नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Disable Parallel


Showing 1 to 10 of 123 verses
Verse 1
अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशः कुसुमं धनुः । श्रुतिपथोपगतं सुमनस्तया तमिषुमाशु विधाय जिगाय ताम् ॥
Metre: द्रुतविलम्बितम्

Verse 2
यदतनुज्वरभाक्तनुते स्म सा प्रियकथासरसीरसमज्जनम् । सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा समपद्यत ॥
Metre: द्रुतविलम्बितम्

Verse 3
ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतवेगतः । स्थितिविरोधकरीं द्व्यणुकोदरी तदुदितः स हि यो यदनन्तरः
Metre: द्रुतविलम्बित

Verse 4
अतितमां समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् । अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः ॥
Metre: द्रुतविलम्बितम्

Verse 5
किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् । तदभिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥
Metre: द्रुतविलम्बितम्

Verse 6
कुसुमचापजतापसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् । अहरहर्वहदभ्यधिकाधिकां रविरुचिग्लपितस्य विधोर्विधाम् ॥
Metre: द्रुतविलम्बित

Verse 7
तरुणतातरणिद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तदा । अनलसंगतितापमुपैतु नो कुसुमचापकुलालविलासजम् ॥
Metre: द्रुतविलम्बितम्

Verse 8
अधृत यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा । स्पृशति तत्कदनं कदलीतरुः यदि मरूज्वलदूषरदूषितः ॥
Metre: द्रुतविलम्बित

Verse 9
स्मरशराहतिनिर्मितसंज्वरं करयुगं हसति स्म दमस्वसुः । अनपिधानपतत्तपनातपं तपनिपीतसरःसरसीरुहम् ॥
Metre: द्रुतविलम्बित

Verse 10
मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः । निबिडपीनकुचद्वययन्त्रणा तम=पराधमधात्प्रतिबध्नती ॥
Metre: द्रुतविलम्बित

Showing 1 to 10 of 123 verses