कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Enable Parallel


सहजा चास्याजस्रमभ्यस्यतो वृकोदरस्येव शैशव एवाविर्बभूव सर्वलोकविस्मयजननी महाप्राणता । एकैकेन कृपाणप्रहारेण बाल एवं तालतरून् मृणालदण्डानिव लुलाव । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः. सर्वाभिरन्याभिः कलाभिरनुचकार तं वैशम्पायनः । चन्द्रापाडस्य तु सकलकलाकलापपरिचयबहुमानेन शुकनासगौरवेण सहपांसुक्रीडनतया च सर्वविस्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तं न क्षणमपि विरहयांचकार ॥

एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य यौवनारम्भः प्रादुर्भवन् रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनोरथैः सहापूर्यतारुदण्डद्वयम् । स्वरेण सह गम्भीरतामाजगाम हृदयम् ॥

एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसकलकलाविज्ञानम् अधीताशेषविद्यं चावगम्य, अनुमोदितमाचार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं वलाहकनामानमाहूय प्राहिणोत् ॥

स गत्वा विद्यागृहं द्वाःस्थैः समावेदितः प्रविश्य, शिरसा प्रणम्य, सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमात्रं वलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजिज्ञापत् — “ कुमार, महाराजः समाज्ञापयति — ‘ पूर्णा नो मनारथाः । अधीतानि शास्त्राणि । शिक्षिताः सकलाः कलाः । गतोऽसि सर्वास्वायुधविद्यासु परां प्रतिष्ठाम् । अनुमतोऽसि निर्गमाय विद्यागृहात्सर्वाचार्यैः । उपगृहीतशिक्षमवगतसकलकलाकलापं पौर्णमासीशशिनमिव नवोद्गतं पश्यतु त्वां जनः । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमत्रभवतो दशमो वत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपिण्डितेनामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलाभ्यो मातृभ्यः, अभिवाद्य च गुरून्, अपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि । सम्मानय राजलोकम् । पूजय द्विजातीन् । परिपालय प्रजाः । आनन्दय बन्धुवर्गम् । ’ अयं च ते त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा ‘ जलधिजलादुत्थितमयोनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम् ’ इति सन्दिश्य प्रहितः । तदयमनुगृह्यतामधिरोहणेन । इदं च विनयोपपन्नानां कुलक्रमागतानां राजपुत्राणां सहस्रं परिचर्यार्थमनुप्रेषितं तुरङ्गमाधिरूढं द्वारि प्रणामलालसं प्रतिपालयति ” इत्यभिधाय विरतवचसि वलाहके, चन्द्रापीडः पितुराज्ञां शिरसि कृत्वा, नवजलधरध्वानगम्भीरया गिरा ‘ प्रवेश्यतामिन्द्रायुधः ’ इति निर्जिगमिषुरादिदेश ॥