यस्य क्षेत्रं नदी-तीरे भार्या च पर-सङ्गता । स-सर्पे च गृहे वासः कथं स्यात्तस्य निर्वृतिः ॥
Metre: अनुष्टुप्
सर्प-युक्ते गृहे वासो मृत्युरेव न संशयः । यद्ग्रामान्ते वसेत्सर्पस्तस्य स्यात्प्राण-संशयः ॥
Metre: अनुष्टुप्
अस्माकमपि तत्र-स्थितानां प्रतिदिनं प्राण-संशयः ।
स आह-नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः । उपाय-ज्ञोऽल्प-कायोऽपि न शूरैः परिभूयते ॥
भक्षयित्वा बहून्मत्स्यानुत्तमाधम-मध्यमान् । अतिलौल्याद्बकः कश्चिन्मृतः कर्कटक-ग्रहात् ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा ७ बक-कुलीरक-कथा
अस्ति कस्मिंश्चिद्वन-प्रदेशे नाना-जल-चर-सनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्ध-भावमुपागतो मत्स्यान्व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षाम-कण्ठः सरस्-तीरे उपविष्टो मुक्ता-फल-प्रकर-सदृशैरश्रु-प्रवाहैर्धरा-तलमभिषिञ्चन्रुरोद । एकः कुलीरको नाना-जल-चर-समेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे-माम ! किमद्य त्वया नाहार-वृत्तिरनुष्ठीयते ? केवलमश्रु-पूर्ण-नेत्राभ्यां स-निःश्वासेन स्थीयते ।