अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् । विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य । तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः । कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥
Metre: पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः । उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥
प्रियकरपरिमार्गदङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः । अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥
Metre: मालिनी