Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 12 - Chapter 12.314 (49 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 12.314

एतच्छ्रुत्वा तु वचनं कृतात्मा कृतनिश्चयः आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना
Bhishma said Having heard these words of king Janaka, Shuka of purified soul and settled conclusions began to stay in his Soul by his Soul, having of course seen Self by Self.
View Padaccheda
एतद् + श्रु | तु | वचनं | कृतात्मा | कृ + निश्चय
आत्मन् | आस्थाय | दृष्ट्वा | च + आत्मन् | आत्मना
कृतकार्यः सुखी शान्तस्तूष्णीं प्रायादुदङ्मुखः शैशिरं गिरिमुद्दिश्य सधर्मा मातरिश्वनः
His object being fulfilled he became happy and tranquil, and without further questioning Janaka, he proceeded northwards to the mountains of Himavat with the speed of the wind and like the wind.
View Padaccheda
कृ + कार्य | सुखी | शम् + तूष्णीम् | प्रायाद् | उदङ्मुखः
शैशिरं | गिरिम् | उद्दिश्य | सधर्मा | मातरिश्वनः
एतस्मिन्नेव काले तु देवर्षिर्नारदस्तदा हिमवन्तमियाद्द्रष्टुं सिद्धचारणसेवितम्
View Padaccheda
एतस्मिन्न् | एव | काले | तु | देवर्षिर् | नारद + तदा
हिमवन्तम् | इयाद् | द्रष्टुं | सिद्ध + चारण + सेव्
तमप्सरोगणाकीर्णं गीतस्वननिनादितम् किंनराणां समूहैश्च भृङ्गराजैस्तथैव
View Padaccheda
तम् | अप्सरस् + गण + आकृ | गीत + स्वन + निनादय्
किंनराणां | समूह + च | भृङ्गराज + तथा + एव | च
मद्गुभिः खञ्जरीटैश्च विचित्रैर्जीवजीवकैः चित्रवर्णैर्मयूरैश्च केकाशतविराजितैः राजहंससमूहैश्च हृष्टैः परभृतैस्तथा
View Padaccheda
मद्गुभिः | खञ्जरीट + च | विचित्रैर् | जीवजीवकैः
चित्र + वर्ण | मयूर + च | केका + शत + विराज्
राजहंस + समूह + च | हृष्टैः | परभृत + तथा
पक्षिराजो गरुत्मांश्च यं नित्यमधिगच्छति चत्वारो लोकपालाश्च देवाः सर्षिगणास्तथा यत्र नित्यं समायान्ति लोकस्य हितकाम्यया
The four Regents of the world, the gods, and various classes of Rishis, used always to come there from desire of doing good to the world.
View Padaccheda
पक्षिराजो | गरुत्मन्त् + च | यं | नित्यम् | अधिगच्छति
चत्वारो | लोकपाल + च | देवाः | स + ऋषि + गण + तथा
यत्र | नित्यं | समायान्ति | लोकस्य | हित + काम्या
विष्णुना यत्र पुत्रार्थे तपस्तप्तं महात्मना यत्रैव कुमारेण बाल्ये क्षिप्ता दिवौकसः
It was there that the great Vishnu had practised the severest penances for the object of getting a son.
