Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 9 - Chapter 9.36 (63 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 9.36

ततो विनशनं राजन्नाजगाम हलायुधः शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती
Vaishampayana said "Then Baladeva, O king, went to Vinashana where the Sarasvati has disappeared out of view in consequence of her hatred for Shudras and Abhiras.
View Padaccheda
श्रुत्वा | तद् + शिष्य | राजन्न् | आजगाम | हलायुधः
शूद्र + आभीर | प्रति | द्वेषाद् | यत्र | नष्टा | सरस्वती
यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति
View Padaccheda
शूद्र + आभीर | प्रति | द्वेषाद् | यत्र | नष्टा | सरस्वती
तस्मात् | तद् | ऋषयो | नित्यं | प्राहुर् | विनशन + इति | ह
तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे
Having bathed in that tirtha of the Sarasvati, the powerful Baladeva then went to Subhumika situate on the excellent bank of the same river.
View Padaccheda
तीर्थ + यात्रा | हलधरः | सरस्वत्यां | महत् + यशस्
सुभूमिकं | ततो | ऽगच्छत् | सरस्वती + तट | वरे
तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः
There many fair-complexioned and beautiful-faced. Apsaras are always engaged in innocent pastimes.
View Padaccheda
तत्र | च + अप्सरस् | शुभ्रा | नित्यकालम् | अतन्द्रिताः
क्रीडाभिर् | विमल + च | क्रीडन्ति | विमल + आनन
तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्
The celestials and the Gandharvas, every month, O king, go to that sacred shrine which is the resort of Brahman himself.
View Padaccheda
तत्र | देवाः | स + गन्धर्व | मासि | मासि | जनेश्वर
अभिगच्छन्ति | तत् | तीर्थं | पुण्यं | ब्राह्मण + सेव्
तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्
The Gandharvas and various clans of Apsaras are to be seen there, O king, passing their days happily.
View Padaccheda
तत्र + दृश् | गन्धर्व + तथा + एव + अप्सरस् | गणाः
समेत्य | सहिता | राजन् | यथाप्राप्तं | यथासुखम्
तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः
There the celestials and departed manes in the midst of the showers of sacred and auspicious flowers sport in joy.
View Padaccheda
तत्र | मोदन्ति | देव + च | पितृ + च | स + वीरुध्
पुण्यैः | पुष्पैः | सदा | दिव्यैः | कीर्यमाणाः | पुनः | पुनः
आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे
There all the creepers are covered with flowers. And because, O king, that spot is the beautiful sporting ground of those Apsaras, therefore is that shrine on the charming bank of the Sarasvati is called Subhumika.
View Padaccheda
आक्रीड + भूमि | सा | राजन् + तद् | अप्सरसां | शुभा
सुभूमिकं | ततो | ऽगच्छत् | सरस्वती + तट | वरे
तत्र स्नात्वा दत्त्वा वसु विप्रेषु माधवः श्रुत्वा गीतं तद्दिव्यं वादित्राणां निःस्वनम्
Baladeva of Madhu's race, having bathed in that tirtha and distributed immense riches amongst the Brahmanas, heard the sound of those celestial songs and musical instruments.
View Padaccheda
तत्र | स्नात्वा | च | दत्त्वा | च | वसु | विप्रेषु | माधवः
श्रुत्वा | गीतं | च | तद् | दिव्यं | वादित्राणां | च | निःस्वनम्
छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम् गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः
He also saw there many shadows of gods, Gandharvas and Rakshasas. The son of Rohini then proceeded to the tirtha of the Gandharvas.
View Padaccheda
छाया + च | विपुला | दृष्ट्वा | देव + गन्धर्व + रक्षस्
गन्धर्वाणां | ततस् + तीर्थ | आगच्छद् | रोहिणीसुतः
विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः नृत्तवादित्रगीतं कुर्वन्ति सुमनोरमम्
There many Gandharvas, headed by Vishvavasu and possessed of ascetic merit, pass their time in dance and singing many sweet songs.
