Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 3 - Chapter 3.121 (23 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 3.121

नृगेण यजमानेन सोमेनेह पुरंदरः तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात्
Lomasha said: O King, when Nriga performed sacrifices and gratified Purandara (Indra) with the offer of Soma juice, he became very much gratified and was much pleased.
View Padaccheda
नृगेण | यजमानेन | सोम + इह | पुरंदरः
तर्पितः | श्रूयते | राजन् | स | तृप्तो | मदम् | अभ्यगात्
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः
Here did the celestials with Indra and Prajapati (Brahma) perform many sacrifices on a large scale and paid large Dakshinas to the ministering priests.
View Padaccheda
इह | देवैः | सह + इन्द्र | हि | प्रजापतिभिर् | एव | च
आजमीढो | महत् + यज्ञ | बहुभिर् | भूरि + दक्षिणा
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् तर्पयामास सोमेन हयमेधेषु सप्तसु
Here king Amurtarasya offered oblations of Soma to the wielder of Vajra (Indra) in seven great horse-sacrifices.
View Padaccheda
आमूर्तरयसश् | च + इह | राजा | वज्र + धर | प्रभुम्
तर्पयामास | सोमेन | हयमेधेषु | सप्तसु
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् वानस्पत्यं भौमं यद्द्रव्यं नियतं मखे
The articles which in other sacrificial rites are uniformly made of timber, wood and of earth were all made of gold in these seven sacrifices.
View Padaccheda
तस्य | सप्तसु | यज्ञेषु | सर्वम् | अस् + हिरण्मय
वानस्पत्यं | च | भौमं | च | यद् | द्रव्यं | नियतं | मखे
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः
View Padaccheda
तद् + एव | च + इदम् | यज्ञेषु | प्रयोगाः | सप्त | विश्रुताः
सप्तन् + एकैक | यूपस्य | चषालाश् | च + उपरि | स्थिताः
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर
View Padaccheda
तस्य | सप्तसु | यज्ञेषु | सर्वम् | अस् + हिरण्मय
स्वयम् | उत्थापयामासुर् | देवाः | स + इन्द्र | युधिष्ठिर
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
View Padaccheda
तेषु | तस्य | मख + अग्र्य | गयस्य | पृथिवीपतेः
अमाद्यद् | इन्द्रः | सोमेन | दक्षिणाभिर् | द्विजातयः
सिकता वा यथा लोके यथा वा दिवि तारकाः यथा वा वर्षतो धारा असंख्येयाश्च केनचित्
As the sand-grains on earth, as stars in the firmament, as the rain drops when it rains cannot be counted. So the wealth that Gaya gave away could not be counted.
View Padaccheda
सिकता | वा | यथा | लोके | यथा | वा | दिवि | तारकाः
यथा | वा | वर्षतो | धारा | असंख्येय + च | केनचित्
तथैव तदसंख्येयं धनं यत्प्रददौ गयः सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु
As the sand-grains on earth, as stars in the firmament, as the rain drops when it rains cannot be counted. So the wealth that Gaya gave away could not be counted.
View Padaccheda
तथा + एव | तद् | असंख्येयं | धनं | यत् | प्रददौ | गयः
सदस्येभ्यो | महत् + राज | तेषु | यज्ञेषु | सप्तसु
भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम् सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः
O great king, even the above mentioned objects might be counted, but the Dakshinas bestowed on the priests in those seven sacrifices could not be counted. Its largeness exceeded all that was known before.
View Padaccheda
भवेत् | संख्येयम् | एतद् | वै | यद् | एतत् | परिकीर्तितम्
न | सा | शक्या | तु | संख्यातुं | दक्षिणा | दक्षिणावतः
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्
The images of the goddess of speech were made of gold by Vishvakarma himself. The king gratified the Brahmanas by presenting them to those priests who came there from all directions. O king, when Gaya performed his sacrifices, he erected sacrificial stakes at so many places that little space was left (uncovered) on earth.
View Padaccheda
हिरण्मयीभिर् | गोभिश् | च | कृताभिर् | विश्वकर्मणा
तर्पयामास | विप्र + इन्द्र + नाना + दिश् | समागतान्
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः गयस्य यजमानस्य तत्र तत्र विशां पते
View Padaccheda
अल्प + अवशेष | पृथिवी | चैत्यैर् | आसीन् | महात्मनः
स | पूर्वदेव + चरित | तत्र | तत्र | विशां | पते
लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत सलोकतां तस्य गच्छेत्पयोष्ण्यां उपस्पृशेत्
O descendant of Bharata, he obtained the region of Indra by his that act. He who bathes in the Payoshini goes to the region obtained by him.
