कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Disable Parallel


अथ वचनानन्तरमेव प्रवेशितम्, उभयतः खलीनकनककटकावलग्नाभ्यां पदे पदे कृताकुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्, ऊर्ध्वकरपुरुषप्राप्यपृष्टभागम्, अतिनिष्ठुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण हेषारवेण निर्भर्त्सयन्तमिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, त्रैलोक्यसञ्चरणसहायमिव मारुतस्य, वेगसब्रह्मचारिणमिव मनसः, सकलभुवनार्घार्हमश्वातिशयमिन्द्रायुधमद्राक्षीत् ॥

दृष्ट्वा च तमदृष्टपूर्वमशेषलक्षणोपपन्नमश्वरूपातिशयम्, अतिधीरप्रकृतेरपि चन्द्रापीडस्य पस्पर्श विस्मयो हृदयम् । आसीश्चास्य मनसि — “ सरभसविवर्तनवलितवासुकिभ्रमितमन्दरेण मथ्नता जलनिधिजलम्, इदमश्वरत्नमनभ्युद्धरता, किं नाम रत्नमुद्धृतं सुरासुरलोकेन । उच्चैःश्रवसा विस्मितहदयो वञ्चितः खलु जलनिधिना शतमखः । मन्ये च भगवतो नारायणस्य चक्षुर्गोचरतामियता कालेन नायमुपगतः, येनाद्यापि तां गरुडारोहणव्यसनितां न परित्यजति । अहो खल्वतिशयितत्रिदशराजसमृद्धिरियं तातस्य राज्यलक्ष्मीः, यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरणतामुपगच्छन्ति । अतितेजस्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । दैवतान्यपि हि मुनिशापवशादुज्झितनिजशरीरकाणि शापवचनोपनीतानि शरीरान्तराण्यध्यासत एव । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तःकरणमस्य दिव्यताम् ” इति विचिन्तयन्नेवारुरुक्षुरासनादतिष्ठत् ॥

मनसा च, तं तुरंगममनुपसृत्य ‘ महात्मन्नर्वन्, योऽसि सोऽसि । नमोऽस्तु ते । सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि देवतान्यप्यानुचितपरिभवभाञ्जि भवन्ति ’ इत्यामन्त्रयांबभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरःकेसरसटाहत्याकूणिताकेकरतारकेण तिर्यक्चक्षुषा विलोक्य हेषारवमकरोत् । अथानेन मधुरहेषितेन दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीडः । समारुह्य तं प्रादेशमात्रमिव त्रैलोक्यमखिलं मन्यमानो निर्गत्य, अतिनिष्ठुरेण खुरपुटानां रवेण हेषितेन च बधिरीकृतसकलभुवनविवरमदृष्टपर्यन्तमश्वसैन्यमपश्यत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन सकलमेव सञ्चचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्यशिरसः परस्परोत्पीडनकुपिततुरंगमनिवारणायस्ता राजपुत्रास्तं पर्यवारयन्त । एकैकशश्च प्रतिनामग्रहणमावेद्यमाना वलाहकेन ते दूरावनतैः शिरोभिः प्रणेमुः ॥