कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Disable Parallel


अथ तस्य, चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभूत् त्रिभुवनविस्मयजननी सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम ॥

एकदा च स तदावासगतः, तां चिन्तास्तिमितदृष्टिना शोकमूकेन परिजनेन परिवृताम्, अनतिदूरवर्तिनीभिश्चान्तःपुरवृद्धाभिराश्वास्यमानाम्, अविरलाश्रुबिन्दुपातार्द्रीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोपविष्टां रुदतीं ददर्श ॥

कृतप्रत्युत्थानां च तां तस्यामेव पर्यङ्किकायामुपवेश्य, स्वयं चोपविश्य, अविज्ञातबाष्पकारणः, भीतभीत इव करतलेन विगतबाष्पाम्भःकणौ कुर्वन्कपोलौ, भूपालस्तामवादीत् — ‘ देवि, किमर्थमन्तर्गतगुरुशोकमन्थरमशब्दं रुद्यते ? ग्रथ्नन्ति हि मुक्ताफलजालकमिव बाष्पबिन्दुनिकरमेतास्तव पक्ष्मपङ्क्तयः । किमर्थं च कृशोदरि, नालंकृतासि ? बालातप इव रक्तारविन्दकोशयोः किमिति न पातितश्चरणयोरलक्तकरसः ? केन कारणेन न विभूषिता हारेण शिरोधरा ? इमां च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकामसंयमितालकिनीं ललाटरेखाम् ? प्रसीद, निवेदय देवि, दुःखनिमित्तम् । किं क्वचिन्मयापराद्धम्, अन्येन वा केनचिदस्मदुपजीविना परिजनेन ? अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्खलितमल्पमप्यात्मनस्त्वद्विषये । त्वदायत्तं हि मे जीवितं च राज्यं च । कथ्यतां सुन्दरि, शुचः कारणम् ’ इत्येवमभिधीयमाना

विलासवती यदा न किंचित्प्रतिवचः प्रतिपेदे, तदा विवृद्धबाष्पहेतुमस्याः परिजनमपृच्छत् ॥

अथ तस्यास्ताम्बूलकरङ्कवाहिनी सततप्रत्यासन्ना मकरिका नाम राजानमुवाच — ‘देव, कुतो देवादल्पमपि परिस्खलितम् । अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपराद्धुम् । किं तु विफला किल चिरमस्मीत्ययमस्या देव्याः संतापः । सुमहांश्च कालः सन्तप्यमानायाः । प्रथममपि स्वामिनी शयनस्नानभोजनभूषणपरिग्रहादिषु समुचितेष्वपि दिवसव्यापारेषु कथं कथमपि परिजनप्रयत्नात्प्रवर्त्यमाना सशोकैवासीत् । देवहृदयपीडापरिजिहीर्षया न दर्शितवती विकारम् । अद्य तु चतुर्दशीति भगवन्तं महाकालमर्चितुमितो गतया तत्र महाभारते वाच्यमाने श्रुतम् — ‘ अपुत्राणां किल न सन्ति लोकाः शुभाः ; पुन्नाम्नो नरकात् त्रायत इति पुत्रः ’ इति । एतच्छ्रुत्वा भवनमागत्य परिजनेन सशिरःप्रणाममभ्यर्थ्यमानापि नाहारमभिनन्दति, न भूषणपरिग्रहमाचरति, नोत्तरं प्रतिपद्यते, केवलमविरलबाष्पबिन्दुकलुषमुखी रोदिति । एतदाकर्ण्य देवः प्रमाणम् ’ इत्यभिधाय विरराम ॥