View Padaccheda
स | लोकान् | प्राप्तवान् | ऐन्द्रान् | कर्मणा | तेन | भारत
लवेडिकां | ततो | गच्छेत् | पुण्यां | पुण्य + उपसेव्
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि
Therefore, O king of kings, O undeteriorating one, O protector of earth, you and your brothers should bathe in this river; and then you will be freed from all sins.
View Padaccheda
एवम् | उक्त्वा | तु | कौन्तेयो | भ्रातृभिः | सहितो | ऽनघः
उपस्पृश्य | महीपाल | धू + पाप्मन् | भविष्यसि
पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह वैडूर्यपर्वतं चैव नर्मदां महानदीम् समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः
View Padaccheda
स | पयोष्ण्यां | नर + श्रेष्ठ | स्नात्वा | वै | भ्रातृभिः | सह
चर्मण्वती | तथा | च + एव | पर्णाशा | च | महानदी
आहन् + अम्बर + संव्ये | भ्रातृभिः | सहितो | ऽनघः
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः तीर्थानि रमणीयानि तत्र तत्र विशां पते
View Padaccheda
ततो | ऽस्य | सर्व + आख्या | लोमशो | भगवान् | ऋषिः
स | पूर्वदेव + चरित | तत्र | तत्र | विशां | पते
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः
View Padaccheda
यथायोगं | यथाप्रीति | प्रययौ | भ्रातृभिः | सह
यत् + च | तद् | रुक्म + पात्री | ब्राह्मणेभ्यः | सहस्रशः
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य
Lomasha said: O son of Kunti, seeing the Vaidurya mountain and bathing in the Narmada, one obtains the region of the celestials and the kings.
View Padaccheda
नलो | ऽपि | राजा | कौन्तेय | श्रुत्वा | राज्ञां | समागमम्
वैडूर्य + पर्वत | च + एव | नर्मदां | च | महत् + नदी
संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते
O foremost of men, O son of Kunti, this is the junction of Treta and Kali (ages); this is the time when a person is cleansed of all his sins.
View Padaccheda
संधिर् | एष | नर + श्रेष्ठ | त्रेताया | द्वापरस्य | च
स्नाति | वै | नियम् + आहार | सर्व + पाप | प्रमुच्यते
एष शर्यातियज्ञस्य देशस्तात प्रकाशते साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः
O child, this is the place where Sharyati performed his sacrifice. Kaushika (Indra) with Ashvins appeared here in their visible forms and drank the Soma (juice).
View Padaccheda
एष | शर्याति + यज्ञ | देशस् | तात | प्रकाशते
साक्षाद् | यत्र + पा | सोमम् | अश्विभ्यां | सह | कौशिकः
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः संस्तम्भयामास तं वासवं च्यवनः प्रभुः सुकन्यां चापि भार्यां राजपुत्रीमिवाप्तवान्
The greatly ascetic, the descendant of Bhrigu, was filled with anger against Indra. The lord Chyavana paralyzed Indra and obtained the princess Sukanya as his wife.
View Padaccheda
चुकोप | भार्गव + च + अपि | महत् + इन्द्र | महत् + तपस्
संस्तम्भयामास | च | तं | वासवं | च्यवनः | प्रभुः
सुकन्यां | च + अपि | भार्यां | स | राजपुत्रीम् | इव + आप्
कथं विष्टम्भितस्तेन भगवान्पाकशासनः किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः
Yudhishthira said: Why the exalted chastiser of Paka, Indra, was paralyzed and the great ascetic, the descendant of Bhrigu got angry against him?
View Padaccheda
कथं | विष्टम्भितस् | तेन | भगवान् | पाकशासनः
चुकोप | भार्गव + च + अपि | महत् + इन्द्र | महत् + तपस्
नासत्यौ कथं ब्रह्मन्कृतवान्सोमपीथिनौ एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम
O Brahmana, why he made the Ashvins, the drinkers of Soma? O exalted one, narrate all this to me in detail.
View Padaccheda
नासत्यौ | च | कथं | ब्रह्मन् | कृतवान् | सोम + पीथिन्
तद् + च | सर्वं | यथावृत्तम् | आख्याति | स्म | वृकोदरः