रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 71 verses
Verse 1
अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसोरमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम्। अत एव साक्षात् प्रत्यक्षम्। `साक्षात्प्रत्यक्षतुल्ययोः` इत्यमरः (अ.को.3|3|258)। स्कन्देन युक्तां देवसेनामिव। देवसेना नाम देवपुत्री स्कन्दपत्नी तामिव स्थितां स्वसारं भगिनीमुन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव। उपजातिवृत्तं सर्गेऽस्मिन् ॥

Verse 2
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सेनेति॥ भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेशेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः। किंच विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिविशान् शिबिराणि जग्मुः ॥

Verse 3
सां निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सांनिध्येति॥ तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्या। संनिधइरेव सांनिध्यम्। तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किस। `किल`इति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम्। तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ॥

Verse 4
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तावदिति॥ `यावत्तावञ्च साकल्ये` इत्यमरः। तावत्प्रकीर्णा साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम्। इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यङ्काश्चिह्नानि यस्य तम्। ध्वजानां छाया ध्वजच्छायम्, `छाया बाहुल्ये` (पा.2।4।22) इति नपुंसकत्वम्। तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढावध्वा सह प्राप विवेश ॥

Verse 5
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचिष्टितानि ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः। नपुंसके भावे क्तः। बभूवुः ॥

Verse 6
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आलोकेति॥ सहसाऽऽलोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः। उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः। अत एव वांन्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः। करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः। `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अ.को.2|6|99)। तावदालोकमार्गप्राप्तिपर्यन्तं बद्धुं बन्धनार्थं न संभावितो न चिन्तित एव ॥

Verse 7
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्‌द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रसाधिकेति॥ काचित्। प्रसाधिकयाऽलंकर्त्र्या लम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव। अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः। ``हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्`(का.सू.) इति वामनः। तमाक्षिप्याकृष्य। उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती। आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ॥

Verse 8
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): विलोचनमिति॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य। संभ्रमादिति भावः। दद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ। `दक्षिण`ग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम्। `सव्यं हि पूर्वं मनुष्या अञ्जते` इति श्रुतेः ॥

Verse 9
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): जालेति॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम्। `नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि` इति विश्वः। न बबन्ध। किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन। प्रभैव नाभेराभरणमभूदिति भावः। हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ॥

Verse 10
अर्धाञ्चिता सत्वरमुत्थितायाः पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अर्धेति॥ सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाद्दुरुत्क्षिप्ते। `डुमिञ्प्रक्षेपणे` इति धातोः कर्मणि क्तः। पदे पदे प्रतिपदम्। वीप्सायां द्विर्भावः। गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सा। आसीत् ॥

Showing 1 to 10 of 71 verses