View Padaccheda
विश्वावसु + मुख + तत्र | गन्धर्व + तपस् + अन्वित
नृत्त + वादित्र + गीत | च | कुर्वन्ति | सु + मनोरम
तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा
Giving away various kinds of riches to the Brahmanas, as also goat and sheep and kine and mules and camels and gold and silver.
View Padaccheda
तत्र | दत्त्वा | हलधरो | विप्रेभ्यो | विविधं | वसु
अजाविकं | गो + खर + उष्ट्र | सुवर्णं | रजतं | तथा
भोजयित्वा द्विजान्कामैः संतर्प्य महाधनैः प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः
And feeding many Brahmanas and satisfying them with many rich gifts as desired by them, Baladeva, of Madhu's race, left that place accompanied by many Brahmanas and praised by them.
View Padaccheda
भोजयित्वा | द्विजान् | कामैः | संतर्प्य | च | महाधनैः
प्रययौ | सहितो | विप्रैः | स्तु + च | माधवः
तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः गर्गस्रोतो महातीर्थमाजगामैककुण्डली
Leaving that tirtha the favourite haunt of the Gandharvas, that mighty-armed chastiser of foes, having but one ear-ring, then went to the famous tirtha called Gargashrota.
View Padaccheda
तस्माद् | गन्धर्वतीर्थ + च | महत् + बाहु | अरिंदमः
गर्गस्रोतो | महत् + तीर्थ | आगम् + एक + कुण्डलिन्
यत्र गर्गेण वृद्धेन तपसा भावितात्मना कालज्ञानगतिश्चैव ज्योतिषां व्यतिक्रमः
There, in that sacred tirtha of the Sarasvati, the illustrious and old Garga, having a soul cleansed by ascetic penances, O Janamejaya, had mastered the knowledge of time and its course, of the deviations of luminous bodies (in the sky) and of all auspicious and inauspicious portents.
View Padaccheda
यत्र | गर्गेण | वृद्धेन | तपसा | भावितात्मना
काल + ज्ञान + गति + च + एव | ज्योतिषां | च | व्यतिक्रमः
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना तस्य नाम्ना तत्तीर्थं गर्गस्रोत इति स्मृतम्
View Padaccheda
उत्पाता | दारुण + च + एव | शुभ + च | जनमेजय
सरस्वत्याः | शुभे | तीर्थे | विहिता | वै | महात्मना
तस्य | नाम्ना | च | तत् | तीर्थं | गर्गस्रोत | इति | स्मृतम्
तत्र गर्गं महाभागमृषयः सुव्रता नृप उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो
That tirtha was called after his name Gargashrota. There, ( king, highly blessed Rishis of firm vows always waited upon Garga, O lord, for acquiring a knowledge of time.
View Padaccheda
तत्र | गर्गं | महाभागम् | ऋषयः | सुव्रता | नृप
उपासांचक्रिरे | नित्यं | काल + ज्ञान | प्रति | प्रभो
तत्र गत्वा महाराज बलः श्वेतानुलेपनः विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्
Besmeared with white sandal-paste O king, Baladeva, going to that tirtha, duly distributed wealth amongst many ascetics of pure souls.
View Padaccheda
तत्र | गत्वा | महत् + राज | बलः | श्वेतानुलेपनः
विधिवत् + हि | धनं | दत्त्वा | मुनीनां | भावितात्मनाम्
उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः
Having distributed also many sorts of rich food amongst the Brahmanas, that illustrious one, clad in blue robes, then went to the tirtha called Shankha.
View Padaccheda
उच्चावच + तथा | भक्ष्यान् | द्विजेभ्यो | विप्रदाय | सः
नील + वासस् + ततस् | गम् + शङ्खतीर्थ | महत् + यशस्
तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम् श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम् सरस्वत्यास्तटे जातं नगं तालध्वजो बली
There, on the bank of the Sarasvati that powerful palmyra-emblemed hero beheld a gigantic tree called Mahashankha, tall as Meru, looking like the white-mountain and resorted to by many Rishis.
