कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Disable Parallel


अजातपक्षतया च नातिस्थिरसंचारस्य, मुहुर्मुहुर्मुखेन पततः, मुहुस्तिर्यङ्निपतन्तम् आत्मानमेकया पक्षपाल्या संधारयतः, क्षितितलसंसर्पणभ्रमातुरस्य, अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुन्मुखस्य स्थूलस्थूलं श्वसतः, धूलिधूसरस्य संसर्पतो मम समभून्मनसि — ‘ अतिकष्टास्वप्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति सर्वप्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते, यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । अहो सोढपितृमरणशोकदारुणं येन मया जीव्यते । उपकृतमपि नापेक्ष्यते । खलं हि खलु मे हृदयम् । मया हि, लोकान्तरगतायाम् अम्बायां नियम्य शोकवेगम्, आप्रसवदिवसात् परिणतवयसापि सता तैस्तैरुपायैर्मत्संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितः, तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वामी प्राणाः । यदुपकारिणमपि तातमद्यापि क्वापि गच्छन्तं नानुगच्छन्ति । सर्वथा न कञ्चिन्न खलीकरोति जीविततृष्णा । यदीगवस्थमपि मामयमायासयति जलाभिलाषः । मन्ये च, अगणितपितृमरणशोकस्य निर्घृणतैव केवलमियं मम सलिलपानबुद्धिः। अद्यापि दूर एव सरस्तीरम्। अस्फुटानि हि श्रूयन्ते सारसरसितानि । दिवसस्य चेयमतिकष्टा दशा वर्तते । रविरम्बरतलमध्यवर्ती स्फुरन्तमातपम् अनवरतमनलधूलिनिकरमिव विकिरति करैः । अधिकामुपजनयति तृषामातपस्पर्शसंतप्तपांसुपटलदुर्गमा भूमिः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि | अप्रभुरस्म्यात्मनः। सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्योपपादयेत् ’ इत्येवं चिन्तयत्येव मयि — तस्मात्सरसो नातिदूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा तापसकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा, सकलविषयोपभोगनिवृत्त्यर्थमुपपादितेन ललाटपट्टके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालङ्कृतः विषाणशिखरोत्खातामुद्वहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन तपोवनमृगेणानुयातः, तदेव कमलसरः सिष्णासुरुपागमत् ॥