Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 12 - Chapter 12.37 (43 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 12.37

एवमुक्तो भगवता धर्मराजो युधिष्ठिरः चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्
Vaishampayana said This accosted by the holy Rishi, king Yudhishthira the just, having thought for a short time, said these words to the sage.
View Padaccheda
अव्याहरति | कौन्तेये | धर्मराजे | युधिष्ठिरे
चिन्तयित्वा | मुहूर्तं | तु | प्रत्युवाच | तपोधनम्
किं भक्ष्यं किमभक्ष्यं किं देयं प्रशस्यते किं पात्रमपात्रं वा तन्मे ब्रूहि पितामह
Yudhishthira said Tell me, O grandfather, what food is clean and what, unclean, what gift is praiseworthy, and who is the deserving, and who, undeserving (recipients of gifts).
View Padaccheda
किं | भक्ष्यं | किम् | अभक्ष्यं | च | किं | च | देयं | प्रशस्यते
किं | कृत्वा | च + एव | मुच्येत | तद् + मद् | ब्रूहि | पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम् सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः
Vyasa said “Regarding it is cited a old discourse between the ascetics and that lord of creation, viz., Manu.
View Padaccheda
अत्र + एव + उदाहृ + इदम् | इतिहासं | पुरातनम्
सिद्धानां | च + एव | संवादं | मनु + च + एव | प्रजापतेः
सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्
View Padaccheda
सिद्ध + तपस् + व्रत + पर | समागम्य | पुरा | विभुम्
धर्मं | पप्रच्छुर् | आसीनम् | आदि + काल | प्रजापतिम्
कथमन्नं कथं दानं कथमध्ययनं तपः कार्याकार्यं नः सर्वं शंस वै त्वं प्रजापते
View Padaccheda
कथम् | अन्नं | कथं | दानं | कथम् | अध्ययनं | तपः
कार्य + अकार्य | च | नः | सर्वं | शंस | वै | त्वं | प्रजापते
तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
View Padaccheda
धनं | धर्म + प्रधान + इष् | मनुः | स्वायंभुवो | ऽब्रवीत्
शुश्रूषध्वं | यथावृत्तं | धर्मं | व्यास + समास
अदत्तस्यानुपादानं दानमध्ययनं तपः अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम्
Refusal to take what is not given, gift, study of sacred books, penance, abstention from injury, truth, freedom from anger, and adoration of the gods in sacrifices,-these are the marks of virtue.
View Padaccheda
मित्र + ता | सर्व + भूत | दानम् | अध्ययनं | तपः
अहिंसा | सत्यम् | अक्रोधः | क्षमा + इज्या | धर्म + लक्षण
एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः
Virtue again, according to time and place, becomes sin. Thus misappropriation of another's property, untruth, and injury and killing, may under special circumstances, become virtue.
View Padaccheda
य | एव | धर्मः | सो | ऽधर्मो | ऽदेशे | ऽकाले | प्रतिष्ठितः
आदानम् | अनृतं | हिंसा | धर्मो | व्यावस्थिकः | स्मृतः
द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः
View Padaccheda
द्विविधौ | च + अपि + उभ् + एतद् | धर्म + अधर्म | विजानताम्
अप्रवृत्तिः | प्रवृत्ति + च | द्वैविध्यं | लोक + वेद
अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् अशुभस्याशुभं विद्याच्छुभस्य शुभमेव
View Padaccheda
अप्रवृत्तेर् | अमर्त्य + त्व | मर्त्य + त्व | कर्मणः | फलम्
अशुभ | विद् + शुभ | शुभम् | एव | च
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा दैवं दैवयुक्तं प्राणश्च प्रलयश्च
View Padaccheda
एतद् + च + उभय | स्यातां | शुभ + अशुभ + ता | तथा
दैवं | च | दैव + युज् | च | प्राण + च | प्रलय + च | ह
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते
Expiation has been laid down, for an act undertaken for the purpose of doing mischief (to some one) in the future, as well as for an act done whose consequence is apparently mischievous.
