कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 11 to 20 of 60 verses
Verse 11
उद्वेजयत्यङ्गुलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र । न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): उव्देजयतीति ॥ यत्र हिमाद्रौ । शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिक्लेशयत्यपि मार्गे ।श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धंरेण श्रोणिपयोधरेणार्ताः पीडिताः । आङ्पूर्वकद्दिच्छतेः क्तः । `उपसर्गादृति धातौ` (पा.6|1|91) इति वृध्दिः । अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्समासः । `स्यात्किंनरः किंपुरुषस्तुरंगवदनो मयुः`॥ इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति । न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः
अन्वयः: यत्र शिलीभूतहिमे अङ्गुलिपार्ष्णिभागान् उद्वेजयति मार्गे अपि श्रोणिपयोधरार्ताः अश्वमुख्यः मन्दां गतिं न भिन्दन्ति ।

Verse 12
दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): दिवाकरादिति ॥ यो हिमाद्रिर्दिवा दिवसे भीतं भयाविष्टमिव । उलूकमिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । `दिवाविभानिशाप्रभाभास्करे-` त्यादिना टप्रत्ययः । `भीत्रार्थानां भयहेतुः` (पा.1|4|25) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते । ननु क्षुद्रसंरक्षणमनर्हमित्याशङ्क्याह- क्षुद्र इति । उच्चै:- शिरसामुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः । अस्तीति शेषः । ममशब्दात्त्वप्रत्ययः । अर्थान्तरन्यासोऽलङ्कारः
अन्वयः: यो दिवाभीतम् इव गुहासु लीनम् अन्धकारं दिवाकरात् रक्षति । उच्चैःशिरसां शरणं प्रपन्ने क्षुद्रेऽपि सति इव नूनं ममत्त्वम् ।

Verse 13
लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः । यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): लाङ्गूलेति ॥ चमर्यो मृगीविशेषा इतस्ततो लाङ्गूलानि वालधयः । `पुच्छोऽस्त्री लोमलाङ्गूले वालहस्तश्च वालधिः` इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिंण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभ्रैः । `गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च` इति यादवः । `उपमानानि सामान्यवचनैः` (पा.2|1|55)इति समासः । वालव्यजनैश्चामरैर्यंस्य हिमाद्रेर्गिरिराजशब्दं गिरिराज इति संज्ञामर्थंयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः
अन्वयः: चमर्यः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः चन्द्रमरीचिगौरैः वालव्यजनैः यस्य गिरिराजशब्दम् अर्थयुक्तं कुर्वन्ति ।

Verse 14
यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किंपुरुषाङ्गनानाम् । दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यत्रेति ॥ यत्र हिमाद्रौ । अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुषाङ्गनानां किंनरस्त्रीणां यदृच्छया दैवगत्या दरीगृहद्वारेषु विलम्बिम्बिम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । `प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा` इत्यमरः (अ.को.2|6|121) । `तिरसोऽन्यतरस्याम्` (पा.8|3|42) इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालङ्कारः
अन्वयः: यत्र अंशुकाक्षेपविलज्जितानां किम्पुरुषाऽङ्गनानां यदृच्छया दरीगृहद्वारविलम्बिम्बिम्बा जलदाः तिरस्करिण्यो भवन्ति

Verse 15
भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः । यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): भागीरथीति । भागीरथीनिर्झरसीकराणां गङ्गाप्रवाहपाथ:- कणानाम् । कर्मणि षष्ठी । वोढा प्रापकः । वहेस्तृच् । मुहुः पुनः पुनः सद्यो वा । `पौनः पुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम्` इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरातकटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैत्यसौरभ्यमान्द्यान्युक्तानि । यस्य हिमाद्रेर्वायुः । अन्विष्टमृगैर्मार्गितमृगैः । श्रान्तैरिति भावः । `अन्विष्टं मार्गितम्` इत्यमरः (अ.को.3|1|104) । किरातैरासेव्यते
अन्वयः: भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः भिन्नशिखण्डिबर्हः यद्वायुः अन्विष्टमृगैः किरातैः आसेव्यते ।

