Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 13 - Chapter 13.143 (44 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 13.143

ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप
Yudhishthira said You always worship, O king, Brahmanas of praiseworthy vows. What, however, is that fruit sceing which you adore them, O king?
View Padaccheda
ब्राह्मणान् | अर्चसे | राजन् | सततं | संशित + व्रत
कं | वा | कर्मन् + उदय | मत्वा | तान् | अर्चसि | महामते
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत तानर्चसि महाबाहो सर्वमेतद्वदस्व मे
O you of high vows, secing what prosperity of the worship of the Brahmanas, do you worship them? Tell me all this, you of mighty arms.
View Padaccheda
कां | तु | ब्राह्मण + पूजा | व्युष्टिं | दृष्ट्वा | जनाधिप
तान् | अर्चसि | महत् + बाहु | सर्वम् | एतद् | वदस्व | मे
एष ते केशवः सर्वमाख्यास्यति महामतिः व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः
Bhishma said Here is Keshava gifted with great intelligence. He will tell you everything. Of high vows and gifted with prosperity, he will tell you what the prosperity is of the worship of Brahmanas.
View Padaccheda
एष | ते | केशवः | सर्वम् | आख्यास्यति | महामतिः
कां | वा | ब्राह्मण + पूजा | व्युष्टिं | दृष्ट्वा | महत् + व्रत
बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा विशुद्धं ममाद्य देहन्यासो नातिचिरान्मतो मे; चातितूर्णं सविताद्य याति
My strength, cars, speech, mind, eyes, and that clear understanding of mine, are all clouded today. I think the time is not distant when I shall have to renounce my body. The Sun seems to me to go very slowly.
View Padaccheda
बलं | श्रोत्रे | वाङ् | मनस् + चक्षुस् | च | ज्ञानं | तथा | न | विशुद्धं | मद् + अद्य
देह + न्यास | न + अति + चिरात् + मन् | मे | न | च + अति + तूर्णम् | सवितृ + अद्य | याति
उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ
Those high duties, O king, which are mentioned in the Puranas as observed by Brahmanas and Kshatriyas and Vaishyas and Shudras, have all been described by me. Do you, O son of Pritha, learn from Krishna what little remains to be learnt about them.
View Padaccheda
उक्ता | धर्मा | ये | पुराणे | महान्तो | ब्राह्मणानां | क्षत्रियाणां | विशां | च
पौराणं | ये | दण्डम् | उपासते | च | शेषं | कृष्णाद् | उपशिक्षस्व | पार्थ
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम् अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु
I know Krishna truly. I know who he is and what his ancient might is. O chief of the Kauravas, Keshava is of immeasurable soul. Whenever doubts arise, it is he who upholds virtue then.
View Padaccheda
अहं | हि + एनद् | वेद्मि | तत्त्वेन | कृष्णं | यो | ऽयं | हि | यद् + च + इदम् | बलं | पुराणम्
अमेय + आत्मन् | केशवः | कौरव + इन्द्र | सो | ऽयं | धर्मं | वक्ष्यति | संशयेषु
कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः सृष्टिस्तथैवेयमनुप्रसूता; निर्ममे विश्वमिदं पुराणम्
Below Him are the sky, Heaven, the four cardinal points, and ihe four subsidiary points. It is from Him that the entirc crcation has emanated. It is He who has created this ancient universe.
View Padaccheda
कृष्णः | पृथ्वीम् | असृजत् | खं | दिवं | च | वराहो | ऽयं | भीम + बल | पुराणः
अस्य | च + अधस् | अथ + अन्तरिक्ष | दिवं | च | दिश् + चतुर् | प्रदिश् + चतुर्
सृष्टि + तथा + एव + इदम् | अनुप्रसूता | स | निर्ममे | विश्वम् | इदं | पुराणम्
अस्य नाभ्यां पुष्करं संप्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम्
In His navel appeared a Lotus. Within that Lotus originated Brahman, himself of immeasurable energy. It was Brahman, O son of Pritha, who broke open that darkness which existed surpassing the very occan (in depth and extent).
