कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 1 to 10 of 76 verses
Verse 1
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-` इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः
अन्वयः: मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।

Verse 2
स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षमया तु न । `न लोकाव्ययनिष्ठाखलर्थतृनाम्` (पा.2|3|69) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्ध्नाप्रतिनन्द्य सम्भाव्य मिथो रहसि । `मिथोऽन्योन्यं रहस्यपि` इत्यमरः (अ.को.3|3|271) । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । `प्रोपाभ्यां समर्थाभ्याम्` (पा.1|3|42) इत्यात्मनेपदम्
अन्वयः: स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।

Verse 3
आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह--लोकेषु ते तव यत्करणीयं कर्तवन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन वर्धय । क्वचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्तपाठे णिजर्थे यत्नः कार्यः न च मे किञ्चिदसाध्यमस्तीत्याह-
अन्वयः: हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।

Verse 4
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): केनेति ॥ पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट्
अन्वयः: हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।

Verse 5
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असंमत इति ॥ तवासंमतः कः पुनर्भवः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भ्रूभिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्टतु । आरेचितलक्षणं तु- `स्याद्‌भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्‌भ्रूकुटिर्विदुः ॥` इति
अन्वयः: (हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां कटाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।

Verse 6
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अध्यापितस्येति ॥ उशनसा शुक्रेण नीतिं नीतिशास्त्रमध्यापितस्यापि अपि शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । `गतिबुद्धि-` इत्यादिना द्विकर्मकादिण्धातोर्ण्यन्तात्प्रधाने कर्मणि क्तः `अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः` ।इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्बूतो येन सोऽहम् । `प्रार्थने प्रणिधिः चरे` इति यादवः । प्रवृद्ध ओघः सिन्धोर्नद्यास्तटाविव पीडयामि वद
अन्वयः: उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।

Verse 7
कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कामिति । एकः पतिर्यस्याः सैकपत्नी पतिव्रता । `नित्यं सपत्न्यादिषु` (पा.4|1|35) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीलां दुःखस्वभावाम् । दृढव्रतामित्यर्थः । `शीलं स्वभावे सद्‌वृत्ते` इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वच्चितं प्रविष्टां कां नितम्बिनीं नारीं मुक्तलज्जां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । `विभाषा ग्रहः` (पा.3|1|143) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद्‌भ्रंशयिष्यामीत्यर्थः ॥ एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-- `अहल्यायै जारः` इति
अन्वयः: एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?

Verse 8
कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कयेति ॥ हे कामिन्कामुक, सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरणं करिष्यामीति
अन्वयः: हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।

Verse 9
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रसीदेति ॥ हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्` इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभेतीति भावः । `भीत्रार्थानां भयहेतुः` इत्यपादानत्वात्पञ्चमी
अन्वयः: हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।

Verse 10
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ` । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । `शकि लिङ् च` (पा.3|3|172) इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । `कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते` इति शाश्वतः
अन्वयः: तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।

Showing 1 to 10 of 76 verses