Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 7 - Chapter 7.88 (59 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 7.88

प्रयाते तव सैन्यं तु युयुधाने युयुत्सया धर्मराजो महाराज स्वेनानीकेन संवृतः प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः
Sanjaya said O monarch, when desirous of battle, Yuyudhana had proceeded against your army, king Yudhishthira the virtuous, supported by his troops.
View Padaccheda
प्रयाते | तव | सैन्यं | तु | युयुधाने | युयुत्सया
धर्मराजो | महत् + राज | स्व + अनीक | संवृतः
प्रायाद् | द्रोण + रथ + प्रेप्सु | युयुधानस्य | पृष्ठतः
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः
View Padaccheda
ततः | पाञ्चाल + राज | पुत्रः | समर + दुर्मद
प्राक्रोशत् | पाण्डव + अनीक | वसुदान + च | पार्थिवः
आगच्छत प्रहरत द्रुतं विपरिधावत यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः
View Padaccheda
आगच्छत | प्रहरत | द्रुतं | विपरिधावत
तद् + तु | सर्वान् | स | बलवान् | सात्यकिर् | युद्ध + दुर्मद
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये इति ब्रुवन्तो वेगेन समापेतुर्बलं तव
View Padaccheda
महत् + रथ | हि | बहवो | यत् + इदम् | निर्जये
इति | ब्रुवन्तो | वेगेन | समापेतुर् | बलं | तव
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः ततः शब्दो महानासीद्युयुधानरथं प्रति
View Padaccheda
वयं | प्रतिजिगीष् + तत्र | तान् | समभिद्रुताः
ततः | शब्दो | महान् | आसीद् | युयुधान + रथ | प्रति
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी सात्वतेन महाराज शतधाभिव्यदीर्यत
View Padaccheda
प्रकम्प्यमाना | महती | तव | पुत्रस्य | वाहिनी
सात्वतेन | महत् + राज | शतधा + अभिविदृ
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत्
View Padaccheda
तस्यां | विदीर्यमाणायां | शिनेः | पौत्रो | महत् + रथ
सप्त | वीर + महत् + इष्वास | अग्र + अनीक | व्यपोथयत्
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम्
They were then seized with panic being crushed and mangled by that long-armed hero; and beholding that proud hero, they then began to run quickly away from the field of battle,
View Padaccheda
ते | भीता | मृद् + च | प्रमृष्टा | दीर्घ + बाहु
आयोधनं | जहुर् | वीरा | दृष्ट्वा | तम् | अतिमानुषम्
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः
View Padaccheda
रथैर् | विमथ् + अक्ष + च | भञ्ज् + नीड + च | मारिष
चक्रैर् | विमथ् + छिद् | ध्वज + च | विनिपातितैः
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते
View Padaccheda
अनुकर्षैः | पताकाभिः | शिरस्त्राणैः | स + काञ्चन
बाहु + चन्दन + आदिह् | स + अङ्गद + च | विशां | पते
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम
View Padaccheda
हस्तिन् + हस्त + उपम + च + अपि | भुजग + आभोग + संनिभ
ऊरुभिः | पृथिवी | छन्ना | मनुजानां | नरोत्तम
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी
View Padaccheda
शशाङ्क + संनिकाश + च | वदन + चारु + कुण्डल
पतितैर् | वृषभ + अक्ष | बभौ | भारत | मेदिनी
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः
View Padaccheda
गज + च | बहुधा | छिन्नैः | शयानैः | पर्वत + उपम
राज् + अति + भृशम् | भूमिर् | विकीर्णैर् | इव | पर्वतैः
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना
The earth appeared beautiful as if strewn over with hillocks. Crushed by that hero of long arms, horses, deprived of life and prostrate on the field of battle, appeared charming with their traces of burnished gold decked with strings of pearls and with their breastplates of excellent make.
View Padaccheda
तपनीय + मय | योक्त्रैर् | मुक्ता + जाल + विभूषय्
उरश्छदैर् | विचित्र + च | व्यशोभन्त | तुरंगमाः
ते | भीता | मृद् + च | प्रमृष्टा | दीर्घ + बाहु
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्
Then he of the Satvata race penetrated into the ranks of your army slaying troops of diverse kinds and crushing your army completely.
