संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ॥
Metre: शालिनी
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥
Metre: शालिनी
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः । मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥
Metre: उपजातिः
आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥
Metre: शालिनी
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥
Metre: शालिनी
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥
Metre: शालिनी
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥
Metre: शालिनी
क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि । आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥
Metre: उपजातिः
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥
Metre: शालिनी
आयन्तीनामविरतरयंराजकानीकिनीनामित्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः । आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥
Metre: मन्दाक्रान्ता