View Padaccheda
तत्र + पश् + महत् + शङ्ख | महत् + मेरु | इव + उच्छ्रि
श्वेत + पर्वत + संकाश | ऋषि + संघ | निषेवितम्
सरस्वती + तट | जातं | नगं | तालध्वजो | बली
यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः
There dwell Yakshas and Vidyadharas and Rakshasas of great energy and Pishachas of incomparable might and Siddhas, in thousands.
View Padaccheda
यक्षा | विद्याधर + च + एव | राक्षस + च + अमित + ओजस्
पिशाच + च + अमित + बल | यत्र | सिद्धाः | सहस्रशः
ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
View Padaccheda
ते | सर्वे | हि + अशन | त्यक्त्वा | फलं | तस्य | वनस्पतेः
व्रत + च | नियम + च + एव | काले | काले | स्म | भुञ्जते
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक् अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ
View Padaccheda
प्राप् + च | नियम + तद् | विचरन्तः | पृथक् | पृथक्
अदृश्यमाना | मनुजैर् | व्यचरन् | पुरुष + ऋषभ
एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्
View Padaccheda
एवं | ख्यातो | नरपते | लोके | ऽस्मिन् | स | वनस्पतिः
तत्र | तीर्थं | सरस्वत्याः | पावनं | लोक + विश्रु
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम् ताम्रायसानि भाण्डानि वस्त्राणि विविधानि
That tree is the cause of this tirtha. Having given away many milch cows, vessels of copper and iron and diverse sorts of other vessels, that foremost Yadu's race, viz., Baladeva, having the plough for his weapon, worshipped the Brahmanas and was adored by them in return. He then, O king, went to the Dvaita lake.
View Padaccheda
तद् + च | यदु + शार्दूल | दत्त्वा | तीर्थे | यशस्विनाम्
ताम्र + आयस | भाण्डानि | वस्त्राणि | विविधानि | च
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः
View Padaccheda
पूजयित्वा | द्विज + च + एव | पूजय् + च | तपोधनैः
ततो | विनशनं | राजन्न् | आजगाम | हलायुधः
तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
View Padaccheda
तत्र | गत्वा | मुनीन् | दृष्ट्वा | नाना + वेष + धर | बलः
आप्लुत्य | सलिले | च + अपि | पूजयामास | वै | द्विजान्
तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान् ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्
Having distributed profusely amongst the Brahmanas various articles of enjoyment Baladeva then, O king, went on along the southern bank of the Sarasvati.
View Padaccheda
तथा + एव | दत्त्वा | विप्रेभ्यः | परिभोगान् | सु + पुष्कल
ततः | प्रायाद् | बलो | राजन् | दक्षिणेन | सरस्वतीम्
गत्वा चैव महाबाहुर्नातिदूरं महायशाः धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः
The mighty-armed and illustrious Rama, of pure soul and unmitigated glory, then proceeded to the tirtha called Nagadhanvana.
View Padaccheda
गत्वा | च + एव | महत् + बाहु | न + अति + दूरम् | महत् + यशस्
धर्म + आत्मन् | नागधन्वानं | तीर्थम् | आगमद् | अच्युतः
यत्र पन्नगराजस्य वासुकेः संनिवेशनम् महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम् यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश
Abounding with snakes, O king, it was the abode of the highly effulgent Vasuki, the king of serpents. There four and then ten thousand Rishis also lived permanently.
View Padaccheda
यत्र | पन्नग + राज | वासुकेः | संनिवेशनम्
महत् + द्युति | महत् + राज | बहुभिः | पन्नगैर् | वृतम्
यत्र + अस् | ऋषयः | सिद्धाः | सहस्राणि | चतुर्दश
यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम् सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि पन्नगेभ्यो भयं तत्र विद्यते स्म कौरव
Having come there in days of yore the celestials had, according to due rites, installed the great snake Vasuki as king of all the snakes. There is no fear of snakes in that place Oyou of Kuru's race.
