कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Enable Parallel


ससंभ्रमपरिजनप्रसारितकरतलावलम्बनावष्टम्भेन वामजानुविन्यस्तहस्तपल्लवमुत्तिष्ठन्ती विलासवतीम् — ‘ अलमलमत्यादरेण । देवि, नोत्थातव्यम् ’ इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्टचामीकरचारुपादे धवलोपच्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् ॥

अथ तामुपारूढगर्भामालोक्य, हर्षभरमन्थरेण मनसा प्रस्तुतपरिहासो राजा — ‘ देवि, शुकनासः पृच्छति — यदाह कुलवर्धना किमपि, तत्किं तथैव ’ इत्युवाच । अथ अव्यक्तस्मितच्छुरितकपोलाधरलोचना लज्जया विलासवती तत्क्षणमधोमुखी तस्थौ ॥

ततः क्रमेण यथासमीहितगर्भदोहदसंपादनप्रमुदिता, पूर्णे प्रसवसमये, पुण्येऽहनि, अनवरतगलन्नाडिकाकलितकालकलैर्बहिरागृहीतच्छायैर्गणकैगृहीते लग्ने, प्रशस्तायां वेलायाम्, सकललोकहृदयानन्दकारिणं विलासवती सुतमसूत ॥

तस्मिञ्जाते, सरभसमितस्ततः प्रधावितस्य परिजनस्य चरणशतसंक्षोभचलितक्षितितलः, विस्फार्यमाणान्तःपुरजनाभरणझंकारमनोहरः, पूर्णपात्राहरणविलुप्यमानवसनभूषणः, राजकुले दिष्टवृद्धिसंभ्रमोऽतिमहानभूत् । अनन्तरं च मङ्गलपटहपटुरवसंवर्धितेन अनेकजनसहस्रकलकलबहुलेन त्रिभुवनमापूरयता उत्सवकोलाहलेन सान्तःपुराः सप्रकृतयः सराजलोकाः सबालवृद्धा ननृतुरागोपालमुन्मत्ता इव हर्षनिर्भराः प्रजाः ॥

पार्थिवस्तु तनयाननदर्शनोत्सवहृतहृदयोऽपि, दिवसवशेन मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते, निवारितनिखिलपरिजन:, शुकनासद्वितीयः, मणिमयमङ्गलकलशयुगलाशून्येन संनिहितकनकमयहलमुसलयुगेन बन्दनमालान्तरालघटितघण्टागणेन द्वारदेशेन विराजमानम्, उभयतश्च द्वारपक्षकयोर्मर्यादानिपुणेन हरिद्राद्रवविच्छुरणपरिपिञ्जराम्बरधारिणीं भगवतीं षष्ठीदेवीं कुर्वता विन्यस्तालक्तकपटलपाटलमध्यमभागौ सूर्याचन्द्रमसावाबध्नता चन्दनजलधवलितेषु भित्तिशिखरभागेषु पञ्चरागविचित्रचेलचीरकलापचिह्नामापीतपिष्टपङ्काङ्कितां वर्धमानपरम्परामन्यानि च प्रसवगृहमण्डनमङ्गलानि संपादयता पुरन्ध्रिवर्गेण समधिष्ठितम्, उपद्वारसंयतविविधगन्धकुसुममालालंकृतजरच्छागम्, अध्ययनमुखरद्विजगणविप्रकीर्यमाणशान्त्युदकलवम्, अनेकवृद्धाङ्गनारब्धसूतिकामङ्गलगीतिकामनोहरम्, अविच्छिन्नपठ्यमाननारायणनामसहस्रम्, सूतिकागृहमपश्यत् । अम्भः पावकं च स्पृष्ट्वा विवेश ॥

प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलासवत्याः, स्वप्रभासमुदयोपहतगर्भगृहप्रदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डलमिव सवितारम्, अपरसन्ध्यालोहितबिम्बमिव चन्द्रमसम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रचितावयवम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आह्लादहेतुमात्मजं ददर्श । विगतनिमेषनिश्चलपक्ष्मणा चक्षुषा पिबन्निव मनोरथसहस्रप्राप्तदर्शनं सस्पृहमीक्षमाणस्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने । समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्गप्रत्यङ्गान्यस्य निरूपयन्, प्रीतिविस्तारितलोचनो भूमिपालमवादीत् — “ देव, पश्य पश्य अस्य कुमारस्य गर्भसंपीडनवशादपरिस्फुटावयवशोभस्यापि माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथा हि — अस्य सन्ध्यांशुरक्तबालशशिकलाकारे ललाटपट्टे नलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । रक्तोत्पलकलिकालोहिततलौ भगवतो विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते ” इति ।