चूडोत्तंसित-चन्द्र-चारु-कलिका-चञ्चच्-छिखा-भास्वरो लीला-दग्ध-विलोल-काम-शलभः श्रेयो-दशाग्रे स्फुरन् ।अन्तः-स्फूर्जद्-अपार-मोह-तिमिर-प्राग्-भारमुच्चाटयन्श्वेतः-सद्मनि योगिनां विजयते ज्ञान-प्रदीपो हरः ॥
Metre: शार्दूलविक्रीडितम्
भ्रान्तं देशमनेक-दुर्ग-विषमं प्राप्तं न किञ्चित्फलं त्यक्त्वा जाति-कुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मान-विवर्जितं पर-गृहेष्वाशङ्कया काकवत्तृष्णे जृम्भसि पाप-कर्म-पिशुने नाद्यापि सन्तुष्यसि ॥
Metre: शार्दूलविक्रीडितम्
उत्खातं निधि-शङ्कया क्षिति-तलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः । मन्त्राराधन-तत्-परेण मनसा नीताः श्मशाने निशाः प्राप्तः काण-वराटकोऽपि न मया तृष्णे सकामा भव ॥
Metre: शार्दूलविक्रीडितम्
खलालापाः सौढाः कथमपि तद्-आराधन-परैर्निगृह्यान्तर्- बाष्पं हसितमपि शून्येन मनसा । कृतो वित्त-स्तम्भ-प्रतिहत-धियामञ्जलिरपि त्वमाशे मोघाशे किम अपरमतो नर्तयसि माम् ॥
Metre: शिखरिणी
अमीषां प्राणानां तुलित-विसिनी-पत्र-पयसां कृते किं नास्माभिर्विगलित-विवेकैर्व्यवसितम् । यद्-आढ्यानामग्रे द्रविण-मद-निःसंज्ञ-मनसां कृतं माव-व्रीडैर्निज-गुण-कथा-पातकमपि ॥
Metre: शिखरिणी
क्षान्तं न क्षमया गृहोचित-सुखं त्यक्तं न सन्तोषतः सोढो दुःसह-शीत-ताप-पवन-क्लेशो न तप्तं तपः । ध्यातं वित्तमहर्-निशं नित्यमित-प्राणैर्न शम्भोः पदं तत्-तत्-कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥
Metre: शार्दूलविक्रीडितम्
भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥
Metre: उपजातिः
बलिभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥
Metre: अनुष्टुप्
विवेक-व्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता । जराजीर्णैश्वर्य-ग्रसन-गहनाक्षेप-कृपणस्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥
Metre: शिखरिणी
निवृत्ता भोगेच्छा पुरुष-बहु-मानोऽपि गलितः समानाः स्वर्-याताः सपदि सुहृदो जीवित-समाः । शनैर्यष्ट्युत्थानं घन-तिमिर-रुद्धे च नयने अहो मूढः कायस्तदपि मरणापाय-चकितः ॥
Metre: शिखरिणी