अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)
अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः । अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥
नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
तव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण । वितथयति न जानातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ॥
सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४