View Padaccheda
नानाविधानि | सैन्यानि | तव | हत्वा | तु | सात्वतः
प्रविश् + तावक | सैन्यं | द्रावयित्वा | चमूं | भृशम्
ततस्तेनैव मार्गेण येन यातो धनंजयः इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः
Then Satyaki desired to go by the very track by which Dhananjaya had gone But he was there opposed by Drona.
View Padaccheda
ततस् + तद् + एव | मार्गेण | येन | यातो | धनंजयः
इयेष | सात्यकिर् | गन्तुं | ततो | द्रोणेन | वारितः
भरद्वाजं समासाद्य युयुधानस्तु मारिष नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः
Then the war-like Satyaki, inflamed as he was with rage, did not recede getting Drona as an opponent, even as the waters of the ocean does not recede encountering an embankment.
View Padaccheda
भरद्वाजं | समासाद्य | युयुधान + तु | मारिष
न + अभिवृत् | संक्रुद्धो | वेलाम् | इव | जलाशयः
निवार्य तु रणे द्रोणो युयुधानं महारथम् विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः
Resisting that mighty car-warrior Yuyudhana in battle, Drona pierced him with five sharp arrows all capable of penetrating to the very vitals.
View Padaccheda
अभ्यद्रवद् | रणे | द्रोणं | युयुधानस्य | कारणात्
विव्याध | च | रणे | द्रोणं | पञ्चभिर् | नम् + पर्वन्
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः
Thereupon, O king, Satyaki in that battle, pierced Drona with seven arrows whetted on stone and furnished with golden wings as well as with wings made of the feathers of the Kanka and the peacock.
View Padaccheda
सात्यकि + तु | रणे | द्रोणं | राजन् | विव्याध | सप्तभिः
अभ्यवर्षञ् | शर + तीक्ष्ण | कङ्क + बर्हिण + वाजित
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् तं ममृषे द्रोणं युयुधानो महारथः
Drona in return, with six arrows, afflicted him and his steeds and charioteer. Then that mighty car-warrior Yuyudhana could not brook that act of Drona.
View Padaccheda
तं | षड्भिः | सायकैर् | द्रोणः | स + अश्व + यन्तृ | आर्दयत्
निवार्य | तु | रणे | द्रोणो | युयुधानं | महत् + रथ
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव
Uttering his war-cry aloud, Satyaki then pierced Drona at first with ten, then with six and again with eight arrows.
View Padaccheda
सिंहनादं | ततः | कृत्वा | द्रोणं | विव्याध | सात्यकिः
दशभिः | सायक + च + अन्य | षड्भिर् | अष्टाभिर् | एव | च
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ध्वजमेकेन बाणेन विव्याध युधि मारिष
Once more Yuyudhana pierced Drona with ten shafts, his charioteer with one, his four steeds with four other arrows.
View Padaccheda
युयुधानः | पुनर् | द्रोणं | विव्याध | दशभिः | शरैः
एकेन | सारथिं | च + इदम् | चतुर् | हयान्
ध्वजम् | एकेन | बाणेन | विव्याध | युधि | मारिष
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः
O sire in that battle, he pierced Drona's standard with another arrows. Thereupon Drona quickly discharging his swift-flying arrows that resembled fights of locusts, covered Satyaki together with his steeds, charioteer, chariot and standard. So also Yuyudhana with countless swift-coursing shafts.