View Padaccheda
यत्र | देवाः | समागम्य | वासुकिं | पन्नग + उत्तम
सर्व + पन्नग + राजन् | अभ्यषिञ्चन् | यथाविधि
पन्नगेभ्यो | भयं | तत्र | विद्यते | न | स्म | कौरव
तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान् प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा
Duly distributing many valuable articles there amongst the Brahmanas Baladeva then set out with face towards the east and reached, one after another, hundreds and thousands of celebrated tirthas situated all around.
View Padaccheda
तत्र + अपि | विधिवद् | दत्त्वा | विप्रेभ्यो | रत्न + संचय
प्रायात् | प्राचीं | दिशं | राजन् | दीप्यमानः | स्व + तेजस्
आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः
View Padaccheda
आप्लुत्य | बहुशो | हृष् + तद् | तीर्थेषु | लाङ्गली
दत्त्वा | वसु | द्विजातिभ्यो | गम् + अति | तपस्विनः
तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत्
View Padaccheda
तत्रस्थान् | ऋषि + संघ + तद् | अभिवाद्य | हलायुधः
ततो | रामो | ऽगमत् | तीर्थम् | ऋषिभिः | सेवितं | महत्
यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम्
View Padaccheda
यत्र | भूयो | निववृते | प्राञ्च् + मुख | वै | सरस्वती
ऋषीणां | नैमिषेयाणाम् | अवेक्षा + अर्थ | महात्मनाम्
निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली बभूव विस्मितो राजन्बलः श्वेतानुलेपनः
Always smeared with white sandal-paste, Vala, having the plough for his weapon, seeing that great river change her course, was O king, filled with wonder.
View Padaccheda
निवृत्तां | तां | सरित् + श्रेष्ठ | तत्र | दृष्ट्वा | तु | लाङ्गली
तत्र | गत्वा | महत् + राज | बलः | श्वेतानुलेपनः
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम
Janamejaya said "Why O Brahmana, did the Sarasvati bend her course there towards the east. O best of Adhvaryus, you should tell me everything regarding this.
View Padaccheda
कस्मात् | सरस्वती | ब्रह्मन् + निवृत् | प्राञ्च् + मुख | ततः
व्याख्यातुम् | एतद् | इच्छामि | सर्वम् | अध्वर्यु + सत्तम
कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम
Why was that delighter of the Yadus filled with wonder? Why, indeed did that best of rivers thus change her course."
View Padaccheda
क + च | कारणे | तत्र | विस्मितो | यदु + नन्दन
निवृत्तां | तां | सरित् + श्रेष्ठ | तत्र | दृष्ट्वा | तु | लाङ्गली
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः वर्तमाने सुबहुले सत्रे द्वादशवार्षिके ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे
Vaishampayana said "Formerly, in the Satya Yuga, O king, the ascetics living in Naimisha were engaged in a great sacrifice extending for twelve years.
View Padaccheda
पूर्वं | कृत + युग | राजन् + नैमिषेय + तपस्विन्
वर्तमाने | सु + बहुल | सत्रे | द्वादशन् + वार्षिक
ऋषयो | बहवो | राजन् + तत्र | सम्प्रतिपेदिरे
उषित्वा महाभागास्तस्मिन्सत्रे यथाविधि निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात्
Many Rishis, O king, came to that sacrifice. Passing their time according to proper rites, in the celebration of that sacrifice, those great Rishis, after the termination of that twelve year's sacrifice at Naimisha, set out in large numbers for seeing the various sacred shrines.
View Padaccheda
उषित्वा | च | महाभाग + तद् | सत्रे | यथाविधि
वर्तमाने | सु + बहुल | सत्रे | द्वादशन् + वार्षिक
आजग्मुर् | ऋषि + तत्र | बहु + तीर्थ + कारण
ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा
On account of the number of the Rishis, O king, the tirthas on the southern banks of the Sarasvati all looked like towns and cities.
