कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Enable Parallel


विरतवचनायां च तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा दीर्घमुष्णं च निश्वस्य निजगाद — “ देवि, किमत्र क्रियतां दैवायत्ते वस्तुनि । अतिमात्रमलं रुदितेन । न वयमनुग्राह्याः प्रायो देवतानाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् । अन्यस्मिञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म फलमुपनयति पुरुषस्येह जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभियुक्तेनापि । यावन्मानुष्यके शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् । अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपादय देवतासु पूजाम्। ऋषिजनसपर्यासु दर्शितादरा भव । परं हि दैवतमृषयः । यत्नेनाराधिता यथासमीहितफलानामतिदुर्लभानामपि वराणां दातारो भवन्ति । श्रूयते हि — पुरा चण्डकौशिकप्रभावान्मगधेषु बृहद्रथो नाम राजा जरासन्धं नाम तनयं लेभे । दशरथश्च राजा परिणतवया विभण्डकमहामुनिसुतस्य ऋश्यशृङ्गस्य प्रसादादवाप चतुरः पुत्रान् । अन्ये च राजर्षयस्तपोधनानाराध्य पुत्रदर्शनामृतास्वादसुखभाजो बभूवुः । अमोघफला हि महामुनिसेवा भवति । ‘ अहमपि खलु देवि, कदा समुपारूढगर्भभरालसामापाण्डुमुखीं देवीं द्रक्ष्यामि । कदा मे तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनः । कदा हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा मामानन्दयिष्यति देवी । कदा सर्वोषधिपिञ्जरजटिलकेशः, निहितरक्षाघृतबिन्दुनि तालुनि विन्यस्तगौरसर्षपन्मिश्रभूतिलेशः, गोरोचनाचित्रकण्ठसूत्रग्रन्थिः, उत्तानशयः, दशनशून्यस्मिताननः पुत्रको जनयिष्यति मे हृदयाह्लादम् । कदा गोरोचनाकपिलद्युतिः, अन्तःपुरिकाकरतलपरम्परासञ्चार्यमाणमूर्तिः, अशेषजनवन्दितः, मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्ट्या च सह परिभ्रमन्भवनाङ्गणम् । कदा मातुश्चरणयुगलरागोपयुक्तशेषेण पिण्डालक्तकरसेन वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि ’ इत्येतानि च अन्यानि च मनोरथशतानि चिन्तयतोऽन्तः सन्तप्यमानस्य प्रयान्ति मे रजन्यः । मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः शोकः। शून्यमिव में प्रतिभाति जगत् । अफलमिव पश्यामि राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं देवि, शोकानुबन्धः । आधीयतां धैर्ये धर्मे च धीः । धर्मपरायणानां हि सदा समीपसञ्चारिण्यः कल्याणसंपदो भवन्ति ” इत्येवमभिधाय, सलिलमादाय स्वयमाननमस्याः साश्रुलेखं ममार्ज । पुनः पुनश्च प्रियशतमधुराभिः शोकापनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वग्भिराश्वास्य, सुचिरं स्थित्वा, नरेन्द्रो निर्जगाम ॥