आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे तादर्थ्यागमनानुरोधपरया युक्तार्जि लज्जामृजा । आत्मानं त्रिदशप्रसादफलताम्पत्ये विधायानया ह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥
Metre: शार्दूलविक्रीडितम्
इत्यालेपुरनुप्रतीकनिलयालंकारसारश्रियाहंकुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः । सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥
Metre: शार्दूलविक्रीडितम्
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । यातः पञ्चदशः कृशेतररसस्वादाविहायं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्