भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Disable Parallel


Showing 1 to 10 of 756 verses
अथ

श्रृङ्गारप्रकाशे चतुर्थः प्रकाशः

क्रियाद्यर्थचतुष्टयप्रकाशो नाम

(१. क्रिया)

तत्र प्रकृत्यादिशब्दप्रत्याय्याः क्रियाकालकारकपुरुषोपाधिप्रधानोपस्कारार्थे— प्रातिपदिकार्थविभक्त्यर्थवृत्त्यर्थपदार्थवाक्‍यार्थरूपा द्वादश भेदाः। तेषु कारकाणां प्रवृत्तिविशेषः क्रिया, तां धात्वर्थ इत्यमनन्ति (मभा. ३. १. ३)।

धातवश्‍च त्रेधा— अस्त्यर्थाः, भवत्यर्थाः, करोत्यर्थाश्‍च। तत्र

येषां कर्तार उदासते ते अस्त्यर्थाः; यथा— अस्ति विद्यते ध्रियते तिष्ठति आस्ते वर्तते इत्यादि।

येषां विकुर्वते ते भवत्यर्थाः; यथा— भवति संजायते वर्धते विपरिणमते अपक्षीयते विनश्‍यति इत्यादि।

येषां प्रयुञ्जते ते करोत्यर्थाः; यथा— करोति विधत्ते जनयति निर्वर्तयति साधयति उत्पादयति। तत्र

अस्ति—करोति—भवतीनां साम्यावस्थानं निर्विकारमनाद्यन्तं शब्दब्रह्मेत्याचक्षते। तथैवंविधानेकार्थवाचिना भवतिनैवोमिति व्यपदिशन्ति। तस्य यदा अस्तिताहेतुरविद्या— निबन्धनोऽर्थविपरिणामरूपः प्रथमविकारो, अस्तिरुदयते तदा। अस्तेर्नास्तिप्रतियोगित्वादस्ति नास्ति वेत्येकमेवैतदुभयथापि प्रथामयते। यन्नास्ति तद् भवामीति चापेक्षायां, तद्भवतोऽस्य भवति—नामा द्वितीयविकारः परिप्लवते। ततो यद्भवति तस्य तस्य चान्यद्—भवतो मिथ्याभिनिवेशान्मिथः प्रयोज्यप्रयोजकत्वं (सं) भावयति—संज्ञकः तृतीयविकारः करोतिरित्याख्यायते (वाप. ३.३४–३६ जाति)।

Showing 1 to 10 of 756 verses