View Padaccheda
अप्रेक्षा + पूर्व + करण | अशुभानां | शुभं | फलम्
ऊर्ध्वं | भवति | संदेहाद् | इह | दृश् + अर्थ | एव | वा
महापातक + वर्ज | तु | प्रायश्चित्तं | विधीयते
क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति
When an act is performed from wrath or misjudgment, then expiation should be performed by paining the body, guided by example by scriptures, and by reason. when any action, is performed for pleasing or displeasing the mind, the sin originating thereform may be cleansed by pure food and recitation of Mantras.
View Padaccheda
ब्राह्मण + वच् | विधिना | दृष्टान्त + आगम + हेतु
शरीराणाम् | उपक्लेशो | मनस् + च | प्रिय + अप्रिय
तद् | औषध + च | मन्त्र + च | प्रायश्चित्त + च | शाम्यति
जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः वर्जयेन्न हि तं धर्मं येषां धर्मो विद्यते
There is no expiation for them who do not observe duties and practices of their order and caste, country, and family, and who forsake their own creed.
View Padaccheda
जाति + श्रेणि + अधिवास | कुल + धर्म + च | सर्वतः
वर्जय् + न | हि | तं | धर्मं | येषां | धर्मो | न | विद्यते
दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः यद्ब्रूयुः कार्य उत्पन्ने धर्मो धर्मसंशये
When any doubt arises regarding what should be done, it should be settled by the injunction of the scriptures which ten persons versed in Vedic scriptures or three of those who frequently recite them may declare.
View Padaccheda
दश | वा | वेद + शास्त्र + ज्ञ + त्रि | वा | धर्म + पाठक
यद् | ब्रूयुः | कार्य | उत्पन्ने | स | धर्मो | धर्म + संशय
अरुणा मृत्तिका चैव तथा चैव पिपीलकाः श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव
The bull, earth, little ants, worms born in dirt, and poison, should not be eaten by Brahmanas.
View Padaccheda
अरुणा | मृत्तिका | च + एव | तथा | च + एव | पिपीलकाः
श्लेष्मातक + तथा | विप्रैर् | अभक्ष्यं | विषम् | एव | च
अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये
They should also abstain from eating fishes that have scales, and four-legged aquatic animals like frogs and others, except the tortoise.
View Padaccheda
अभक्ष्या | ब्राह्मणैर् | मत्स्याः | शकलैर् | ये | विवर्जिताः
चतुष्पात् | कच्छपाद् | अन्यो | मण्डूका | जल + ज + च | ये
भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव
View Padaccheda
भासा | हंसाः | सुपर्ण + च | चक्रवाका | बकाः | प्लवाः
कङ्को | मद्गु + च | गृध्र + च | काक + उलूक | तथा + एव | च
क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः
View Padaccheda
क्रव्यादाः | पक्षिणः | सर्वे | चतुष्पाद + च | दंष्ट्रिणः
येषां | च + उभयतस् | दन्त + चतुर् + दंष्ट्र + च | सर्वशः
एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि मानुषीणां मृगीणां पिबेद्ब्राह्मणः पयः
View Padaccheda
एडक + अश्व + खर + उष्ट्री | सूतिकानां | गवाम् | अपि
मानुषीणां | मृगीणां | च | न | पिबेद् | ब्राह्मणः | पयः
प्रेतान्नं सूतिकान्नं यच्च किंचिदनिर्दशम् अभोज्यं चाप्यपेयं धेन्वा दुग्धमनिर्दशम्
Besides this the good that has been offered to the departed manes, that which has been usurer cooked by a woman who has recently given birth to a child, and food cooked by a unknown person, should not be taken. The milk also of a cow that has recently calved should not be drunk.
