कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 1 to 10 of 64 verses
Verse 1
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥
Anvaya:
तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहं पुरोधाय स्वायंभुवं धाम ययुः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः । `दिवं स्वर्गेऽन्तरिक्षे च` इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । `नहिवृतिवृषि-` इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रूपत्वाभावात् । `सहेः साढः सः` इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः` इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः

Verse 2
तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥
Anvaya:
परिम्लानमुखश्रियां तेषां ब्रह्मा सुप्तपद्मानां सरसां प्रातः दीधितिमान् इव आविरभूत् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । `प्रकाशे प्रादुराविः स्यात्` इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- `स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा ॥` इति

Verse 3
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥
Anvaya:
अथ सर्वे ते सर्वतोमुखं वागीशं धातारं प्रणिपत्य अर्थ्याभिः वाग्भिः उपतस्थिरे ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। `धर्मपथ्यर्थन्यायादनपेते` (पा.4|4|92) इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । `उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्`। इत्यात्मनेपदम्

Verse 4
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥
Anvaya:
(हे भगवन् !) सृष्टेः प्राक् केवलात्मने पश्चात् गुणत्रयविभागाय भेदम् उपेयुषे (अतएव त्रिमूर्तये तुभ्यं नमः । )
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । `अन्यारात्-` इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । `आत्मा वा इदमेक एवाग्रआसीत्` इति श्रुतेः `निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः` इत्यमरः (अ.को.1|4|31) । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । `गुणाः सत्त्वं रजस्तमः` इत्यमरः (अ.को.1|4|31) । भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयषे प्रात्पवते । `उपेयिवाननाश्वाननूचानश्च` (पा.3|2|109) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः । `नमः स्वस्ति-` इत्यादिना चतुर्थिं । उक्तं च-- `नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे त्रिरुपाय स्वयंभूवे ॥` इति ।. २.४ ॥

Verse 5
यदमोघमपामन्तरुप्तं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥
Anvaya:
हे अज ! अपाम् अन्तः यत् अमोघं बीजम् उप्तम् । अतः चराऽचरं विश्वं, तस्य प्रभवो गीयसे ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यदिति ॥ न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । `मुक्तम्` इति पाठे विसृष्टमित्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः (अ.को.2|6|62) । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । `अदश्चराचरं विश्वं प्रसवस्तस्त गीयते` इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ इति ॥ २.५. ॥

Verse 6
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥
Anvaya:
एकः त्वं तिसृभिः अवस्थाभिः महिमानम् उदीरयन् प्रलयस्थितिसर्गाणां कारणातां गतः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तिसृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयीभिर्हरिहरब्रह्मस्वरुपाभिर्महिमानं निजशक्तिमुदीरयन्जृम्भयन्प्रलयस्थितिसर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं पश्चाद्भेदमुपेयुषे (२/४) इत्यस्य विवरणमतो न गतार्थत्वदोषः

Verse 7
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥
Anvaya:
स्त्रीपुंसौ सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्तः । तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । `अचतुर-` इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । `आत्मा जावे धृतौ देहे स्वभावे परमात्मानि` इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । `पिता` `मात्रा` इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- `द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥` इति

Verse 8
स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥
Anvaya:
स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते यौ तु स्वप्नाऽवबोधौ तौ (एव) भूतानां प्रलयोदयौ ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वकालेति ॥ स्वकालस्य परिमाणेन `चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते` इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि `अचतुर-` आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि `दोषामन्यमहः` `दिवामन्या रात्रिः` इत्यादौ इवत्राऽपि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः- `यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥` इति । एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात्

Verse 9
जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥
Anvaya:
(हे भगवन् !) त्वं जगद्योनिः अयोनिः, जगदन्तः निरन्तकः, जगदादिः अनादिः, जगदीशो निरीश्वरः (असि) ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जगदिति । हे भगवन्, त्वं जगद्योविर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । चगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिर्जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अत एव त्वमनादिरादिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । `यतो वा इमानि भूतानि जायन्ते` इत्यादि श्रुतिरेवात्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- `विरोधाभासत्वे विरोधः` इति

Verse 10
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥
Anvaya:
(हे भगवन् !) त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, त्वं कृतिना आत्मना आत्मनि एव प्रलीयसे ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । `स्वेमहिम्नि प्रतिष्ठितम्` इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव` प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । `प्रकृत्यादिभ्य उपसंख्यानम्` इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः

Showing 1 to 10 of 64 verses