अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥
Metre: प्रमिताक्षरा
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां । मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥
Metre: आर्यागीति (१२, २०, १२, २०)
विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः । अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥
Metre: प्रमिताक्षरा
अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥
Metre: प्रमिताक्षरा
उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः । करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदम् ॥
Metre: प्रमिताक्षरा
प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥
Metre: प्रमिताक्षरा
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥
Metre: प्रमिताक्षरा
गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥
Metre: प्रमिताक्षरा
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि । रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥
Metre: गीति (१२, १८, १२, १८)
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥
Metre: प्रमिताक्षरा