View Padaccheda
अस्य | नाभ्यां | पुष्करं | सम्प्रसूतं | यत्र + उत्पद् | स्वयम् | एव + अमित + ओजस्
यद् + आच्छिद् | तत् | तमः | पार्थ | घोरं | यत् | तत् | स्था + अर्णव | तर्जयानम्
कृते युगे धर्म आसीत्समग्र;स्त्रेताकाले ज्ञानमनुप्रपन्नः बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम
In the Krita age, O Partha, Krishna existed in the form of Virtuc. In the Treta age, he existed in the form of Knowledge. In the Dvapara age, he existed in the form of power. In the Kali age, he came to the Earth in the form of sin.
View Padaccheda
कृते | युगे | धर्म | आसीत् | समग्रस् | त्रेता + काल | ज्ञानम् | अनुप्रपन्नः
बलं | तु + अस् | द्वापरे | पार्थ | कृष्णः | कलि + अधर्म | क्षितिम् | आजगाम
पूर्वदेवो निजघान दैत्या;न्स पूर्वदेवश्च बभूव सम्राट् भूतानां भावनो भूतभव्यः; विश्वस्यास्य जगतश्चापि गोप्ता
It is He who formerly killed the Dailyas. It is he who is the Ancient God. It is He who ruled the Asuras in the form of their Emperor (Balin). It is He who is the Creator of all beings. It is He who is also the fulure of all created Beings. It is He who is also the protector of this universe having the seed of destruction.
View Padaccheda
स | पूर्वदेवो | निजघान | दैत्यान् | स | पूर्वदेव + च | बभूव | सम्राट्
स | भूतानां | भावनो | भू | स | विश्व + इदम् | जगन्त् + च + अपि | गोप्ता
यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु धर्मे स्थित्वा तु वै भावितात्मा; परांश्च लोकानपरांश्च याति
When the cause of Virtue suffers, this Krishna takes birth in the family of either the gods or among men. Staying on Virtuc, this Krishna of purified soul (on such occasions) protects both the higher and the lower worlds.
View Padaccheda
यदा | धर्मो | ग्लायति | वै | सुराणां | तदा | कृष्णो | जायते | मानुषेषु
धर्मे | स्थित्वा | स | तु | वै | भावितात्मा | पर + च | लोकान् | अपर + च | याति
त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ कृतं करिष्यत्क्रियते देवो; मुहुः सोमं विद्धि शक्रमेतम्
Sparing those who deserve to be spared, Krishna sets himself to the destruction of the Asuras, O Partha. It is he who is all acts proper and improper and it is he who is the cause. It is Krishna who is the act done, the act to be done, and the act that is being done. Know that the illustrious one is Rahu and Soma and Shakra.
View Padaccheda
त्यज् + अथ + असुर | वधाय | कार्य + अकार्य | कारणं | च + एव | पार्थ
कृतं | करिष्यत् | क्रियते | च | देवो | मुहुः | सोमं | विद्धि | च | शक्रम् | एतम्
विश्वकर्मा विश्वरूपः; विश्वभृद्विश्वसृग्विश्वजिच्च शूलभृच्छोणितभृत्कराल;स्तं कर्मभिर्विदितं वै स्तुवन्ति
It is he who is Vishvakarman. It is he who is of universal forin. He is the destroyer and he is the Creator of the universe. He is the holder of the Shula (lance); He is of human form; and he is of terrible forin. All crcatures sing his praises, for he is known by his decds.
View Padaccheda
स | विश्व + कर्मन् | स | च | विश्व + रूप | स | विश्व + भृत् | विश्व + सृज् | विश्व + जित् + च
स | शूल + भृत् + शोणित | करालस् | तं | कर्मभिर् | विदितं | वै | स्तुवन्ति
तं गन्धर्वा अप्सरसश्च नित्य;मुपतिष्ठन्ते विबुधानां शतानि तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः विजिगीषुरेकः
Hundreds of Gandharvas and Apsaras and celestials always accompany him. The very Rakshasas sing his praises. He is the Enhancer of Wealth; He is the one Victorian Being in the universe.
View Padaccheda
तं | गन्धर्वा | अप्सरस् + च | नित्यम् | उपतिष्ठन्ते | विबुधानां | शतानि
तं | राक्षस + च | परिसंवहन्ते | रायस्पोषः | स | विजिगीषुर् | एकः
तमध्वरे शंसितारः स्तुवन्ति; रथंतरे सामगाश्च स्तुवन्ति तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति
In Sacrifices, cloqucnt men sing His praises. The singers of Samans praise him by reciting the Rathantaras. The Brahmanas praise him with Vedic Mantras. It is to him that the sacrificial priests pour their libations.
