ऋतुसंहारम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

ऋतुसंहारम्

Enable Parallel


Showing 1 to 10 of 29 verses
Verse 1
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): ससीकरेति ॥ हे प्रिये वल्लभे, घनागमः मेघागमः समागतः। किं भूतः — कामिनश्च ते जनाश्च कामिजनास्तेषां प्रियो वल्लभः । किं कुर्वन् — राजवद् नृपवद् ध्वनिं रवमुद्वहन् । यथा राजा दुन्दुभ्यादिना ध्वनिं कुर्वन् समायाति तथाऽयमपि गजरिवं कुर्वन् समायाति । पुनः किंभूतः — सह शीकरैर्जलकणैः वर्तते इति सशीकर एवंविधो योऽसावम्भोधरो मेघः स एव मत्तः कुञ्जरो हस्ती यत्र सः । पुनः किंभूतः — तडितो विद्युत एव पताका यस्य सः । पुनः किंभूतः — अशनेर्वज्रस्य शब्दसदृशो गर्जितशब्दः स एव मर्दलो यत्र सः । अनेन वर्षर्तोरुत्कर्षः सूचितः ॥
चन्द्रिकाटीका (मणिरामः): अथ क्रमप्राप्तं वर्षाकालं वर्णयति — ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । `सीकरोऽम्बुकणः स्मृताः` इत्यमरः (अ.को.1|3|13)। तडिद् विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । `तडित्सौदामिनी विद्युत` इत्यमरः (अ.को.1|3|11)। अशनि शब्द एव मर्दलः पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागतः आगत इत्यर्थः । वंशस्थं वृत्तं लक्षणं तूक्तम् ॥

Verse 2
नितान्तनीलोत्पलपत्त्रकान्तिभिः क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः । क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितान्तेति ॥ व्योमाकाशं समन्ततः सर्वासु दिक्षु घनैर्मेघैः समाचितं व्याप्तम् । कथं भूतैः घनैः — नितान्तमत्यर्थं नीलोत्पलपत्रवत् कान्तिः येषां ते तथा तैः । पुनः कथं भूतैर्घनैः — क्वचित् कस्मिंश्चित् प्रदेशे प्रभिन्नं विदीर्णभावमाप्तम् अञ्जनं तस्य राशिः पुञ्जस्तेन सन्निभास्तुल्यास्तैः । पुनः कीदृशैः क्वचित् प्रदेशे सगर्भा या प्रमदा तस्याः स्तनौ तद्वत्प्रभा गौरकान्तिः येषां तैः तथा तैः ॥
चन्द्रिकाटीका (मणिरामः): नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्लानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव कान्तिर्येषां तैस्तथोक्तैः क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्जनराशिः कज्जलसमृहस्तेन सन्निभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्रभा कान्तिर्येषां तैस्तथोक्तैः घनैर्मेघैर्व्योमाकाशम् समन्तत इतस्ततः समाचितं व्याप्तमित्यर्थः ॥

Verse 3
तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधारवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृषेति ॥ बलाहका मेघाः मन्दं प्रयान्ति मन्दं मन्दं गच्छन्तीत्यर्थः । किं भूतैः — तृषाकुलैश्चातकपक्षिणां कुलैः समूहैः प्रयाचिताः तृषया आकुला व्याप्तास्तैः । चातकाः पपीहाः इत्याख्या पक्षिणश्च तेषां कुलैः समूहैः याचिता: जलपानार्थमभ्यर्थिताः । `कुलं तेषां सजातीयानाम्` इति हैमः । पुनः किं भूताः — तोयभरेण जलभारेणावलम्बन्ते नम्रा भवन्तीति तोयभरावलम्बिनः ! पुनः कथंभूताः — बलाहकाः बहु प्रचुरं वारि वर्षन्टीत्येवं शीलाः । पुनः कथं भूताः — श्रोत्रयोः कर्णयोः मनोहरोऽभिरामः स्वनः शब्दो येषां ते ॥
चन्द्रिकाटीका (मणिरामः): तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणावलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवन्ति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाहकाः मेघाः । `अभ्रं मेघो वारिवाहः स्तनयित्युर्बलाहकः` इत्यमरः (अ.को.1।3।8)। मन्दं प्रयान्ति गगने सञ्चरन्तीत्यर्थः ॥

