कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥
Anvaya: उत्तरस्यां दिशि देवतात्मा हिमालयः नाम नगाधिराजः पूर्वापरौ तोयनिधी वगाह्य पृथिव्याः मानदण्डः इव स्थितः अस्ति ।
Metre: उपजातिः
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे । भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
Anvaya: सर्वशैला यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धरि स्थिते (सति)भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां धरित्रीं दुदुहुः ।
Metre: उपजातिः
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥
Anvaya: अनन्तरत्नप्रभवस्य यस्य हिमं सौभाग्यविलोपि न जातम् । हि एको दोषो गुणसन्निपाते इन्दोः किरणेषु अङ्क इव निमज्जति ।
Metre: उपजातिः
यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥
Anvaya: च यः अप्सरोविभ्रममण्डनानां संपादयित्रीं बलाहकच्छेदविभक्तरागां धातुमत्ताम् अकालसन्ध्याम् इव शिशरैः बिभर्ति ।
Metre: उपजातिः
आमेखलं संचरतां घनानां च्छायामधःसानुगतां निषेव्य । उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥
Anvaya: सिध्दा आमेखलं सञ्चरतां घनानाम् अधः सानुगतां छायां निषेव्य वृष्टिभिः उद्वेजिताः (सन्तः)यस्य आतपवन्ति श्रृङ्गाणि आश्रयन्ते ।
Metre: इन्द्रवज्रा
पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् । विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥
Anvaya: यस्मिन् किराताः तुषारस्त्रुतिधौतरक्तं हतद्विपानां केसरिणां पदम् अदृष्ट्वा अपि नखरन्ध्रमुक्तैः मुक्ताफलैः मार्गं विदन्ति ।
Metre: उपजातिः
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥
Anvaya: यत्र धातुरसेन न्यस्ताऽक्षराः कुञ्जरबिन्दुशोणाः भूर्जत्वचः विद्याधरसुन्दरीणाम् अनङ्गलेखक्रियया उपयोगं व्रजन्ति ।
Metre: उपजातिः
यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन । उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥
Anvaya: यो दरीमुखोत्थेन समीरणेन कीचकरन्ध्रभागान् पूरयन् उद्गास्यतां किन्नराणां तानप्रदायित्वम् उपगन्तुम् इच्छति इव ।
Metre: उपजातिः
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् । यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥
Anvaya: यत्र करिभिः कपोलकण्डूः विनेतुं विघट्टितानां सरलद्रुमाणां स्नुतक्षीरतया प्रसूतो गन्धः सानूनि सुरभीकरोति ।
Metre: उपजातिः
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥
Anvaya: यत्र रजन्यां दरीगृहोत्सङ्गनिषक्तभास ओषधयः वनितासखानां वनेचराणाम् अतैलपूराः सुरतप्रदीपा भवन्ति ।
Metre: उपेन्द्रवज्रा