View Padaccheda
तं | द्रोणः | स + अश्व + यन्तृ | स + रथ + ध्वज | आशुगैः
त्वरन् | प्राच्छादयद् | बाणैः | शलभानाम् | इव | व्रजैः
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच
View Padaccheda
तथा + एव | युयुधानो | ऽपि | द्रोणं | बहुभिर् | आशुगैः
प्राच्छादयद् | असम्भ्रान्त + ततस् | द्रोण | उवाच | ह
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत
View Padaccheda
त्वद् + आचार्य | रणं | हित्वा | गतः | कापुरुषो | यथा
युध्यमानं | हि | मां | हित्वा | प्रदक्षिणम् | अवर्तत
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव यदि मां त्वं रणे हित्वा यास्याचार्यवद्द्रुतम्
View Padaccheda
त्वं | हि | मे | युध्यतो | न + अद्य | जीव् + मुच् | माधव
यदि | मां | त्वं | रणे | हित्वा | न | या + आचार्य + वत् | द्रुतम्
धनंजयस्य पदवीं धर्मराजस्य शासनात् गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्
View Padaccheda
दिदृक्षुर् | अर्जुनं | राजन् | धर्मराजस्य | शासनात्
गच्छामि | स्वस्ति | ते | ब्रह्मन् + न | मे | काल + अत्यय | भवेत्
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्
View Padaccheda
एतावद् | उक्त्वा | शैनेय | आचार्यं | परिवर्जयन्
प्रयातः | सहसा | राजन् | सारथिं | च + इदम् | अब्रवीत्
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे यत्तो याहि रणे सूत शृणु चेदं वचः परम्
View Padaccheda
द्रोणः | करिष्यते | यत्नं | सर्वथा | मम | वारणे
यत्तो | याहि | रणे | सूत | शृणु | च + इदम् | वचः | परम्
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम्
View Padaccheda
एतद् | आलोक्यते | सैन्यम् | आवन्त्यानां | महत् + प्रभा
इदम् + अनन्तर + तु + एतद् | दाक्षिणात्यं | महत् + बल
तदनन्तरमेतच्च बाह्लिकानां बलं महत् बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम्
View Padaccheda
तद् + अनन्तरम् | एतद् + च | बाह्लिकानां | बलं | महत्
बाह्लिक + अभ्याश | युक्तं | कर्ण + अपि | महद् | बलम्
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे अन्योन्यं समुपाश्रित्य त्यक्ष्यन्ति रणाजिरम्
View Padaccheda
अन्योन्येन | हि | सैन्यानि | भिद् + एतद् | सारथे
अन्योन्यं | समुपाश्रित्य | न | त्यक्ष्यन्ति | रण + अजिर
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् मध्यमं जवमास्थाय वह मामत्र सारथे
View Padaccheda
एतद् | अन्तरम् | आसाद्य | चोदय् + अश्व | प्रहृष् + वत्
मध्यमं | जवम् | आस्थाय | वह | माम् | अत्र | सारथे
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः
Where the Valhikas are seen stationed with weapons uplifted, where stand the numerous Southerners headed by Suta's son Karna;
View Padaccheda
बाह्लिका | यत्र | दृश्यन्ते | नाना + प्रहरण + उद्यम्
दाक्षिणात्य + च | बहवः | सूतपुत्र + पुरोगम
हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्
And where stands that division teeming with elephants, horses and cars and foot-soldiers recruited from various realms.
View Padaccheda
हस्तिन् + अश्व + रथ + सम्बाध | यद् + च + अनीक | विलोक्यते
नाना + देश + समुत्थ + च | पदातिभिर् | अधिष्ठितम्
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम्
Having thus spoken and avoiding the Brahmana, he advanced addressing his charioteer thus, "Pass through the breach between those two divisions towards the mighty and fierce host of Karna.
View Padaccheda
एतावद् | उक्त्वा | शैनेय | आचार्यं | परिवर्जयन्
स | व्यतीयाय | यत्र + उग्र | कर्णस्य | सु + महत् | बलम्
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम्
Thereupon, inflamed with rage, Drona began to pursue the illustrious Yuyudhana who was proceeding steadily, discharging numerous arrows.
View Padaccheda
तं | द्रोणो | ऽनुययौ | क्रुद्धो | विकिरन् | विशिखान् | बहून्
युयुधानं | महत् + बाहु | गच्छन्तम् | अनिवर्तिनम्
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः प्राविशद्भारतीं सेनामपर्यन्तां सात्यकिः
Then Satyaki afflicting Karna's mighty host with his sharp arrows, plunged into che infinite host of the Bharatas.
View Padaccheda
कर्णस्य | सैन्यं | सु + महत् | अभिहत्य | शितैः | शरैः
प्राविशद् | भारतीं | सेनाम् | अपर्यन्तां | स | सात्यकिः
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्
When Yuyudhana had thus entered into the ranks of your soldiers and when your soldiers were breaking away, Kritavarman inspired with rage opposed Satyaki.