View Padaccheda
विष्णुना | यत्र | पुत्र + अर्थ | तपस् + तप् | महात्मना
यत्र + एव | च | कुमारेण | बाल्ये | क्षिप्ता | दिवौकसः
शक्तिर्न्यस्ता क्षितितले त्रैलोक्यमवमन्य वै यत्रोवाच जगत्स्कन्दः क्षिपन्वाक्यमिदं तदा
View Padaccheda
शक्तिर् | न्यस्ता | क्षिति + तल | त्रैलोक्यम् | अवमन्य | वै
यत्र + वच् | जगन्त् + स्कन्द | क्षिपन् | वाक्यम् | इदं | तदा
योऽन्योऽस्ति मत्तोऽभ्यधिको विप्रा यस्याधिकं प्रियाः यो ब्रह्मण्यो द्वितीयोऽस्ति त्रिषु लोकेषु वीर्यवान्
View Padaccheda
यो | ऽन्यो | ऽस्ति | मत्तो | ऽभ्यधिको | विप्रा | यद् + अधिक | प्रियाः
यो | ब्रह्मण्यो | द्वितीयो | ऽस्ति | त्रिषु | लोकेषु | वीर्यवान्
सोऽभ्युद्धरत्विमां शक्तिमथ वा कम्पयत्विति तच्छ्रुत्वा व्यथिता लोकाः इमामुद्धरेदिति
View Padaccheda
सो | अभ्युद्धृ + इदम् | शक्तिम् | अथ | वा | कम्पय् + इति
तद् + श्रु | व्यथिता | लोकाः | क | इमाम् | उद्धरेद् | इति
अथ देवगणं सर्वं संभ्रान्तेन्द्रियमानसम् अपश्यद्भगवान्विष्णुः क्षिप्तं सासुरराक्षसम् किं न्वत्र सुकृतं कार्यं भवेदिति विचिन्तयन्
Vishnu saw all the gods and Asuras and Rakshasas to be greatly troubled in mind. He thought of what should be done under the circumstances. Without being able to bear that challenge regarding the hurling of the dart, he directed his eyes towards Skanda, the son of the Fire-god.
View Padaccheda
अथ | देव + गण | सर्वं | सम्भ्रम् + इन्द्रिय + मानस
अपश्यद् | भगवान् | विष्णुः | क्षिप्तं | स + असुर + राक्षस
किं | नु + अत्र | सुकृतं | कार्यं | भवेद् | इति | विचिन्तयन्
नामृष्यत तं क्षेपमवैक्षत पावकिम् प्रहस्य विशुद्धात्मा शक्तिं प्रज्वलितां तदा कम्पयामास सव्येन पाणिना पुरुषोत्तमः
The pure Vishnu caught hold of the burning dart with his left hand, and began to shake it.
View Padaccheda
स | न + मृष् | तं | क्षेपम् | अवैक्षत | च | पावकिम्
स | प्रहस्य | विशुध् + आत्मन् | शक्तिं | प्रज्वलितां | तदा
कम्पयामास | सव्येन | पाणिना | पुरुषोत्तमः
शक्त्यां तु कम्पमानायां विष्णुना बलिना तदा मेदिनी कम्पिता सर्वा सशैलवनकानना
When the dart was being thus shaken by the highly powerful Vishnu, the whole Earth with her mountains, forests, and seas, shook with the dart.
View Padaccheda
शक्त्यां | तु | कम्पमानायां | विष्णुना | बलिना | तदा
मेदिनी | कम्पिता | सर्वा | स + शैल + वन + कानन
शक्तेनापि समुद्धर्तुं कम्पिता सा तूद्धृता रक्षता स्कन्दराजस्य धर्षणां प्रभविष्णुना
Although Vishnu was fully capable to raise the dart, still he contented himself with only shaking it. In this, the powerful lord only kept the honour of Skanda intact.
View Padaccheda
शक्त + अपि | समुद्धर्तुं | कम्पिता | सा | न | तु + उद्धृ
रक्षता | स्कन्द + राज | धर्षणां | प्रभविष्णुना
तां कम्पयित्वा भगवान्प्रह्रादमिदमब्रवीत् पश्य वीर्यं कुमारस्य नैतदन्यः करिष्यति
Having shaken it himself, the divine Vishnu, addressing Prahlada, said,-see the might of Kumara! None else in the universe can raise this dart.
View Padaccheda
तां | कम्पयित्वा | भगवान् | प्रह्रादम् | इदम् | अब्रवीत्
पश्य | वीर्यं | कुमारस्य | न + एतद् | अन्यः | करिष्यति
सोऽमृष्यमाणस्तद्वाक्यं समुद्धरणनिश्चितः जग्राह तां तस्य शक्तिं चैनामप्यकम्पयत्
Unable to bear this, Prahlada determined to raise the dart. He caught it, but was unable to shake it at all.
View Padaccheda
सो | अमृष्यमाण + तद् | वाक्यं | समुद्धरण + निश्चि
जग्राह | तां | तस्य | शक्तिं | न | च + एनद् | अपि + कम्पय्
नादं महान्तं मुक्त्वा मूर्छितो गिरिमूर्धनि विह्वलः प्रापतद्भूमौ हिरण्यकशिपोः सुतः
Uttering a loud cry, he dropped down on the hill-top in a swoon. Indeed, the son of Hiranyakashipu dropped down on the Earth.