View Padaccheda
तम् | अध्वरे | शंसितारः | स्तुवन्ति | रथंतरे | सामग + च | स्तुवन्ति
तं | ब्राह्मणा | ब्रह्मन् + मन्त्र | स्तुवन्ति | तस्मै | हविर् | अध्वर्यवः | कल्पयन्ति
पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च
The celestials headed by Indra sang his praises when he lifted up thc Gobardhana mountains for protecting the cowherds of Vrindavan against the incessant showers that Indra poured in anger. He is, O Bharata, the one Blessing to all creatures. He, O Bharata, having entered the old Brahmacave, saw from that place the original cover of the world in the beginning of time.
View Padaccheda
स | पौराणीं | ब्रह्मन् + गुहा | प्रविष्टो | मही + सत्त्र | भारत + अग्र | ददर्श
स | च + एव | गाम् | उद्धृ + अग्र्य + कर्मन् | विक्षोभ्य | दैत्यान् | उरगान् | दानव + च
तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य
View Padaccheda
तस्य | भक्षान् | विविधान् | वेदयन्ति | तम् | एव + आजि | वाहनं | वेदयन्ति
तद् + अन्तरिक्ष | पृथिवी | दिवं | च | सर्वं | वशे | तिष्ठति | शाश्वतस्य
कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् मातरिश्वा विभुरश्ववाजी; रश्मिमान्सविता चादिदेवः
View Padaccheda
स | कुम्भरेताः | ससृजे | पुराणं | यत्र + उत्पद् | ऋषिम् | आहुर् | वसिष्ठम्
स | मातरिश्वा | विभुर् | अश्व + वाजिन् | स | रश्मिमान् | सविता | च + आदिदेव
तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम्
View Padaccheda
तद् + असुर | विजिताः | सर्व | एव | तस्य | विक्रान्तैर् | विजि + इह | त्रीणि
स | देवानां | मानुषाणां | पितॄणां | तम् | एव + अह् | यज्ञ + विद् | वितानम्
एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः
View Padaccheda
स | एव | कालं | विभजन्न् | उदेति | तद् + उत्तर | दक्षिणं | च + अयन | द्वे
तद् + एव + ऊर्ध्वम् | तिर्यग् | अधस् + चर् | गभस्तयो | मेदिनीं | तापयन्तः
तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति
View Padaccheda
तं | ब्राह्मणा | वेद + विद् | जुषन्ति | तद् + आदित्य | भाम् | उपयुज्य | भाति
स | मासि | मास् + अध्वर + कृत् | विधत्ते | तम् | अध्वरे | वेद + विद् | पठन्ति
एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि
Gifted with great energy, pervading all things, the foremost of all creatures, it is Krishna who alone upholds all the worlds. He is the Sun, the remover of all darkness. He is the Creator of all. Do you, O hero, approach that Krishna.
View Padaccheda
स | एक + युज् | चक्रम् | इदं | त्रि + नाभि | सप्तन् + अश्व + युज् | वहते | वै | त्रिधामा
महत् + तेजस् | सर्व + ग | सर्व + सिंह | कृष्णो | लोकान् | धारयते | तथा + एक
अश्नन्न् | अन् + अश् + च | तथा + एव | धीरः | कृष्णं | सदा | पार्थ | कर्तारम् | एहि
एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति
Once on a time, the great and powerful Krishna lives, for a while, in the form of Agni in the forest of Khandava among some straw or dry grass. Soon was he pleased. Capable of going everywhere at will, it was Krishna who, having subjugated the Rakshasas and Uragas, poured thein as libations upon the burning fire.
