कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Disable Parallel


कतिपयदिवसापगमे च देवताप्रसादात् सरसीमिव प्रतिमाशशी विवेश गर्भो विलासवतीम् । शनैः शनैश्च प्रतिदिनमुपचीयमानगर्भा मन्दं मन्दं सञ्चचार । मुहुर्मुहुरनुबद्धविजृम्भिकम् आजिह्मितलोचना सालसं निशश्वास । तथावस्थां तामहरहः स्वयमनेकरसवाञ्छितपानभोजनाम् आलोक्य, इङ्गितकुशलः परिजनो विज्ञातवान् ॥

अथ तस्याः सर्वपरिजनप्रधानभूता कुलवर्धना नाम महत्तरिका, प्रशस्ते दिवसे प्रदोषवेलायाम्, अभ्यन्तरास्थानमण्टपगतम्, अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन समुपारूढविस्रम्भनिर्भरास्तास्ताः कथाः शुकनासेन सह कुर्वाणं भूमिपालमुपसृत्य, रहः कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् ॥

तेन तु तस्या वचनेनाश्रुतपूर्वेणासंभाव्येनामृतरसेनेव सिक्तसर्वाङ्गस्य राज्ञः शुकनासमुखे तत्क्षणं पपात चक्षुः । अनालोकितपूर्वं तु हर्षप्रकर्षमभिसमीक्ष्य भूपतेः, कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्ट्वा, तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्षस्य कारणमपश्यन्, शुकनासः स्वयमुत्प्रेक्ष्य, समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रकाशमाबभाषे — “ देव, किमस्ति किञ्चित् तस्मिन् स्वप्नदर्शने सत्यम् ? अत्यन्तमुत्फुल्ललोचना हि कुलवर्धना दृश्यते । देवस्यापीदमानन्दजलपरिप्लुतं तरलतारकं विकसदावेदयति महत्प्रहर्षकारणमीक्षणयुगलम् । उपारूढमहोत्सवश्रवणकुतूहलमुत्सुकोत्सुकं क्लाम्यति मे मनः । तदावेदयतु देवः किमिदम् ” इत्युक्तवति तस्मिन्, राजा विहस्याब्रवीत् — ‘ यदि सत्यमनया यथा कथितं तथा, सर्वमवितथं स्वप्नदर्शनम् । अहं तु न श्रद्दधे । कुतोऽस्माकमियती भाग्यसंपत् । अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम् । अवितथवादिनीमप्यहं कुलवर्धनामेवंविधानां कल्याणानामसंभावितमात्मानं मन्यमानः, विपरीतामिवाद्य पश्यामि । तदुत्तिष्ठ, स्वयमेव गत्वा किमत्र सत्यमिति देवीं पृष्टा ज्ञास्यामि ’ इत्यभिधाय विसृज्य सकलनरेन्द्रलोकम्, उन्मुच्य स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा, सह शुकनासेनोत्थाय, हर्षविशेषनिर्भरेण त्वर्यमाणो मनसा, पुरः ससंर्पिणीनामनिललोलस्थूलशिखानां प्रदीपिकानामालोकेन समुत्सार्यमाणकक्ष्यान्तरतिमिरसंहतिरन्तःपुरमयासीत् ॥

तत्र च सुकृतरक्षासंविधाने नवसुधानुलेपनधवलिते प्रज्वलितमङ्गलप्रदीपे पूर्णकलशाधिष्ठितद्वारपक्षके वासभवने, भूतिलिखितपत्रलताकृतरक्षापरिक्षेपं शिरोभागविन्यस्तधवलनिद्रामङ्गलकलशं गर्भोचितं शयनतलमधिशयानाम्, कनकपात्रपरिगृहीतैरविच्छिन्नविरलावस्थितदधिलवैरग्रथितकुसुमाञ्जलिसनाथैः पूर्णभाजनैर्गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभिश्चाचारकुशलेनान्तःपुरजरतीजनेन क्रियमाणावतरणकमङ्गलां विलासवतीं ददर्श ॥