View Padaccheda
नादं | महान्तं | मुक्त्वा | स | मूर्छितो | गिरि + मूर्धन्
विह्वलः | प्रापतद् | भूमौ | हिरण्यकशिपोः | सुतः
यत्रोत्तरां दिशं गत्वा शैलराजस्य पार्श्वतः तपोऽतप्यत दुर्धर्षस्तात नित्यं वृषध्वजः
Going towards the northern side of those grand mountains, Mahadeva, having the bull for his emblem, had practised the austerest penances.
View Padaccheda
यत्र + उत्तर | दिशं | गत्वा | शैलराजस्य | पार्श्वतः
तपो | ऽतप्यत | दुर्धर्ष + तात | नित्यं | वृषध्वजः
पावकेन परिक्षिप्तो दीप्यता तस्य चाश्रमः आदित्यबन्धनं नाम दुर्धर्षमकृतात्मभिः
The asylum where Mahadeva had practised those austerities is encompassed on all sides with a burning fire. Unapproachable by person of impure souls, that mountain is known by the name of Aditya.
View Padaccheda
पावकेन | परिक्षिप्तो | दीप्यता | तस्य | च + आश्रम
आदित्य + बन्धन | नाम | दुर्धर्षम् | अकृतात्मभिः
तत्र शक्यते गन्तुं यक्षराक्षसदानवैः दशयोजनविस्तारमग्निज्वालासमावृतम्
There is a fiery girdle all around it, of ten Yojanas in width and it is incapable of being approached by Yakshas and Rakshasas and Danavas.
View Padaccheda
न | तत्र | शक्यते | गन्तुं | यक्ष + राक्षस + दानव
दशन् + योजन + विस्तार | अग्नि + ज्वाला + समावृ
भगवान्पावकस्तत्र स्वयं तिष्ठति वीर्यवान् सर्वविघ्नान्प्रशमयन्महादेवस्य धीमतः
The illustrious God of Fire, endued with mighty energy, lives there in embodied form engaged in removing all obstacles from the side of Mahadeva of great wisdom who remained there for thousand celestial years, standing on one foot.
View Padaccheda
भगवान् | पावक + तत्र | स्वयं | तिष्ठति | वीर्यवान्
सर्व + विघ्न | प्रशमय् + महादेव | धीमतः
दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः देवान्संतापयंस्तत्र महादेवो धृतव्रतः
View Padaccheda
दिव्यं | वर्ष + सहस्र | हि | पाद + एक | तिष्ठतः
देवान् | संतापय् + तत्र | महादेवो | धृ + व्रत
ऐन्द्रीं तु दिशमास्थाय शैलराजस्य धीमतः विविक्ते पर्वततटे पाराशर्यो महातपाः वेदानध्यापयामास व्यासः शिष्यान्महातपाः
At the foot of those mountains, in a retired spot, Parashara's son of great ascetic merit, viz., Vyasa, taught the Vedas to his disciples.
View Padaccheda
ऐन्द्रीं | तु | दिशम् | आस्थाय | शैलराजस्य | धीमतः
विविक्ते | पर्वत + तट | पाराशर्यो | महत् + तपस्
वेदान् | अध्यापयामास | व्यासः | शिष्य + महत् + तपस्
सुमन्तुं महाभागं वैशंपायनमेव जैमिनिं महाप्राज्ञं पैलं चापि तपस्विनम्
Those disciples were the highly blessed Sumanta, Vaishampayana, Jaimini of great wisdom, and Paila of great ascetic merit.
View Padaccheda
सुमन्तुं | च | महाभागं | वैशंपायनम् | एव | च
जैमिनिं | च | महत् + प्राज्ञ | पैलं | च + अपि | तपस्विनम्
एभिः शिष्यैः परिवृतो व्यास आस्ते महातपाः तत्राश्रमपदं पुण्यं ददर्श पितुरुत्तमम् आरणेयो विशुद्धात्मा नभसीव दिवाकरः
Shuka went to that charming asylum where his father, the great ascetic Vyasa, was living surrounded by his disciples.