View Padaccheda
प्रविष्टे | युयुधाने | तु | सैनिकेषु | द्रुतेषु | च
अमर्षी | कृतवर्मा | तु | सात्यकिं | पर्यवारयत्
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्
The highly-puissant Satyaki struck him as he was advancing with six arrows; and then with four other shafts, he slew the latter's four steeds.
View Padaccheda
तम् | आपतन्तं | विशिखैः | षड्भिर् | आहत्य | सात्यकिः
चतुर् | इदम् + अश्व | आहन् + आशु | वीर्यवान्
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे
Then again Satyaki pierced Kritavarman on the breast, with sixteen swift-flying arrows of depressed knots.
View Padaccheda
ततो | दुर्योधनः | कृष्णौ | नवभिर् | नम् + पर्वन्
वासुदेवं | च | दशभिः | प्रत्यविध्यत् | स्तनान्तरे
तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः सात्वतेन महाराज कृतवर्मा चक्षमे
O mighty monarch, thus pierced with numerous arrows of great fierceness by that Satvata hero, Kritvarman did not brook it. arrow
View Padaccheda
स | तुद्यमानो | विशिखैर् | बहु + तिग्म + तेजन
सात्वतेन | महत् + राज | शतधा + अभिविदृ
वत्सदन्तं संधाय जिह्मगानलसंनिभम् आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्
Placing a Vatsadantha, capable of flying straight and resembling fire, O king, on the string of his bow, Kritavarman drew it back to his very ears and with that arrow then pierced Satyaki on the breast.
View Padaccheda
स | वत्सदन्तं | संधाय | जिह्मग + अनल + संनिभ
आकृष्य | राजन्न् | कर्णाद् | व्यध् + उरस् | सात्यकिम्
तस्य देहावरणं भित्त्वा देहं सायकः सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः
That furnished with beautiful feathery wings, penetrating through the armour and body of Satyaki, entered the earth, being steeped in blood.
View Padaccheda
स | तस्य | देह + आवरण | भित्त्वा | देहं | च | सायकः
स + पत्त्र + पुङ्ख | पृथिवीं | विवेश | रुधिर + उक्ष्
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् समार्गणगुणं राजन्कृतवर्मा शरासनम्
O monarch, then Kritavarman acquainted with many excellent weapons, cut-off by means of his arrows, the bow of Satyaki having arrows fixed on its string.
View Padaccheda
सात्यकिं | बहुभिर् | बाणैर् | यतमानम् | अविध्यत
स + मार्गण + गुण | राजन् | कृतवर्मा | शरासनम्
विव्याध रणे राजन्सात्यकिं सत्यविक्रमम् दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे
Then again inflamed with rage, he pierced, O king, Satyaki of indomitable prowess on the chest, with ten shafts of great sharpness.
View Padaccheda
अभ्यद्रवत् | स्वयं | द्रोणः | सात्यकिं | सत्य + विक्रम
दशभिर् | विशिख + तीक्ष्ण | अभिक्रुद्धः | स्तनान्तरे
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः
Thereat that foremost of all creatures endued with prowess, viz., Satyaki, seeing his bow cut asunder, wounded the right arm of Kritavarman with an excellent lance.
View Padaccheda
ततः | प्रशीर्णे | धनुषि | शक्त्या | शक्तिमतां | वरः
अभ्यहन् | दक्षिणं | बाहुं | सात्यकिः | कृतवर्मणः
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः
Then taking up and stretching a bow of tougher make, Yuyudhana swiftly discharged at his enemy hundreds and thousands of shafts;
View Padaccheda
ततो | ऽन्यत् | सु + दृढ | वीरो | धनुर् | आदाय | सात्यकिः
विमुच् + निशा | बाणाञ् | शतशो | ऽथ | सहस्रशः
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु सात्यकिः
And with that arrowy shower, he then completely covered Kritavarman and his chariot. Thus covering the son of Hridika, O monarch, Satyaki in that battle.
View Padaccheda
अमर्षी | कृतवर्मा | तु | सात्यकिं | पर्यवारयत्
छादयित्वा | रणे | ऽत्यर्थं | हार्दिक्यं | तु | स | सात्यकिः
अथास्य भल्लेन शिरः सारथेः समकृन्तत पपात हतः सूतो हार्दिक्यस्य महारथात् ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम्
Cut off with a bhalla the head of the charioteer of his opponent, from his trunk. Thus slain, the driver of Kritavarman fell down from his niche of the chariot.
