शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1 to 10 of 68 verses
Verse 1
निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां । नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥
Metre: उपजातिः

Verse 2
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः । विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥
Metre: उपजातिः

Verse 3
क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः । श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥
Metre: उपेन्द्रवज्रा

Verse 4
सहस्रसंख्यैर्गगनं पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 5
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि । अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥
Metre: उपेन्द्रवज्रा

Verse 6
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् । कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥
Metre: उपजातिः

Verse 7
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः । प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥
Metre: उपजातिः

Verse 8
विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः । नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥
Metre: उपेन्द्रवज्रा

Verse 9
राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥
Metre: इन्द्रवज्रा

Verse 10
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः । भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥
Metre: उपजातिः

Showing 1 to 10 of 68 verses