Verse 4
बलाहकाश्चाशनिशब्दमर्दलाः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकैस्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बलाहका इति ॥ बलाहकाः मेघा युगपत् समकालं प्रवासिनां पथिकजनानाम् चेतस्तुदन्ति पीडयन्ति । किं भूताः बलाहकाः — अशनिर्वज्र तस्य शब्दवच्छब्दो यस्येदृशो गर्जितशब्दस्तेन भीषणाः भयकारकाः। किं कुर्वन्तः — सुरेन्द्रचापम् इन्द्रधनुर्दधतः । किं तडिद्विद्युदेव गुणः प्रत्यञ्या यस्य तम् । पुनः किं भूताः वलाहकाः सुतीक्ष्णानि यानि धारापतनानि नान्येवोग्राः सायका यत्र ते ॥
चन्द्रिकाटीका (मणिरामः): बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । `मौर्वी ज्या शिञ्जिनी गुणः` इत्यमरः (अ.को.2।8।84) । सुरेन्द्रचापमिन्द्रधनुः । `धनुश्चापो धन्वशरासनकोदण्डकार्मुकम्` इत्यमरः (अ.को.2।8।83) । दधतो धारयन्तो बलाहका मेघाश्च सुतीक्ष्णानां धाराणां जलधाराणां पतनान्येवोग्रसायकास्तीक्ष्णबाणास्तैः कृत्वा प्रवासिनां प्रोषितानां चेतोऽन्तःकरणं प्रसभमत्यन्तं तुदन्ति व्यथयन्तीत्यर्थः ॥

Verse 5
प्रभिन्नवैडूर्यनिभैस्तृणाङ्कुरैः समाचिता प्रोत्थितकन्दलीदलैः । विभाति शुक्लेतररत्नभूषिता वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): प्रभिन्नेति ॥ क्षितिः पृथ्वी । इन्द्रगोपकैर्जीवविशेषैर्विभाति । `इन्द्रगोपस्त्वग्निरजो वैराटस्तितिभोऽग्निकः` इति हैमः । कथं भूताः क्षितिः — तृणानां कक्षाणामङ्कुरास्तैः समाचिता व्याप्ता । कथं भूतैः तृणाङ्कुरैः — प्रभिन्नं खण्डशः कृतं यद्वैडूर्यं प्रभिन्नवैडूर्यं तेन निभास्तुल्यास्तथा तैः । पुनः कथं भूतैः — प्रोत्थितानि निर्गतानि कन्दलीनां दलानि पर्णानि येषु ते तैः । क्षितिः का इव — वराङ्गना इव । वरा श्रेष्ठा चासावङ्गना च वराङ्गना । कथं भूता वराङ्गना — कृष्णाच्छुद्राभवर्णादितराण्यर्थाद्रक्तप्रभृतिवर्णसक्तानि यानि रत्नानि तैर्भूषिता कल्पितालङ्काराः ॥
चन्द्रिकाटीका (मणिरामः): प्रभिन्नेति ॥ प्रभिन्नेन वैदूर्येण नीलमणिना निभाः सदृशास्तैस्तथोक्तैस्तृणाङ्कुरैः प्रोत्थितकन्दलीदलैः प्रोत्थितानि निर्गतानि यानि कन्दलीदलानि कन्दलीनां दलानि पत्राणि तैः । `द्रोणपर्णी स्निग्धकन्दा कन्दली` इति शब्दार्णवः । इन्द्रगोपकैः कृमिविशेषैश्च समाचिता व्याप्ता क्षितिर्धरित्री । `धराधरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः` इत्यमरः (अ.को.2।1।2) । शुक्लेतरैः कृष्णादिवर्णै रत्नैर्मणिभिर्भूषिता शोभिता वराङ्गनेवोत्तमनायिकेव विभाति शोभते इत्यर्थः ॥

Verse 6
सदा मनोज्ञं स्वनदुत्सवोत्सुकं विकीर्णविस्तीर्णकलापिशोभितम् । ससंभ्रमालिङ्गनचुम्बनाकुलं प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सदेति ॥ अद्य वर्षर्तौ बर्हिणां मयूराणां कुलं प्रवृत्तनृत्यं प्रवृत्तं प्रारब्धं नृत्यं येन तदीदृशं वर्तते । कुलं कीदृशम् — सदा मनोज्ञं मनोहरम् । पुनः किं भूतं — सुरतस्य सम्भोगस्योत्सवस्तस्मै उत्सुकमुत्कण्ठितम् । तथा पुनः किं भूतं — विकीर्णा केशास्तद्वदाभा कान्तिर्यस्य स एवंविधो योऽसौ कलापो बर्हः विकीर्णकेशाभकलापस्तेन शोभितम् । `कलापो भूषणे बर्हे` इत्यमरः (अ.को.3।3।136) । पुनः कथं — सविभ्रमं सविलासं यदालिङ्गनं पुनश्चुम्बनं तत्राकुलं सस्पृहम् । अत्र मयूरा अपि सुरतोत्सुका भवन्ति किं पुनः कामिनां वाच्यम् ॥
चन्द्रिकाटीका (मणिरामः): सदेति ॥ सदा सर्वदा मनोज्ञं सुन्दरं स्वनच्छब्दायमानमुत्सवोत्सुकं हर्षेणोत्कण्ठितम् यद्वा उत्सवे हर्षं उत्सुकमुत्कण्ठितम् विकीर्णः प्रसारितो विस्तीर्णो लम्बमानो यः कलापो बर्हस्तेन शोभितम् । ससंभ्रमं ससंवेगं यदालिङ्गनं परिरम्भणं चुम्बनञ्च तत्राकुलं व्याकुलं बर्हिणं कलापिनां कुलं प्रवृत्तमारब्धं नृत्यं नर्तनं येन तत्तादृशमद्यास्तीत्यर्थः ॥