View Padaccheda
ऋषीणां | बहुल + त्व | तु | सरस्वत्या | विशां | पते
तीर्थानि | नगरायन्ते | कूले | वै | दक्षिणे | तदा
समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः
Those foremost of Brahmanas, O foremost of men, being anxious to enjoy the merits of tirthas, took up thcir abodes on the bank of the river up to Samantapanchaka.
View Padaccheda
समन्तपञ्चकं | यावत् | तावत् | ते | द्विजसत्तमाः
तीर्थ + लोभ + नर + व्याघ्र | नदी + तीर | समाश्रिताः
जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम् स्वाध्यायेनापि महता बभूवुः पूरिता दिशः
The whole region was as if filled with loud Vedic recitations of those Rishis of pure souls, all engaged in pouring libations of sacrificial fires.
View Padaccheda
जुह्वतां | तत्र | तेषां | तु | मुनीनां | भावितात्मनाम्
स्वाध्याय + अपि | महता | बभूवुः | पूरिता | दिशः
अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम् अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः
That best of rivers shone highly beautiful with those burning homa fires all around, over which those great ascetics poured libations of clarified butter.
View Padaccheda
अग्निहोत्र + ततस् + तद् | हूयमानैर् | महात्मनाम्
अशोभत | सरित् + श्रेष्ठ | दीप्यमानैः | समन्ततः
वालखिल्या महाराज अश्मकुट्टाश्च तापसाः दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे
View Padaccheda
वालखिल्या | महत् + राज | अश्मकुट्ट + च | तापसाः
दन्तोलूखलिन् + च + अन्य | सम्प्रक्षाल + तथा + अपर
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः
View Padaccheda
वालखिल्या | महत् + राज | अश्मकुट्ट + च | तापसाः
नाना + नियम + युज् + च | तथा | स्थण्डिलशायिनः
आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः
View Padaccheda
आसन् | वै | मुनि + तत्र | सरस्वत्याः | समीपतः
शोभयन्तः | सरित् + श्रेष्ठ | गङ्गाम् | इव | दिवौकसः
ततः पश्चात्समापेतुरृषयः सत्रयाजिनः तेऽवकाशं ददृशुः कुरुक्षेत्रे महाव्रताः
Hundreds of Rishis, all given to the observance of sacrifices, came there. Those observers of great vows could not find sufficient accommodation on the banks of the Sarasvati.
View Padaccheda
ततः | पश्चात् | समापेतुर् | ऋषयः | सत्त्र + याजिन्
ते | ऽवकाशं | न | ददृशुः | कुरुक्षेत्रे | महत् + व्रत
ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः
Measuring small plots of land with their sacred threads, they celebrated Agnihotras and other rites.
View Padaccheda
ततो | यज्ञोपवीत + तद् | तत् | तीर्थं | वै
हु + च + अग्निहोत्र | कृ + च | विविधाः | क्रियाः
ततस्तमृषिसंघातं निराशं चिन्तयान्वितम् दर्शयामास राजेन्द्र तेषामर्थे सरस्वती
The river Sarasvati saw, O king, those Rishis filled with despair and anxiety for want of a commodious tirtha wherein to perform their rites.
View Padaccheda
ततस् + तद् | ऋषि + संघात | निराशं | चिन्ता + अन्वित
जानन्ति | सिद्धा | राजन् + इन्द्र | नष्टाम् | अपि | सरस्वतीम्
ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय
Accordingly that best of streams came there, having made sufficient accommodation on her bank for those Rishis, out of compassion for them, O Janamejaya.
View Padaccheda
ततः | कुञ्जान् | बहून् | कृत्वा | संनिवृत्ता | सरित् + वर
ऋषीणां | पुण्य + तपस् | कारुण्य + जनमेजय
ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा
Having thus, O king, changed her course for their sake, the Sarasvati, that best of rivers, once more flowed in a westerly direction, to make the arrival of the Rishis there successful. O king, the great river accomplished there this wonderful feat.