View Padaccheda
एभिः | शिष्यैः | परिवृतो | व्यास | आस्ते | महत् + तपस्
तत्र + आश्रम + पद | पुण्यं | ददर्श | पितुर् | उत्तमम्
आरणेयो | विशुध् + आत्मन् | नभस् + इव | दिवाकरः
अथ व्यासः परिक्षिप्तं ज्वलन्तमिव पावकम् ददर्श सुतमायान्तं दिवाकरसमप्रभम्
Seated in his asylum, Vyasa saw his son approach like a burning fire of scattered flames, or resembling the Sun himself in effulgence.
View Padaccheda
अथ | व्यासः | परिक्षिप्तं | ज्वलन्तम् | इव | पावकम्
ददर्श | सुतम् | आयान्तं | दिवाकर + सम + प्रभा
असज्जमानं वृक्षेषु शैलेषु विषमेषु योगयुक्तं महात्मानं यथा बाणं गुणच्युतम्
As Shuka approached, he did not seem to touch the trees or the rocks of the mountain. Perfectly dissociated from all objects of the senses, and engaged in Yoga, the great ascetic came, resembling in speed an arrow shot off a bow.
View Padaccheda
असज्जमानं | वृक्षेषु | शैलेषु | विषमेषु | च
योग + युज् | महात्मानं | यथा | बाणं | गुण + च्यु
सोऽभिगम्य पितुः पादावगृह्णादरणीसुतः यथोपजोषं तैश्चापि समागच्छन्महामुनिः
Born on the fire-sticks, Shuka approaching his father, touched his feet. With due formalities he then accosted the disciples of his father.
View Padaccheda
सो | ऽभिगम्य | पितुः | पाद + ग्रह् | अरणी + सुत
यथोपजोषं | तद् + च + अपि | समागम् + महत् + मुनि
ततो निवेदयामास पित्रे सर्वमशेषतः शुको जनकराजेन संवादं प्रीतमानसः
With great cheerfulness he then described in full to his father all the particulars of his conversation with king Janaka.
View Padaccheda
ततो | निवेदयामास | पित्रे | सर्वम् | अशेषतः
शुको | जनक + राज | संवादं | प्री + मानस
एवमध्यापयञ्शिष्यान्व्यासः पुत्रं वीर्यवान् उवास हिमवत्पृष्ठे पाराशर्यो महामुनिः
After the arrival of his powerful son, Vyasa, the son of Parashara, continued to live there on the Himavat, engaged in teaching his disciples, and his son.
View Padaccheda
एवम् | अध्यापयञ् | शिष्यान् | व्यासः | पुत्रं | च | वीर्यवान्
उवास | हिमवन्त् + पृष्ठ | पाराशर्यो | महत् + मुनि
ततः कदाचिच्छिष्यास्तं परिवार्यावतस्थिरे वेदाध्ययनसंपन्नाः शान्तात्मानो जितेन्द्रियाः
One day as he was seated his disciples, all well-read in the Vedas, having their senses under control, and gifted with tranquil souls, sat themselves around him.
View Padaccheda
ततः | कदाचिद् + शिष्य + तद् | परिवारय् + अवस्था
वेद + अध्ययन + सम्पद् | शम् + आत्मन् | जि + इन्द्रिय
वेदेषु निष्ठां संप्राप्य साङ्गेष्वतितपस्विनः अथोचुस्ते तदा व्यासं शिष्याः प्राञ्जलयो गुरुम्
All of them had perfectly mastered the Vedas with their branches. All of them were observant of penances. With joined hands they addressed their preceptor in the following words.
View Padaccheda
वेदेषु | निष्ठां | सम्प्राप्य | स + अङ्ग + अति + तपस्विन्
अथ + वच् + तद् | तदा | व्यासं | शिष्याः | प्राञ्जलयो | गुरुम्
महता श्रेयसा युक्ता यशसा स्म वर्धिताः एकं त्विदानीमिच्छामो गुरुणानुग्रहं कृतम्
We have, through your favour, been ended with great energy. Our fame, also has spread. There is one favour that we pray you to grant us.