View Padaccheda
स | एकदा | कक्ष + गम् | महात्मा | तृप्तो | विभुः | खाण्डवे | धूमकेतुः
स | राक्षसान् | उरग + च + अवजि | सर्वत्रगः | सर्वम् | अग्नौ | जुहोति
एवाश्वः श्वेतमश्वं प्रयच्छ;त्स एवाश्वानथ सर्वांश्चकार त्रिवन्धुरस्तस्य रथस्त्रिचक्र;स्त्रिवृच्छिराश्चतुरस्रश्च तस्य
It is Krishna who gave to Arjuna a number of white horses. It is he who is the creator of all horses. This world represents his car. He it is who yokes that car for setting it in motion. That car has three whcels. It has three kinds of motion. It has four horses yoked it. It has three naves.
View Padaccheda
स | एव + अश्व | श्वेतम् | अश्वं | प्रयच्छत् | स | एव + अश्व | अथ | सर्व + कृ
त्रि + वन्धुर + तद् | रथ + त्रि + चक्र | त्रिवृत् + शिरस् + चतुर् + अस्र + च | तस्य
विहायो व्यदधात्पञ्चनाभिः; निर्ममे गां दिवमन्तरिक्षम् एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः
View Padaccheda
स | विहायो | व्यदधात् | पञ्चन् + नाभि | स | निर्ममे | गां | दिवम् | अन्तरिक्षम्
एवं | रम्यान् | असृजत् | पर्वत + च | हृषीकेशो | अमित + दीप् + अग्नि + तेजस्
लङ्घयन्वै सरितो जिघांस;न्स तं वज्रं प्रहरन्तं निरास महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः
View Padaccheda
स | लङ्घयन् | वै | सरितो | जिघांसन् | स | तं | वज्रं | प्रहरन्तं | निरास
स | महत् + इन्द्र | स्तूयते | वै | महत् + अध्वर | विप्रैर् | एको | ऋच् + सहस्र | पुराणैः
दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः तमेवाहुरृषिमेकं पुराणं; विश्वकृद्विदधात्यात्मभावान्
It was this Krishna, O king, who alone was able to keep the highly energetic Rishi Durvasas as a guest for some time in his house. He is said to be the one ancient Rishi. He is the Creator of the universe. Indeed, he creates everything from his own nature.
View Padaccheda
दुर्वासा | वै | तेन | न + अन्य | शक्यो | गृहे | राजन् | वासयितुं | महत् + ओजस्
तम् | एव + अह् | ऋषिम् | एकं | पुराणं | स | विश्व + कृत् | विधा + आत्मन् + भाव
वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान् कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि
Superior to all the celestials, it is he who teaches all the deities. He scrupulously observes all ancient ordinances. Know, O king, that this Krishna, who is called Vishvaksena, is the fruit of all deeds which relate to pleasure, of all deeds which are founded on the Vedas, and of all deeds which appertain to the world.
View Padaccheda
वेद + च | यो | वेदयते | ऽधिदेवो | विधि + च | यद् + च + आश्रि | पुराणान्
कामे | वेदे | लौकिके | यत् | फलं | च | विष्वक्सेने | सर्वम् | एतत् | प्रतीहि
ज्योतींषि शुक्लानि सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव
He is the white rays of light which are seen in all the worlds. He is the threc worlds. He is the thrce Regents of all the worlds. He is the threc sacrificial fires He is the three Vyahritis; indeed, this son of Devaki is all the gods together.
View Padaccheda
ज्योतींषि | शुक्लानि | च | सर्व + लोक | त्रयो | लोका | लोकपाल + त्रि + च
त्रयो | ऽग्नयो | व्याहृति + च | तिस्रः | सर्वे | देवा | देवकीपुत्र | एव
संवत्सरः ऋतुः सोऽर्धमासः; सोऽहोरात्रः कला वै काष्ठाः मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि
He is the Ycar; He is the Season; He is the Fortnights; He is the Day and the Night; He is those divisions of time which are called Kalas, and Kashthas, and Matras, and Muhurtas, and Lavas, and Kshanas, Know that this Vishvaksena is all these.
View Padaccheda
संवत्सरः | स | ऋतुः | सो | अर्ध + मास | सो | ऽहोरात्रः | स | कला | वै | स | काष्ठाः
मात्रा | मुहूर्त + च | लवाः | क्षण + च | विष्वक्सेने | सर्वम् | एतत् | प्रतीहि
चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम्
The Moon and the Sun, the Planets, the Constellations, and the Stars, all the Parva days, including the day of the full moon, the conjunctions of the constellations, and the seasons, have, O son of Pritha, emanated from this Krishna who is Vishvaksena.