Verse 7
निपातयन्त्यः परितस्तटद्रुमान्प्रवृद्धवेगैः सलिलैरनिर्मलैः । स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): निपातेति ॥ सरितस्तवरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति । नद्यः किं कुर्वत्यः — परितः समन्तात् तटद्रुमान्निपातयन्त्यो जलोद्रेकात्। किं भूताः नद्यः — अनिर्मलैर्मलिनैः सलिलैर्जलैः प्रवृद्धा वेगा यासां ताः । पुनः किं भूता नद्यः का इव — जातविभ्रमा जात उत्पन्नो विभ्रमो यासां तादृश्यः प्रदुष्टाः स्त्रिय इव । यथा प्रदुष्टाः रजोदूषिताः स्त्रियः त्वरितं प्रियं प्रयान्ति तथा नद्योऽपि । अत्राचैतन्यरूपा नदयोऽपि प्रियं समुद्रं यान्ति कामिनीनां पुनः किं वाच्यम् ॥
चन्द्रिकाटीका (मणिरामः): निपातयन्त्य इति ॥ प्रवृद्धो वेगः प्रवाहो उत्साहो वा येषां तैस्तथोक्तैः अनिर्मलैः कलुषैर्मलिनैर्वा सलिलैर्जलावण्यजलैर्वा । `सलिलं कमलं जलम्` इत्यमरः (अ.को.1।10।3) । परितः समन्ततस्तटद्रुमांस्तटप्ररूढवृक्षान् पितृमातृकुलजनाभिभावकान् वा निपातयन्त्यः समूलमुन्मूलयन्त्यो नाशयन्त्यो वा सुदुष्टाः स्त्रियः इव जात उत्पन्नो विश्रमः शृङ्गारादिचेष्टाभेदो यासां तास्तथोक्ताः। जातविभ्रमाः समुत्पन्नभ्रमविशिष्टा नद्यस्त्वरितं शीघ्रं पयोनिधिं समुद्रं प्रयान्ति गच्छन्तीत्यर्थः ॥

Verse 8
तृणोत्करैरुद्गतकोमलाङ्कुरैश्चितानि नीलैर्हरिणीमुखक्षतैः । वनानि वैन्ध्यानि हरन्ति मानसं विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृणोत्करैरिति ॥ वनानि काननानि मानसं चित्तं हरन्ति । कामिनामिति गम्यम् । किं भूतानि वनानि — हरिणीमुखकृतैस्तृणोच्चयैश्चितानि । हरिणीनां मुखानि हरिणीमुखानि तैः कृताः खण्डितास्तथा तैः । तृणोच्चयैः तृणसमूहैश्चितानि व्याप्तानि । किं भूतैः तृणोच्चयैः । उद्गता उत्पन्नाः कोमलाः अङ्कुरा येषां ते । पुनः किं भूतैः तृणोत्करैः — नीलैः नीलवर्णैः हरितैरित्यर्थः । किं वनानि वैन्ध्यानि मृगयायोग्यानि । पुनः उद्गता उत्पन्ना ये वंशानां कुड्मलास्तैर्विभूषितानि शोभितानि । तत्रोत्पन्नपल्लवैः द्रुमैः विभूषितानि ॥
चन्द्रिकाटीका (मणिरामः): तृणोत्करैरिति ॥ उद्गता निर्गताः कोमला अङ्कुरा येषां तैस्तथोक्तैः विचित्रनीलैर्हरिणीमुखैः क्षताः खण्डितास्तैस्तथोक्तैस्तृणोत्कैरुद्गता निर्गताः पल्लवाः किसलयानि येषां तैस्तथोक्तैः । `पल्लवोऽस्त्री किसलयम्` इत्यमरः (अ.को.2।4।14) । द्रुमैर्वृक्षैः कृत्वा विभूषितानि शोभितानि वैन्ध्यानि विन्ध्यसम्बन्धीनि वनानि काननानि । `गहनं काननं वनम्` इत्यमरः (अ.को.2।3।1) । मानसमन्तःकरणं हरन्तीत्यर्थः ॥