View Padaccheda
प्रेत + अन्न | सूतिका + अन्न | च | यद् + च | किंचिद् | अनिर्दशम्
अभोज्यं | च + अपि + अपेय | च | धेन्वा | दुग्धम् | अनिर्दशम्
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा
View Padaccheda
तक्ष्णश् | चर्मन् + अवकर्तृ + च | पुंश्चल्या | रजकस्य | च
चिकित्सकस्य | यद् + च + अन्न | अभोज्यं | रक्षिन् + तथा
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये परिवित्तिनपुंषां बन्दिद्यूतविदां तथा
View Padaccheda
गण + ग्राम + अभिशंस् | रङ्ग + स्त्री + जीविन् + च | ये
च | बन्दिन् + द्यूत + विद् | तथा
वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं यत् सुरानुगतमुच्छिष्टमभोज्यं शेषितं यत्
View Padaccheda
वारय् + आहृ | च + अन्न | शुक्तं | पर्युषितं | च | यत्
सुरा + अनुगम् | उच्छिष्टम् | अभोज्यं | शेषितं | च | यत्
पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः
View Padaccheda
पिष्ट + मांस + इक्षु + शाक | विकाराः | पयस् + तथा
सक्तु + धाना + करम्भ + च | न + उपभुज् + चिर + स्था
पायसं कृसरं मांसमपूपाश्च वृथा कृताः अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः
View Padaccheda
पायसं | कृसरं | मांसम् | अपूप + च | वृथा | कृताः
अभोज्य + च + अपि + अभक्ष्य | ब्राह्मणैर् | गृहमेधिभिः
देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
View Padaccheda
देवान् | पितृ + मनुष्य + च | मुनीन् | गृह्य + च | देवताः
पूजयित्वा | ततः | पश्चाद् | गृहस्थो | भोक्तुम् | अर्हति
यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात्
View Padaccheda
यथा | प्रव्रजितो | भिक्षुर् | गृहस्थः | स्व + गृह | वसेत्
एवंवृत्तः | प्रियैर् | दारैः | संवसन् | धर्मम् | आप्नुयात्
दद्याद्यशसे दानं भयान्नोपकारिणे नृत्तगीतशीलेषु हासकेषु धार्मिकः
View Padaccheda
न | दद्याद् | यशसे | दानं | न | भय + न + उपकारिन्
न | नृत्त + गीत + शील | हासकेषु | च | धार्मिकः
मत्ते नैव चोन्मत्ते स्तेने चिकित्सके वाग्घीने विवर्णे वा नाङ्गहीने वामने
View Padaccheda
न | मत्ते | न + एव | च + उन्मद् | न | स्तेने | न | चिकित्सके
न | वाच् + हा | विवर्णे | वा | न + अङ्ग + हा | न | वामने
दुर्जने दौष्कुले वा व्रतैर्वा यो संस्कृतः अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि
View Padaccheda
न | दुर्जने | दौष्कुले | वा | व्रतैर् | वा | यो | न | संस्कृतः
अश्रोत्रिये | मृतं | दानं | ब्राह्मणे | अब्रह्मन् + वादिन्
असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः उभयोः स्यादनर्थाय दातुरादातुरेव
No gift should be made to a Brahmana who has no knowledge of the Vedas Gifts should be made to him only who is well read in the Vedas. An improper gift and an improper acceptance beget bad consequences to both the giver and the acceptor.
View Padaccheda
असम्यक् | च + एव | यद् | दत्तम् | असम्यक् | च | प्रतिग्रहः
उभयोः | स्याद् | अनर्थाय | दातुर् | आदातुर् | एव | च
यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः
As a person who tries to cross the sea with the help of a rock or a mass of catechu sinks with the supports, so the improper giver and the acceptor both sink together.
View Padaccheda
यथा | खदिरम् | आलम्ब्य | शिलां | वा + अपि + अर्णव | तरन्
मज्जते | मज्जते | तद्वद् | दाता | यद् + च | प्रतीच्छकः
काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो दीप्यते तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही
As a fire that is covered with wet fuel does not burn, so the acceptor of a gift who has not practised penances, and piety to those who studied Vedas, but cannot confer any benefit (upon the giver).
