परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ । हृष्यति तद्-धन-लब्धो यद्वत्पुत्रेण जातेन ॥
Metre: उद्गीति (१२, १५, १२, १८)
पूर्णापूर्णे माने परिचित-जन-वञ्चनं तथा नित्यम् । मिथ्या-क्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥
Metre: आर्या (१२, १८, १२, १५)
द्विगुणं त्रिगुणं वित्तं भाण्ड-क्रय-विचक्षणाः । प्राप्नुवन्त्युद्यमाल्लोका दूर-देशान्तरं गताः ॥
Metre: अनुष्टुप्
इत्येवं सम्प्रधार्य मथुरा-गामीनि भाण्डान्यादाय शुभायां तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गल-वृषभ संजीवक-नन्दक-नामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः संजीवकाभिधानो यमुना-कच्छमवतीर्णः सम्पङ्क-पूरमासाद्य कलित-चरणो युग-भङ्गं विधाय विषसाद ।
अथ तं तद्-अवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्र-हृदयस्त्रि-रात्रं प्रयाण-भङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितम्- भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंह-व्याघ्र-समाकुले बह्व्-अपायेऽस्मिन्वने समस्त-सार्थस्त्वया सन्देहे नियोजितः । उक्तं च—
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं यत्स्वल्पाद्भूरि-रक्षणम् ॥
Metre: अनुष्टुप्
अथासौ तदवधार्य संजीवकस्य रक्षा-पुरुषान्निरूप्याशेष-सार्थं नीत्वा प्रस्थितः । अथ रक्षा-पुरुषा अपि बह्व्-अपायं तद्-वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः- स्वामिन्, मृतोऽसौ संजीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्र-हृदयस्तस्यौर्ध्व-देहिक-क्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । संजीवकोऽप्यायुः-शेषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैराप्यायित-शरीरः कथंचिदप्युत्थाय यमुना-तटमुपपेदे । तत्र मरकत-सदृशानि बाल-तृणाग्राणि भक्षयन्कतिपयैरहोभिर्हर-वृषभ इव पीनः ककुद्मान्बलवांश्च संवृत्तः । प्रत्यहं वल्मीक-शिखराग्राणि शृङ्गाभ्यां विदारयन्गर्जमान आस्ते । साधु चेदमुच्यते—
अरक्षितं तिष्ठति देव-रक्षितं सुरक्षितं देव-हतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृत-प्रयत्नोऽपि गृहे विनश्यति ॥
Metre: वंशस्थम्