किरातार्जुनीयम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

किरातार्जुनीयम्

Disable Parallel


Showing 1 to 10 of 60 verses
Verse 1
ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः । बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडित्वन्तमिवाम्बुवाहम् ॥
Metre: उपजातिः

Verse 2
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । प्रसह्य चेतःसु समासजन्तमसंस्तुतानामपि भावमार्द्रम् ॥
Metre: उपेन्द्रवज्रा

Verse 3
अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषमिवेक्षितेन ॥
Metre: उपजातिः

Verse 4
धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिमेनःप्रणुदां श्रुतीनाम् । हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिमाबभाषे ॥
Metre: उपजातिः

Verse 5
अनाप्तपुण्योपचरैर्दुरापा फलस्य निर्धूतरजाः सवित्री । तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ॥
Metre: उपजातिः

Verse 6
अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः । आ संसृतेरस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ॥
Metre: इन्द्रवज्रा

Verse 7
श्रियं विकर्षत्यपहन्त्यघानि श्रेयः परिस्नौति तनोति कीर्तिम् । संदर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते ॥
Metre: उपजातिः

Verse 8
श्च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिमेति चक्षुः । समुज्झितज्ञातिवियोगखेदं त्वत्संनिधावुच्छ्वसतीव चेतः ॥
Metre: उपजातिः

Verse 9
निरास्पदं प्रश्नकुतूहलित्वमस्मास्वधीनं किमु निःस्पृहाणाम् । तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ॥
Metre: उपजातिः

Verse 10
इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥
Metre: उपजातिः

Showing 1 to 10 of 60 verses