कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 51 to 60 of 60 verses
Verse 51
गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरुरिति । गुरुः पिता । `गुरू गीःपतिपित्राद्यौ` इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । `वरौ ना रूपजामात्रोः` इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना `अन्यारादितरे--` इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः
अन्वयः: अतः गुरुः अस्याः प्रगल्भे वयसि अपि निवृत्ताऽन्यवराऽभिलाषः तस्थौ । हि मन्त्रपूतं हविः कृशानोः ऋते अपराणि तेजांसि न अर्हन्ति ।

Verse 52
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः । `साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्` इति विश्वः । अभ्यर्थनाभङ्गभयेन याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते
अन्वयः: अद्रिः अयाचितारं देवदेवं सुतां ग्रहयितुं न शशाक । हि साधुः अभ्यर्थनाभङ्गभयेन इष्टे अर्थे अपि माध्यस्थ्यम् अवलम्बते ।

Verse 53
यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): यदेति । शोभना दन्ता यस्याः सा सुदती । `वयसि दन्तस्य दतृ` (पा.5|4|141) इति दत्रादेशः । `उगितश्च` (पा.4|1|6) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । `पूर्वादिभ्यो नवभ्यो वा` (पा.7|1|16) इति स्मिन्नादेशविकल्पः । `पूर्वज्वलने` इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन्काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्त्र्यंतरं न परिजग्राहेत्यर्थः `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः
अन्वयः: सुदती सा पूर्वे जनने यदा दक्षरोषात् शरीरं ससर्ज, तदा प्रभृति एव पशूनां पतिः विमुक्तसङ्गः सन् अपरिग्रहः अभूत् ।

Verse 54
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किं चित्क्वणत्किंनरमध्युवास ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । कृ त्तिवासाश्चर्माम्बरः । `अजिनं चर्म कृत्तिः स्त्री` इत्यमरः (अ.को.2|7|50) । यतात्मा नियतचित्तः सः पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति भावः । `मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्` इत्यमरः (अ.को.2|7|50) । क्बणन्तो गायन्तः किंन्नरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । `उपान्वध्याङ्वसः` (पा.1|4|48) इत्याधारस्य कर्मत्वम् । प्रस्थोऽस्त्री सानुमानयोः ईत्यमरः
अन्वयः: कृत्तिवासाः यतात्मा स तपसे गङ्गाप्रवाहोक्षितदेवदारु मृगानाभिगन्धि क्वणत्किन्नरं किञ्चित् हिमाद्रेः प्रस्थम् अध्युवास ।

Verse 55
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गणा इति ॥ गणाः प्रमथगणाः । `गणाः प्रमथसंख्यौघाः` इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । `नमेरुः सुरपुंनागः` इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः `स्त्रीभ्यो ढक्` (पा.4|1|120) इति भवार्थे ढक् । `शिलाजतु च शैलेयम्` इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः
अन्वयः: गणा नमेरुप्रसवाऽवतंसाः स्पर्शवतीः भीर्जत्वचो दधानाः मनःशिलाविच्छुरिताः (सन्तः) शैलेयनद्धेषु शिलातलेषु निषेदुः ।

Verse 56
तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् । दृष्टः कथं चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद । जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति
अन्वयः: तुषारसङ्घातशिलाः खुराऽग्रैः समुल्लिखन् दर्पकलः विविग्नैः गवयैः कथंचित् दृष्टः ककुद्मान् असोढसिंहध्वनिः (सन्) उन्ननाद ।

Verse 57
तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानाम्केनापि कामेन तपश्चचार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । `भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः` । इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । `प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते` इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम्
अन्वयः: तपसः फलानां स्वयं विधाता अष्टमूर्तिः तत्र स्वम् एव मूर्त्यन्तरं समित्समिद्धम् अग्निम् आधाय केन अपि कामेन तपः चचार ।

Verse 58
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः । `मूल्ये पूजाविधावर्घः` इत्यमरः (अ.को.3|3|33) । `दण्डादिभ्यो यः` इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । `मतिबुद्धिपूजार्थेभ्यश्च` (पा.3|2|188) इति वर्तमाने क्तः । `क्तस्य च वर्तमाने ` इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । ` पदार्घ्याभ्यां च ` इति यत् प्रत्ययः । षट् तु त्रिष्वर्घ्यमघर्थे पाद्यं पादाय वारिणि` इत्यमरः (अ.को.3|3|33) । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेतां प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास
अन्वयः: अद्रिनाथः अनर्घ्यं स्वर्गौकसाम् अर्चितं तम् अर्घ्येण अर्चयित्वा अस्य आराधनाय सखीसमेतां प्रयतां तनूजां समादिदेश ।

Verse 59
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रत्यर्थीति । गिरीशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि । सुप्सुपेति समासः । श्रोतुमिच्छन्तीं शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः ।`ज्ञाश्रुस्मृदृशां सनः` (पा.1|3|57) इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार । न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह- विकारेति । विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रयन्ते न विकृर्ति नीयन्ते त एव धीराः । `विक्रियन्ते` इति कर्मणि लट्
अन्वयः: गिरिशः समाधेः प्रत्यर्थिभूताम् अपि शुश्रूषमाणां ताम् अनुमेने । विकारहेतौ सति येषां चेतांसि न विक्रियन्ते, ते एव धीराः ।

Verse 60
अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): अवचितेति । सुकेशी शोभनमूर्धजा । `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्` (पा.4|1|54) इति ङीष् । सा पार्वत्यवचितानि लूनानि बलिपुष्पाणि पूजाकुसुमानि यथा सा वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपेनेत्र्यानेत्री सती तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः । `पादा रश्म्यङ्घ्रितुर्यांशाः` इत्यमरः (अ.को.3|3|97) । नियमितपरिखेदा निवर्तितपरिश्रमा सत्यहन्यहनि प्रत्यहम् । `अव्‌ययं विभक्तिसमीपसमृद्धी-` त्यादिना नियतार्थेऽव्ययीभावः नपुंसकादन्यतरस्याम् इत्यच्प्रत्ययः । गिरिशमुपचचार शुश्रूषांचक्रे
अन्वयः: सुकेशी सा अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां च उपनेत्री (सती) तच्छिरश्चन्द्रपादैः नियमितपरिखेदा (सती) प्रत्यहं गिरिशम् उपचचार ।

Showing 51 to 60 of 60 verses