View Padaccheda
जानन्ति | सिद्धा | राजन् + इन्द्र | नष्टाम् | अपि | सरस्वतीम्
भूयः | प्रतीची + अभिमुख | सुस्राव | सरितां | वरा
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम् इत्यद्भुतं महच्चक्रे ततो राजन्महानदी
Having thus, O king, changed her course for their sake, the Sarasvati, that best of rivers, once more flowed in a westerly direction, to make the arrival of the Rishis there successful. O king, the great river accomplished there this wonderful feat.
View Padaccheda
अमोघा | गमनं | कृत्वा | तेषां | भूयो | व्रज् + मद्
इति + अद्भुत | महत् + कृ | ततो | राजन् + महत् + नदी
एवं कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः
View Padaccheda
एवं | स | कुञ्जो | राजन् + इन्द्र | नैमिषेय | इति | स्मृतः
कुरुक्षेत्रे | कुरु + श्रेष्ठ | कुरुष्व | महतीः | क्रियाः
तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां तां नदीम् बभूव विस्मयस्तत्र रामस्याथ महात्मनः
View Padaccheda
ततः | कुञ्जान् | बहून् | कृत्वा | संनिवृत्ता | सरित् + वर
बभूव | विस्मय + तत्र | राम + अथ | महात्मनः
उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि भक्ष्यं पेयं विविधं ब्राह्मणान्प्रत्यपादयत्
View Padaccheda
क + च | कारणे | तत्र | विस्मितो | यदु + नन्दन
ताम्र + आयस | भाण्डानि | वस्त्राणि | विविधानि | च
भक्ष्यं | पेयं | च | विविधं | ब्राह्मणान् | प्रत्यपादयत्
ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः सरस्वतीतीर्थवरं नानाद्विजगणायुतम्
View Padaccheda
ततः | प्रायाद् | बलो | राजन् | दक्षिणेन | सरस्वतीम्
सरस्वती + तीर्थ + वर | नाना + द्विज + गण + आयुत
बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा
View Padaccheda
बदर + इङ्गुद + काश्मर्य + प्लक्ष + अश्वत्थ + विभीतक
पनस + च | पलाश + च | करीरैः | पीलु + तथा
सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा
View Padaccheda
सरस्वती + तीर + रुह | बन्धनैः | स्यन्दन + तथा
परूषक + वन + च + एव | बिल्वैर् | आम्रातक + तथा
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम् कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम्
View Padaccheda
अतिमुक्तक + षण्ड + च | पारिजात + च | शोभितम्
कदल + वन + भूयिष्ठ | इष्टं | कान्तं | मनोरमम्
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्
It abounded with forests of Plantains pleasant to view and most charming. And it was haunted by various ascetics, some living on air, some water, some on fruits, some on leaves, some on raw raise again which they husked with the aid only of stones and some that were called Vaneyas. And it was filled with the chauntings of the Vedas and abounded with diverse kinds of animals.
View Padaccheda
वायु + अम्बु + फल + पर्ण + आद | दन्तोलूखलिकैर् | अपि
तथा + अश्मकुट्ट | वानेयैर् | मुनिभिर् | बहुभिर् | वृतम्
स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम् अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम्
View Padaccheda
स्वाध्याय + घोष + संघुष् | मृग + यूथ + शत + आकुल
अहिंस्रैर् | धर्म + परम | नृभिर् | अत्यन्त + सेव्
सप्तसारस्वतं तीर्थमाजगाम हलायुधः यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः
And it was the favourite abode of men shorn of malice and devoted to righteousness. Baladeva, having the plough for his weapon, arrived at that tirtha, called the Sapta-Sarasvat, where the great ascetic Mankanaka had his penances successfully practised.
View Padaccheda
पुण्यं | द्वैतवनं | राजन्न् | आजगाम | हलायुधः
यत्र | मङ्कणकः | सिद्ध + तपस् + तप् | महत् + मुनि