View Padaccheda
महता | श्रेयसा | युक्ता | यशसा | च | स्म | वर्धिताः
एकं | तु + इदानीम् | इच्छामो | गुरु + अनुग्रह | कृतम्
इति तेषां वचः श्रुत्वा ब्रह्मर्षिस्तानुवाच उच्यतामिति तद्वत्सा यद्वः कार्यं प्रियं मया
Hearing these words of theirs, the twiceborm Rishi answered them, saying,-You sons, tell me what that boon is which you want me to grant you.
View Padaccheda
इति | तेषां | वचः | श्रुत्वा | ब्रह्मर्षि + तद् | उवाच | ह
उच्यताम् | इति | तद् | वत्सा | यद् | वः | कार्यं | प्रियं | मया
एतद्वाक्यं गुरोः श्रुत्वा शिष्यास्ते हृष्टमानसाः पुनः प्राञ्जलयो भूत्वा प्रणम्य शिरसा गुरुम्
Hearing this answer of their preceptor, the disciples became filled with joy. Bending their heads once more low to their preceptor, and joining their hands, all of them simultaneously, said, O king, these excellent words: If our preceptor has been gratified with us, then, O best of sages, we are sure to be successful.
View Padaccheda
एतद् | वाक्यं | गुरोः | श्रुत्वा | शिष्य + तद् | हृष् + मानस
पुनः | प्राञ्जलयो | भूत्वा | प्रणम्य | शिरसा | गुरुम्
ऊचुस्ते सहिता राजन्निदं वचनमुत्तमम् यदि प्रीत उपाध्यायो धन्याः स्मो मुनिसत्तम
Hearing this answer of their preceptor, the disciples became filled with joy. Bending their heads once more low to their preceptor, and joining their hands, all of them simultaneously, said, O king, these excellent words: If our preceptor has been gratified with us, then, O best of sages, we are sure to be successful.
View Padaccheda
वच् + तद् | सहिता | राजन्न् | इदं | वचनम् | उत्तमम्
यदि | प्रीत | उपाध्यायो | धन्याः | स्मो | मुनि + सत्तम
काङ्क्षामस्तु वयं सर्वे वरं दत्तं महर्षिणा षष्ठः शिष्यो ते ख्यातिं गच्छेदत्र प्रसीद नः
We all solicit you, O great Rishi, to grant us a boon. Do you show us favour. Let no sixth disciple succeed in acquiring fame.
View Padaccheda
काङ्क्ष् + तु | वयं | सर्वे | वरं | दत्तं | महत् + ऋषि
षष्ठः | शिष्यो | न | ते | ख्यातिं | गच्छेद् | अत्र | प्रसीद | नः
चत्वारस्ते वयं शिष्या गुरुपुत्रश्च पञ्चमः इह वेदाः प्रतिष्ठेरन्नेष नः काङ्क्षितो वरः
We are four. Our preceptor's son forms the fifth. Let the Vedas shine in only us five! This is the boon that we pray for.
View Padaccheda
चतुर् + तद् | वयं | शिष्या | गुरु + पुत्र + च | पञ्चमः
इह | वेदाः | प्रतिष्ठेरन्न् | एष | नः | काङ्क्षितो | वरः
शिष्याणां वचनं श्रुत्वा व्यासो वेदार्थतत्त्ववित् पराशरात्मजो धीमान्परलोकार्थचिन्तकः उवाच शिष्यान्धर्मात्मा धर्म्यं नैःश्रेयसं वचः
Hearing these words of his disciples, Vyasa, the son of Parashara, endued with great intelligence, well conversant with the meanings of the Vedas, endued with a pious soul, and always engaged in thinking of objects that grant benefits on a person in the next world, said to his disciples these righteous words, fraught with great benefit:-The Vedas should always be given to him, who is a Brahmana, or to him who is desirous of listening to Vedic instructions, by him who eagerly wishes to acquire a residence in the region of Brahman.
