस्थलम्, उपरिविन्यस्तकुङ्कमस्थासकम्, अमलकलधौतपट्टायतम् अष्टमीचन्द्रशकलाकारम् ऊर्णासनाथं ललाटदेशमुद्वहन्तम्, अपरिमितपरिवारजनमप्यद्वितीयम्, आविरतप्रवृत्तदानमप्यमदम्, राजानमद्राक्षीत् ॥
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि। यतः स मां तदवस्थमालोक्य समुपजातदयः समीपवर्तिनमषिकुमारकम् अन्यतममब्रवीत् — ‘ अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवितव्यम् । तथा हि - अतिदवीयस्तया प्रपातस्य, अल्पावशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पतति । मुहुर्मुहुरत्युल्बणं श्वसिति । मुहुर्मुहुश्चञ्चुपुटं विवृणोति । न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न वियुज्यते, तावदेव गृहाणेमम् । अवतारय सलिलसमीपम् ’ इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीपमादाय स्वयं मां मुक्तप्रयत्नमुत्तानितमुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं च समुपजातनवीनप्राणमुपतटप्ररूढस्य नलिनीपलाशस्य जलशिशिरायां छायायां निधाय, समुचितमकरोत्स्नानविधिम् । अभिषेकावसाने च प्रत्यग्रभग्नैरुन्मुखो रक्तारविन्दैर्भगवते सवित्रे दत्त्वार्घमुदतिष्ठन् । आगृहीतधौतधवलवल्कल मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् ॥
अनतिदूरमिव गत्वा दिशि दिशि सदासंनिहितकुसुमफलैः तारकावर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमनवरतम् अतिधवलमुत्सृजद्भिः काननैरुपगूढम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिः उद्धूयमानधूमलेखाच्छलेन आबध्यमानस्वर्गमार्गगमनसोपानसेतुमिवोपलक्ष्यमाणम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, परिचितशाखामृगकराकृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, उपचर्यमाणातिथिवर्गम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितम् अनृतस्य, अश्रुतपूर्वम् अनङ्गस्य, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् ॥
यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेचु, चञ्चलता कदलीदलेषु न मनःसु ॥
तस्य चैवंविधस्य मध्यभागमण्डलमलङ्कुर्वाणस्य रक्ताशोकतरोरधश्छायायाम् उपविष्टम्, आयामिनीभिः पलितपाण्डुराभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिर्जटाभिरुपशोभमानम्, अतिचपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवातताभिः कण्ठनाडीभिः निरन्तरसंबद्धकंधरम्, स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, शंतनुमिव प्रियसत्यव्रतम्, भगवन्तं जाबालिमपश्यम् ॥