View Padaccheda
चन्द्र + आदित्य | ग्रह + नक्षत्र + तारा | सर्वाणि | दर्श + अथ | पौर्णमास्यः
नक्षत्र + योग | ऋतु + च | पार्थ | विष्वक्सेनात् | सर्वम् | एतत् | प्रसूतम्
रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त
The Rudras, the Adityas, the Vasus, the Ashvins, the Saddhyas, the Vishvedevas, the Maruts, Prajapati himself, the mother of the celestials, viz., Aditi and the seven Rishis, have all originated from Krishna.
View Padaccheda
रुद्र + आदित्य | वसवो | अथ + अश्विन् | च | साध्या | विश्वे | मरुतां | षड् | गण + च
प्रजापतिर् | देव + मातृ + अदिति + च | सर्वे | कृष्णाद् | ऋषि + च + एव | सप्त
वायुर्भूत्वा विक्षिपते विश्व;मग्निर्भूत्वा दहते विश्वरूपः आपो भूत्वा मज्जयते सर्वं; ब्रह्मा भूत्वा सृजते विश्वसंघान्
Changing himself into the Wind, he scatters the universe. Of universal form, he becomes fire which consumes all things. Changing himself into Water, he drenches and submerges all, and assuming the form of Brahmans, he creates all the various animate and inanimate creatures.
View Padaccheda
वायुर् | भूत्वा | विक्षिपते | च | विश्वम् | अग्निर् | भूत्वा | दहते | विश्व + रूप
आपो | भूत्वा | मज्जयते | च | सर्वं | ब्रह्मा | भूत्वा | सृजते | विश्व + संघ
वेद्यं यद्वेदयते वेदा;न्विधिश्च यश्चाश्रयते विधेयान् धर्मे वेदे बले सर्वं; चराचरं केशवं त्वं प्रतीहि
He is himself the Veda, yet he learns all the Vedas. He is himself all the ordinances, yet he observes all the ordinances which have been laid down in matters connccted with Righteousness and the Vedas and that force or might which rules the world. Indeed, know, O Yudhishthira, that this Keshava is all the mobile and immobile universe.
View Padaccheda
वेद + च | यो | वेदयते | ऽधिदेवो | विधि + च | यद् + च + आश्रि | पुराणान्
धर्मे | च | वेदे | च | बले | च | सर्वं | चराचरं | केशवं | त्वं | प्रतीहि
ज्योतिर्भूतः परमोऽसौ पुरस्ता;त्प्रकाशयन्प्रभया विश्वरूपः अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम्
He is of the form of the most resplendent light. Of universal form, this Krishna is shorn in that blazing cffulgence. The original cause of the soul of all existent crcatures, he at first created the waters. Afterwards he created this universe.
View Padaccheda
ज्योतिस् + भू | परमो | ऽसौ | पुरस्तात् | प्रकाशयन् | प्रभया | विश्व + रूप
अपः | सृष्ट्वा | हि + आत्मभू | आत्मयोनिः | पुरा + कृ | सर्वम् | एव + अथ | विश्वम्
ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि
Know that this Krishna is Vishnu. Know him to be the soul of the entire universe. Know him to be all the scasons; he is these various wonderful visitations of Nature which we sec; he is the clouds that pour rain and the lightning which fleshes in the sky. He is the clephant Airavata. In fact, he is the immobile and mobile universe.
View Padaccheda
ऋतून् | उत्पातान् | विविध + अद्भुत | मेघान् | विद्युत् | सर्वम् | ऐरावतं | च
सर्वं | कृष्णात् | स्थावरं | जङ्गमं | च | विश्व + आख्या | विष्णुम् | एनं | प्रतीहि
विश्वावासं निर्गुणं वासुदेवं; संकर्षणं जीवभूतं वदन्ति ततः प्रद्युम्नमनिरुद्धं चतुर्थ;माज्ञापयत्यात्मयोनिर्महात्मा
The clay of the universe and above all attributes, this Krishna is Vasudeva When he becomes individual soul he is called Sankarshana. Next, he changes himself into Pradyumna and them into Aniruddha. Thus, the great Krishna, who has sprung from himself, divides himself in fourfold form.