View Padaccheda
काष्ठैर् | आर्द्रैर् | यथा | वह्निर् | उपस्तीर्णो | न | दीप्यते
तपस् + स्वाध्याय + चारित्र | एवं | हीनः | प्रतिग्रही
कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्
As water in a skull and milk in a bag made of dog-skin become impure for the uncleanness of the vessels in which they are kept, so the Vedas become fruitless in a person who is not of good conduct.
View Padaccheda
कपाले | यद्वद् | आपः | स्युः | श्वन् + दृति | वा | यथा | पयः
आश्रय + स्थान + दोष | वृत्त + हा | तथा | श्रुतम्
निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि
One may give from pity to a low Brahmana who is without Mantras and vows, who is innocent of the scriptures and who is envious.
View Padaccheda
निर्मन्त्रो | निर्व्रतो | यः | स्याद् | अशास्त्र + ज्ञ | ऽनसूयकः
अनुक्रोशात् | प्रदातव्यं | दीन + एवम् | नर + अपि
वै देयमनुक्रोशाद्दीनायाप्यपकारिणे आप्ताचरितमित्येव धर्म इत्येव वा पुनः
One may, from pity, give to a person who is poor or afflicted or ill. But he should not make charities to such a person with the belief that he would drive any (spiritual) benefit from it or that he would acquire any religious merit by it.
View Padaccheda
न | वै | देयम् | अनुक्रोशाद् | दीन + अपि + अपकारिन्
आप्त + आचर् | इति + एव | धर्म | इति + एव | वा | पुनः
निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते भवेदपात्रदोषेण मेऽत्रास्ति विचारणा
Forsooth, gift made to a Brahmana ignorant of the Vedas, becomes perfectly fruitless for the shortcomings of the recipient.
View Padaccheda
निष्कारणं | स्म | तद् | दत्तं | ब्राह्मणे | धर्म + वर्जय्
भवेद् | अपात्र + दोष | न | मे | अत्र + अस् | विचारणा
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः
As an elephant made of wood, or an antelope made of leather, so is a Brahmana who has not read the Vedas. All the three have nothing but names.
View Padaccheda
यथा | दारु + मय | हस्ती | यथा | चर्मन् + मय | मृगः
ब्राह्मण + च + अनधीयान + त्रि + तद् | नामधारकाः
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा
As a eunuch cannot beget children on women, as a cow does not procreats on another cow, as a bird lives in vain that is featherless, even so is a Brahmana that without Mantras.
View Padaccheda
यथा | षण्ढो | ऽफलः | स्त्रीषु | यथा | गौर् | गवि | च + अफल
शकुनिर् | वा + अपि + अपक्ष | अस् + निर्मन्त्र | ब्राह्मण + तथा
ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः यथा हुतमनग्नौ तथैव स्यान्निराकृतौ
As grain without kernel, as a well without water, as libations poured on ashes, even so is a gift to a Brahmana who is ignorant.
View Padaccheda
ग्राम + धान्य | यथा | शून्यं | यथा | कूप + च | निर्जलः
यथा | हुतम् | अनग्नौ | च | तथा + एव | अस् + निराकृति
देवतानां पितॄणां हव्यकव्यविनाशनः शत्रुरर्थहरो मूर्खो लोकान्प्राप्तुमर्हति
An unlearned Brahmana is an enemy (to all) and is the destroyer of the food that is offered to the gods and the departed manes. A gift made to such a person become useless. He is, therefore, like a robber. He can never attain to blissful regions hereafter.
View Padaccheda
देवतानां | पितॄणां | च | हव्य + कव्य + विनाशन
शत्रुर् | अर्थ + हर | मूर्खो | न | लोकान् | प्राप्तुम् | अर्हति
एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ
now I have told you in brief, O Yudhishthira, all that was said by Manu on that occasion. This high discourse should be listened to by all, O foremost of Bharata's race.'
View Padaccheda
अत्र | ते | कथयिष्यामि | यथा | वृत्तं | जनेश्वर
समासेन | महत् + हि + एतद् + श्रु | भरत + ऋषभ