Verse 9
विलोलनेत्रोत्पलशोभिताननैर्मृगैः समन्तादुपजातसाध्वसैः । समाचिता सैकतिनी वनस्थली समुत्सुकत्वं प्रकरोति चेतसः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विलोलेति ॥ वनस्थली चेतसोऽर्थत्कामिजनस्य चेतसः समत्सुकत्वम् । रामामिलनोत्कण्ठितं प्रकरोति । किं भूतैः — मृगैः हरिणैः समन्तात् समाचिता व्याप्ता । किं भूतैः — विशेषेण लोलानि चपलानि पुनर्नीलानि यानीक्षणानि नेत्राणि तैः शोभितमाननं येषां तैः । पुनः किं भूतैः — उपजातमुत्पन्नं साध्वसं भयं येषां तैः । किं भूतैः — सैकतिनी सिकतायाः बालुकायाः समूहः सैकतं तेन युक्ता सैकतिनी ॥
चन्द्रिकाटीका (मणिरामः): विलोलेति ॥ विलोलानि चञ्चलानि यानि नेत्रोत्पलान्युत्पलसदृशानि नेत्राणि तैः शोभितानि भूषितान्याननानि वदनानि येषां तैस्तथोक्तैः । `वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्` इत्यमरः (अ.को.2|6|90) । उपजातसाध्वसैः सञ्जातभयैर्मृगैः हरिणैः । `मृगे कुरङ्गवातायुहरिणाजिनयोनयः` इत्यमरः (अ.को.2|5|9) । समन्तादिस्ततः समाचिता व्याप्ता सैकतिनी सिकतासंबन्धिनी वनस्थल्यकृतिमारण्यभूमिश्चेतसोऽन्तःकरणस्य समुत्सुकत्वमौत्सुक्यं प्रकरोति प्रकर्षेण जनयतीत्यर्थः॥

Verse 10
अभीक्ष्णमुच्चैर्ध्वनता पयोमुचा घनान्धकारीकृतशर्वरीष्वपि । तडित्प्रभादर्शितमार्गभूमयः प्रयान्ति रागादभिसारिकाः स्त्रियः ॥
Metre: वंशस्थम्
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): अभीक्ष्णमिति ॥ अभिसारकाः स्त्रियः साङ्केतिकस्थानम् अभिसरन्ति । अभिसरन्ति रात्रौ गच्छन्तीत्यभिसारिकाः । अभिसारिकाः स्त्रियः घनान्धकारीकृतशर्वरीष्वपि । घनैर्मेघैः अन्धकाररूपाः कृताः घनान्धकारीकृता एवं विधा याः शर्वर्यः तासु रागात्प्रयान्ति गच्छन्ति । कान्तमिति शेषः । कथं भूता अभिसारिकाः स्त्रियः — तडितो विद्युतः प्रभा कान्तिस्तया दर्शिता मार्गभूमिर्यासां ताः । किं भूतासु — उच्चैरतिशयेन पयोमुचां मेघानां ध्वनितैर्गर्जितैः सुतीक्ष्णं गाढं युक्तासु इति शेषः । अभीष्टमुच्चैरिति वा पाठः तत्राभीष्टं प्रियमित्यर्थः ॥
चन्द्रिकाटीका (मणिरामः): अभीक्ष्णमिति ॥ अभीक्ष्णं मुहुर्मुहुः । `मुहुर्मुहुः पुनः शश्वदभीक्ष्णमसकृत्समाः` इत्यमरः (अ.को.3।4।1)। उच्चैरुच्चस्वरेण ध्वनता शब्दं कुर्वता पयोमुचा मेघेन घनान्धकारीकृतशर्वरीष्वप्यघनान्धकारा घनान्धकारा यथा संपद्यन्ते तथा कृताश्च ताः शर्वर्यो रात्रयो यथा तथाभूतासु तडित्प्रभया विद्युत्कान्त्या दर्शित मार्गभूमयो यासां तास्तथोक्ता अभिसारिकाः स्त्रियो रागात्कान्तानुरागेण सङ्केतमिति शेषः । प्रयान्ति गच्छन्तीत्यर्थः । अभिसारिकालक्षणमुक्तममरसिंहेन (अ.को.2।6।10)— `कान्तार्थिनी तु या याति सङ्केतं साऽभिसारिका` इति ॥

Showing 1 to 10 of 29 verses