View Padaccheda
शिष्याणां | वचनं | श्रुत्वा | व्यासो | वेद + अर्थ + तत्त्व + विद्
पराशर + आत्मज | धीमान् | पर + लोक + अर्थ + चिन्तक
उवाच | शिष्यान् | धर्म + आत्मन् | धर्म्यं | नैःश्रेयसं | वचः
ब्राह्मणाय सदा देयं ब्रह्म शुश्रूषवे भवेत् ब्रह्मलोके निवासं यो ध्रुवं समभिकाङ्क्षति
View Padaccheda
ब्राह्मणाय | सदा | देयं | ब्रह्म | शुश्रूषवे | भवेत्
ब्रह्मन् + लोक | निवासं | यो | ध्रुवं | समभिकाङ्क्षति
भवन्तो बहुलाः सन्तु वेदो विस्तार्यतामयम् नाशिष्ये संप्रदातव्यो नाव्रते नाकृतात्मनि
View Padaccheda
भवन्तो | बहुलाः | सन्तु | वेदो | विस्तार्यताम् | अयम्
न + अशिष्य | सम्प्रदातव्यो | न + अव्रत | न + अकृतात्मन्
एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः नापरीक्षितचारित्रे विद्या देया कथंचन
View Padaccheda
एते | शिष्य + गुण | सर्वे | विज्ञातव्या | यथार्थतः
न + अपरीक्षित + चारित्र | विद्या | देया | कथंचन
यथा हि कनकं शुद्धं तापच्छेदनिघर्षणैः परीक्षेत तथा शिष्यानीक्षेत्कुलगुणादिभिः
View Padaccheda
यथा | हि | कनकं | शुद्धं | ताप + छेद + निघर्षण
परीक्षेत | तथा | शिष्यान् | ईक्षेत् | कुल + गुण + आदि
नियोज्याश्च वः शिष्या अनियोगे महाभये यथामति यथापाठं तथा विद्या फलिष्यति
View Padaccheda
न | नियुज् + च | वः | शिष्या | अनियोगे | महत् + भय
यथामति | यथापाठं | तथा | विद्या | फलिष्यति
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः
Let all disciples master all difficulties, and let all of them be crowned with success. You are competent to expound the scriptures to persons of all the castes. Only ye should, while delivering instructions address a Brahmana, first of all.
View Padaccheda
सर्व + तृ | दुर्गाणि | सर्वो | भद्राणि | पश्यतु
श्रावय् + चतुर् | वर्णान् | कृत्वा | ब्राह्मणम् | अग्रतः
वेदस्याध्ययनं हीदं तच्च कार्यं महत्स्मृतम् स्तुत्यर्थमिह देवानां वेदाः सृष्टाः स्वयंभुवा
These are the rules about the study of the Vedas. This again is considered as a high task. The Vedas were created by the Self-create for the purpose of praising the gods therewith.
View Padaccheda
वेद + अध्ययन | हि + इदम् | तद् + च | कार्यं | महत् | स्मृतम्
स्तुति + अर्थ | इह | देवानां | वेदाः | सृष्टाः | स्वयंभुवा
यो निर्वदेत संमोहाद्ब्राह्मणं वेदपारगम् सोऽपध्यानाद्ब्राह्मणस्य पराभूयादसंशयम्
That man who, through stupefaction of intellect, speaks ill of a Brahmana well-read in the Vedas, is certain to meet with humiliation on account of such evil-speaking.
View Padaccheda
यो | निर्वदेत | संमोहाद् | ब्राह्मणं | वेदपारगम्
सो | ऽपध्यानाद् | ब्राह्मणस्य | पराभूयाद् | असंशयम्
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति
He who, disregarding all rules of virtue, seeks knowledge, and he who, disregarding the rules of virtue, communicates knowledge, both of them fall off and instead of that love which should exist instead of that love which should exist between preceptor and disciple, such questioning and such communication are sure to create distrust and suspicion.
View Padaccheda
यद् + च + अधर्म | विब्रूयाद् | यद् + च + अधर्म | पृच्छति
तयोर् | अन्यतरः | प्रैति | विद्वेषं | वा + अधिगम्
एतद्वः सर्वमाख्यातं स्वाध्यायस्य विधिं प्रति उपकुर्याच्च शिष्याणामेतच्च हृदि वो भवेत्
I have now told you everything about the way in which the Vedas should be studied and taught. You should treat your disciples thus, remembering these instructions.”
View Padaccheda
एतद् | वः | सर्वम् | आख्यातं | स्वाध्यायस्य | विधिं | प्रति
उपकृ + च | शिष्याणाम् | एतद् + च | हृदि | वो | भवेत्