अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू । अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥
Metre: मञ्जुभाषिणी
तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे । धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥
Metre: मञ्जुभाषिणी
नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि । गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥
Metre: मञ्जुभाषिणी
उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् । रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥
Metre: मञ्जुभाषिणी
सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना । यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुम् ॥
Metre: मञ्जुभाषिणी
अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् । स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥
Metre: मञ्जुभाषिणी
सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः । सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥
Metre: मञ्जुभाषिणी
हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च । महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥
Metre: मञ्जुभाषिणी
मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् । श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ॥