View Padaccheda
विश्वावासं | निर्गुणं | वासुदेवं | संकर्षणं | जीव + भू | वदन्ति
ततः | प्रद्युम्नम् | अनिरुद्धं | चतुर्थम् | आज्ञापय् + आत्मयोनि | महात्मा
पञ्चधा पञ्चजनोपपन्नं; संचोदयन्विश्वमिदं सिसृक्षुः ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ
For crcating this universe which consists of the five primal elements, he begins this work, and causcs it to go on in the fivefold form of animate existence containing celestial and Asuras and human beings and beasts and birds. He it is who then creates the Earth and the Wind, the Sky, Light, and also Water, O son of Pritha.
View Padaccheda
स | पञ्चधा | पञ्चन् + जन + उपपद् | संचोदयन् | विश्वम् | इदं | सिसृक्षुः
ततस् + कृ + अवनि + मारुत | च | खं | ज्योतिर् | अप् + च | तथा + एव | पार्थ
स्थावरं जङ्गमं चैवमेत;च्चतुर्विधं लोकमिमं कृत्वा ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि तेन विश्वं कृतमेतद्धि राज;न्स जीवयत्यात्मनैवात्मयोनिः
Having created this universe of immobile and mobile objects divided into four orders of being (viz., viviparous, oviparous, vegetable, and fifthborn), he then created the Earth with her five fold seed. He then created the Sky for pouring copious rain on the Earth,
View Padaccheda
स | स्थावरं | जङ्गमं | च + एवम् | एतद् + चतुर्विध | लोकम् | इमं | च | कृत्वा
ततो | भूमिं | व्यदधात् | पञ्चन् + बीज | द्यौः | पृथिव्यां | धास्यति | भूरि | वारि
तेन | विश्वं | कृतम् | एतद् + हि | राजन् | स | जीवय् + आत्मन् + एव + आत्मयोनि
ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च समासेन विविधान्प्राणिलोका;न्सर्वान्सदा भूतपतिः सिसृक्षुः
View Padaccheda
ततो | देवान् | असुर + मानुष + च | लोकान् | ऋषि + च + अथ | पितॄन् | प्रजा + च
समासेन | विविधान् | प्राणिन् + लोक | सर्वान् | सदा | भूतपतिः | सिसृक्षुः
शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि
View Padaccheda
शुभ + अशुभ | स्थावरं | जङ्गमं | च | विष्वक्सेनात् | सर्वम् | एतत् | प्रतीहि
यद् | वर्तते | यद् + च | भू + इह | सर्वम् | एतत् | केशवं | त्वं | प्रतीहि
मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः भूतं यच्चेह विद्म किंचि;द्विष्वक्सेनात्सर्वमेतत्प्रतीहि
View Padaccheda
मृत्यु + च + एव | प्राणिनाम् | अन्तकाले | साक्षात् | कृष्णः | शाश्वतो | धर्म + वाह
भूतं | च | यद् + च + इह | न | विद्म | किंचिद् | विष्वक्सेनात् | सर्वम् | एतत् | प्रतीहि
यत्प्रशस्तं लोकेषु पुण्यं यच्च शुभाशुभम् तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत्
All that is noble and meritorious in the universe, all that is good and evil, is Keshava who is inconccivable. Hence, it is absurd to think of anything which is superior to Keshava.
View Padaccheda
यत् | प्रशस्तं | च | लोकेषु | पुण्यं | यद् + च | शुभ + अशुभ
तत् | सर्वं | केशवो | ऽचिन्त्यो | विपरीतम् | अतो | भवेत्
एतादृशः केशवोऽयं स्वयंभू;र्नारायणः परमश्चाव्ययश्च मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च
Keshava is such. More than this. He is Narayana, the highest of the high, immutable and undecaying. He is the cternal and changeless cause of the entire mobile and immobile universe with its beginning, middle, and end, as also of all creatures whose birth follows their wish.
View Padaccheda
एतादृशः | केशवो | ऽयं | स्वयंभूर् | नारायणः | परम + च + अव्यय
मध्यं | च + इदम् | जगन्त् + स्था + च | सर्वेषां | भूतानां | प्रभव + च + अप्यय