रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Disable Parallel


Showing 1 to 10 of 86 verses
Verse 1
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु । वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। मरुताममराणाम्। `मरुतौ पवनामरौ` इत्यमरः (अ.को.3|3|66)। आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ॥

Verse 2
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): रतेरिति॥ `रतिः स्मरप्रियायां च रागे च सुरते स्मृता` इति विश्वः। रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन। गृहीतरत्यनुनयेनेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव, `इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यति` इति निश्चिक्युरित्यर्थः। सर्वातिशयसौन्दर्यं मत्वेति भावः ॥

Verse 3
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): वैदर्भेति॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लप्तेन सुविहितेन सोपानपथेन। मृगराजशावः सिंहपोतः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। शिलानां विभङ्गैर्भङ्गीस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव। आरुरोह ॥

Verse 4
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): परार्ध्येति॥ परार्धअयाः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनापपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्टितवान् सोऽजः। मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह। `सेनानीरग्निभूर्गुहः` इत्यमरः (अ.को.1|1|49)। भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत्। मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपगीति भावः ॥

Verse 5
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तास्विति॥ तासु राजपरम्परासु श्रिया लक्ष्म्या कार्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः। तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः। प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट। `द्युद्भ्यो लुङि` (पा.1।3।91) इति परस्मैपदम्। द्युतादित्वादङ्प्रत्ययः। तस्मिन्समये प्रत्येकं संक्रांन्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ॥

Verse 6
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति॥ महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम्। उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये। कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव। `पञ्चैते देवतरवो मन्दारः पारिजातकः। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्॥` इत्यमरः। स रघुसूनुरेव धाम्ना तेजसा। `भूम्ना` इति पाठेऽतिशयेनेत्यर्थः। रराज। अत्र `कल्पद्रुम`शब्दः पञ्चान्यतमविशेषवचनः। उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम्। कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ॥

Verse 7
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): नेत्रेति॥ पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः। स एव सर्वोत्कर्षेण ददृश इत्यर्थः। कथमिव? मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे। रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः। द्विरेफा भृङ्गा इव। द्विपस्य `वन्य` विशेषणै द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ॥

Verse 8
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथान्वयज्ञै राजवंशाभिज्ञैर्बन्दिभिः स्तुतिपाठकैः। `बन्दिनः स्तुतिपाठकाः` इत्यमरः (अ.को.2|8|97)। सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति। विवेशेत्युत्तरेण संबन्धः। एवमुत्तरत्रापि योज्यम्। संचारिते समन्तात्प्रचारिते। अगुरुंसारो योनिः कारणं यस्य तस्मिन् धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति अतिक्रम्य गच्छति सति ॥

Verse 9
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): पुरोपकण्ठेति॥ किंच, पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ मेघध्वनिसादृश्यात्ताण्डवकारणे। प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन्। मङ्गलार्थे मङ्गलप्रयोजनके । तूर्यस्वने वाद्यघोषे। परितः सर्वतो दिगन्तान्मूर्च्छति व्याप्नुवति सति ॥

Verse 10
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मनुष्येति॥ पतिं वृणोतीति पतिंवरा स्वयंवरा। `अथ स्वयंवरा। पतिंवरा च वर्याथ` इत्यमरः। `संज्ञायां भृतॄवृजि-` (पा.3।2।46) इत्यादिना खच्प्रत्ययः। क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं वेवेश ॥

Showing 1 to 10 of 86 verses