गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः । ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥
Metre: उपजातिः
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक । अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥
Metre: उपजातिः
यदैव पूर्वे जनने शरीरं सा दक्षरोषात्सुदती ससर्ज । तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥
Metre: उपजातिः
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु । प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किं चित्क्वणत्किंनरमध्युवास ॥
Metre: उपजातिः
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः । मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥
Metre: उपजातिः
तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् । दृष्टः कथं चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥
Metre: उपजातिः
तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः । स्वयं विधाता तपसः फलानाम्केनापि कामेन तपश्चचार ॥
Metre: उपजातिः
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा । आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥
Metre: उपजातिः
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने । विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥
Metre: उपजातिः
अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥
Metre: मालिनी