View Padaccheda
अथ + इदम् | भल्लेन | शिरः | सारथेः | समकृन्तत
स | पपात | हतः | सूतो | हार्दिक्यस्य | महत् + रथ
ततस् + तद् | यन्तरि | हते | प्रद्रु + तुरग | भृशम्
अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम् तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्
View Padaccheda
अथ | भोज + तु + असम्भ्रान्त | निगृह्य | तुरगान् | स्वयम्
तस्थौ | शर + धनुष्पाणि + तद् | सैन्य + अभिपूजय्
मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् व्यपेतभीरमित्राणामावहत्सुमहद्भयम् सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत्
Himself quite undaunted, he struck terror into the hearts of his enemies. By this time however, Satyaki had proceeded leaving him behind; whereupon Kritavarman fell upon Bhimasena.
View Padaccheda
स | मुहूर्तम् | इव + आश्वस् | सत् + अश्व | समचोदयत्
व्यपे + भी | अमित्राणाम् | आवहत् | सु + महत् | भयम्
सात्यकि + च + अभिगा | तस्मात् | स | तु | भीमम् | उपाद्रवत्
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम्
O mighty monarch, Yuyudhana also cmerging out of the division of the Bhojas, quickly proceeded against the strong host of the Kambojas.
View Padaccheda
युयुधानो | ऽपि | राजन् + इन्द्र | द्रोण + अनीक | विनिःसृतः
प्रययौ | त्वर् + तूर्णम् | काम्बोजानां | महत् + चमू
तत्र बहुभिः शूरैः संनिरुद्धो महारथैः चचाल तदा राजन्सात्यकिः सत्यविक्रमः
There he was opposed by many heroic carwarriors; in consequence whereof, Satyaki of uobaffled prowess could not move even one step forward.
View Padaccheda
स | तत्र | बहुभिः | शूरैः | संनिरुद्धो | महत् + रथ
विव्याध | च | रणे | राजन् | सात्यकिं | सत्य + विक्रम
संधाय चमूं द्रोणो भोजे भारं निवेश्य अन्वधावद्रणे यत्तो युयुधानं युयुत्सया
Thereafter uniting his troops and vesting the ruler of the Bhojas' with their command, Drona with a firm resolve for fighting with Yuyudhana, rushed against him.
View Padaccheda
संधाय | च | चमूं | द्रोणो | भोजे | भारं | निवेश्य | च
अन्वधावद् | रणे | यत्तो | युयुधानं | युयुत्सया
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः
Then beholding Drona follow Yuyudhana from behind, the foremost warriors among the Kurus filled with delight began to impede his progress.
View Padaccheda
तथा | तम् | अनुधावन्तं | युयुधानस्य | पृष्ठतः
न्यवारयन्त | संक्रुद्धाः | पाण्डु + सैन्य | बृहत्तमाः
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः विक्रम्य वारिता राजन्वीरेण कृतवर्मणा
Meanwhile the Panchalas commanded by Bhimasena, encountering that foremost of carwarriors viz., Hridika's son, became greatly depressed at heart.
View Padaccheda
समासाद्य | तु | हार्दिक्यं | रथानां | प्रवरं | रथम्
पाञ्चाला | विगम् + उत्साह | भीमसेन + पुरोगम
विक्रम्य | वारिता | राजन् | वीरेण | कृतवर्मणा
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत्
View Padaccheda
यत् + तु | तान् | सर्वान् | ईषद् | विगम् + चेतस्
अभितस् + तद् | शर + ओघ | क्लम् + वाह | अवारयत्
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः
With the shower of his arrows Kritavarman then checked the vehicles of his foes standing before him. The Pandava warriors though thus i afflicted by the Bhoja king, yet stood like noble heroes, desirous on encountering the divisions of the Bhojas and of winning great renown in battle.
View Padaccheda
निग्रह् + तु | भोजेन | भोज + अनीक + ईप्सु | रणे
अतिष्ठन्न् | आर्य + वत् | वीराः | प्रार्थयन्तो | महद् | यशः