रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 88 verses
Verse 1
स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम्। पुरोहितादित्वाद्यक्। प्रतिपद्य प्राप्य। दिनान्ते सायंकाले सवित्रा सूर्येण निहितं तेजः प्रतिपद्य हुताशनोऽग्निरिव। अधिकं बभौ। `सौरं तेजः सायमग्निं संक्रमते। आदित्यो वा अस्तं यन्नग्निमनुप्रविशति। अग्निं वा आदित्यः सायं प्रविशति।` इत्यादिश्रुतिप्रामाण्यम् ॥

Verse 2
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): दिलीपेति॥ दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्यं पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य संजातः प्रधूमितोऽग्निः संतापाग्निरुत्थित इव प्रज्वलित इव। पूर्वाभ्यधिकः संतापोऽभूदित्यर्थः। राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ॥

Verse 3
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुरुहूतेति॥ पुरुहूतध्वज इन्द्रध्वजः। स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे-`एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर!। पर्यन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः॥` इति। `चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्टितम्। आहुः शक्रध्वजं नाम पौरलोकसुखावहम्॥` इति च। पुरुहूतध्वजस्येव तस्य रघोर्नवमभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः। उदूर्द्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससंतानाः प्रजाः जनाः। `प्रजा स्यात्संततौ जने` इत्युत्रयत्राप्यमरः। ननन्दुः ॥

Verse 4
सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सममिति॥ द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामिना। `कर्तर्युपमाने` (पा.3।2।79)इति, `सुप्यजातौ-` (पा.3।2।78)इति च णिनिः। तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम्। किं तद्वयम्? पितुरागतं पित्र्यम्। `पितुर्यत-` (पा.4।3।79)इति यत्प्रत्ययः। सिंहासनम्। अखिलमरीणां मण्डलं राष्ट्रं च ॥

Verse 5
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण मेजे साम्राज्यदीक्षितम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): छायेति॥ अत्र रघोस्तेजोविशेषेण स्वयं संनिहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते-पद्मा लक्ष्मीः। `लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया` इत्यमरः (अ.को.1|1|31)। सा स्वयमदृश्या किल। `किल` इति संभावनायाम्। सती छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन। न तु स्वरूपतो दृश्येन। `छायामण्डलम्` इत्यनेनानातपज्ञानं लक्ष्यते। `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः` इत्युभयत्राप्यमरः। पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे। अन्यथा कथमेतादृशी कान्तिसंपत्तिरिति भावः ॥

Verse 6
परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): परिकल्पितेति॥ सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु। `नित्यवीप्सयोः` (पा.8।1।4) इति वीप्सायां द्विर्वचनम्। बन्दिषु परिकल्पितसांनिध्या कृतसंनिधाना सती स्तुत्यं स्तोत्रार्हं तं रघुम्। अर्थ्याभिरर्थादनपेताभिः। `धर्मपथ्यर्थन्यायादनपेते` (पा.4।4।92)इति यत्प्रत्ययः। स्तुतिभिः स्तोत्रैः। उपतस्थे। देवताबुद्ध्या पूजितवतीत्यर्थः। देवतात्वं च-`ना विष्णुः वृथिवीपतिः` इति वा लोकपालात्मकत्वाद्वेत्यनुसंधेयम्। एवं च सति`उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु`(वा.914) इति वक्तव्यादात्मनेपदं सिद्ध्यति॥

Verse 7
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्धसुंधरा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मन्विति॥ वसुंधरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्भुक्ता यद्यपि। भुक्तैवेत्यर्थः। `यद्यपि` इत्यवधारणे। `अप्यर्थे यदि वार्थे `स्यात्` इति केशवः। तथापि तस्मिन् राज्ञि। अन्यः पूर्वो यस्याः साऽन्यपूर्वा। अन्यपूर्वा न भवतीत्यनन्यपूर्वा। अनन्योपभुक्तेवासीत्। तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः॥

Verse 8
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ हि यस्मात्कारणात् स रघुर्युक्तदण्डतया यथापराधदण्डतया सर्वस्य लोकस्य मन आददे जहार। क इव? अतिशीतोऽत्युष्णो वा न भवतीति नातिशीतोष्णः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। दक्षिणो दक्षिणदिग्भवो नभस्वान् वायुरिव। मलयानिल इवेत्यर्थः। `युक्तदण्डतया` इत्यत्र कामन्दकः-`उद्वेजयति तीक्ष्णेन मृदुना परिभूयते। दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते ॥` इति ॥

Verse 9
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मन्देति। तेन रघुणा प्रजा गुरौ दिलीपविषये। सहकारोऽतिसौरभश्चूतः। `आम्रश्चूतो रसालोऽसौ सहकारोऽसौरभः` इत्यमरः। तस्य फलेन पुष्पोद्गमे पुष्पोदय इव। ततोऽपि गुणाधिकतया हेतुना मन्दोत्कण्ठा अल्पौत्सुक्याः कृताः। गुणोत्तरश्चोत्तरो विषयः पूर्वं विस्मारयतीति भावः॥

Verse 10
नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् । पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नयविद्भिरिति॥ नयविद्भिर्नीतिशास्त्त्रज्ञैर्नवे तस्मिन्राज्ञि विषये। तमधिकृत्येत्यर्थः। सद्धर्मयुद्धादिकम्, असत् कूटयुद्धादिकं चोपदर्शितम्। तस्मिन्राज्ञि पूर्वः पक्ष एवाभवत्। संकान्त इत्यर्थः। उत्तरः पक्षो नाभवत्। न संक्रान्त इत्यर्थः। तत्र सदसतोर्मध्ये सदेवाभिमतं नासत्। तदुद्भावनं तु ज्ञानार्थमेवेत्यर्थः। पक्षः साधनयोग्यार्थः। `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति केशवः॥

Showing 1 to 10 of 88 verses