Verse 16
सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः । पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सप्तर्षोति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । `दिक्संख्ये संज्ञायाम्` (पा.2|1|50) इति समासः । तेषां हस्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । `शेषाऽप्रधानसंतापे त्रिष्वन्यत्रोपयुज्यते` इति केशवः । कर्मण्यण्प्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः रोहन्तीति रुहाणि । `इगुपधज्ञाप्रीकिरः कः` (पा.3|1|135) इति कप्रत्ययः । अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्यं ऊर्ध्वमुखैर्मंयूखैः प्रबोधयति विकासयति। न कदाचिदधोमुखैः । अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम्
अन्वयः: सत्पर्षिहस्ताऽवचिताऽवशेषाणि यस्य अग्रसरोरुहाणि पद्मानि अधः परिवर्तमानः विवस्वान् ऊर्ध्वमुखैः मयूखैः प्रबोधयति ।

Verse 17
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च । प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः प्रभवस्तस्य भावस्तत्त्वम् । `यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः` इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । `सारो बले स्थिरांशे च` इत्यमरः (अ.को.3|3|179) । अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् । `सोमस्य राज्ञः कुरङ्ग इन्दोः श्रृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती` इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । `पत्यन्तपुरोहितादिभ्यो यक्` (पा.5|1|128) इति यक्प्रत्ययः । अन्वतिष्ठत् । ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे-`शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं विधिः` इति
अन्वयः: यस्य यज्ञाऽङ्गयोनित्वं धरित्रीधरणक्षमं सारं च अवेक्ष्य प्रजापतिः स्वयं कल्पितयज्ञभागं शैलाधिपत्यम् अन्वतिष्ठत् ।

Verse 18
स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ मेरोः सखा मेरुसखः । बन्धुसंपन्न इति भावः । स्थितिज्ञो मर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मनःसंकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे-- तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥` इति । आत्मानुरुपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । `उपाद्यमः स्वकरणे` इत्यात्मनेपदम् । `तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥` इति ब्रह्माण्डपुराणात्
अन्वयः: मेरुसखः स्थितिज्ञः स पितॄणां मानसीं कन्यां मुनीनाम् अपि माननीयाम् आत्माऽनुरुपां मेनां कुलस्य स्थितये विधिना उपयेमे ।

Verse 19
कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे । मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्याः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कालक्रमेणेति ॥ अथ कालक्रमेण । गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरुपयोग्ये सौन्दर्यानुगुणे । यद्वा रुप्यते निश्चीयतेऽनेनेति रुपं ज्ञानं तद्योग्ये । शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपत्न्या मेनकाया गर्भोऽभवत्
अन्वयः: अथ कालक्रमेण तयोः स्वरुपयाग्ये सुरतप्रसङ्गे मनोहरं यौवनम् उद्वहन्त्याः भूधरराजपत्न्याः गर्भः अभवत् ।

Verse 20
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् । क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असूतेति । सा मेना नागवधूपभोग्यम् । नगकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति- पक्षच्छिदि पक्षच्छेत्तरि । `सत्सूद्विषे-` त्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। संबन्धसामान्ये षष्ठी । जानातीति ज्ञः । `इगुपधज्ञा-` इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । `आतोऽनुपसर्गे कः` (पा.3|2|3) इति कप्रत्ययः । `उपपदमतिङ्` (पा.2|2|19) इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । `पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ।` इत्यभ्रातृकन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकपर्वतमिति तात्पर्यार्थः
अन्वयः: सा नागवधूपभोग्यम् अम्भोनिधिबद्धसख्यं पक्षच्छिदि वृत्रशत्रौ क्रुद्धे अपि कुलिशक्षतानाम् अवेदनाज्ञं मैनाकम् असूत ।

Showing 11 to 20 of 60 verses