आकुञ्चिताभ्यामथ पक्षतिभ्यां नमोविभागात्तरसावतीर्य । निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥
Metre: उपजातिः
आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार । द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तः करणं चकार ॥
Metre: उपजातिः
नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥
Metre: उपजातिः
हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥
Metre: उपजातिः
तामिङ्गितैरप्यनुमाय मायाम् अयं न भैम्या वियदुत्पपात । तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन ॥
Metre: उपजातिः
व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः । परस्परामर्पितहस्ततालं तत्कालमालीभिरहस्यतालम् ॥
Metre: उपजातिः
उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः । यान्वेति मां दुह्यति मह्ममेव सात्रेत्युपालम्भि तयालिवर्गः ॥
Metre: इन्द्रवज्रा
धृताल्पकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः । श्यामाथ हंसस्य करानवाप्तेः मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥
Metre: उपजातिः
शस्ता न हंसाभिमुखी पुनस्ते यात्रेति ताभिश्छलहस्यमाना । साह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः ॥
Metre: इन्द्रवज्रा
हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन्वमासे । वैलक्ष्यहेतोर्गतिमेतदीयाम् अग्रेऽनुकृत्योपहसन्निवोच्चैः ॥
Metre: उपजातिः