Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 1 - Chapter 1.90 (96 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 1.90

श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान् उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः
View Padaccheda
श्रु + त्वद् | मया | विप्र | पूर्वेषां | संभवो | महान्
उदार + च + अपि | वंशे | ऽस्मिन् | राजानो | मे | परिश्रुताः
किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं मामति प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे
View Padaccheda
किं | तु | लघु + अर्थ + संयुज् | प्रिय + आख्यान | न | माम् | अति
प्री + अतस् | भवान् | भूयो | विस्तरेण | ब्रवीतु | मे
एतामेव कथां दिव्यामा प्रजापतितो मनोः तेषामाजननं पुण्यं कस्य प्रीतिमावहेत्
View Padaccheda
एताम् | एव | कथां | दिव्याम् | प्रजापतितो | मनोः
तेषाम् | आजननं | पुण्यं | कस्य | न | प्रीतिम् | आवहेत्
सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्
View Padaccheda
सत् + धर्म + गुण + माहात्म्य | अभिवर्धितम् | उत्तमम्
विष्टभ्य | लोक + त्रि | एषां | यशः | स्फीतम् | अवस्थितम्
गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम्
View Padaccheda
गुण + प्रभाव + वीर्य + ओजस् + सत्त्व + उत्साहवत् | अहम्
न | तृप्यामि | कथां | शृण्वन्न् | अमृत + आस्वाद + संमा
शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्
View Padaccheda
शृणु | राजन् | पुरा | सम्यङ् | मया | द्वैपायन + श्रु
प्रोच्यमानम् | इदं | कृत्स्नं | स्व + वंश + जनन | शुभम्
दक्षस्यादितिः अदितेर्विवस्वान् विवस्वतो मनुः मनोरिला इलायाः पुरूरवाः पुरूरवस आयुः आयुषो नहुषः नहुषस्य ययातिः
View Padaccheda
दक्ष + अदिति
अदितेर् | विवस्वान्
विवस्वतो | मनुः
मनोर् | इला
इलायाः | पुरूरवाः
पुरूरवस | आयुः
आयुषो | नहुषः
नहुषस्य | ययातिः
ययातेर्द्वे भार्ये बभूवतुः उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम अत्रानुवंशो भवति
View Padaccheda
ययातेर् | द्वे | भार्ये | बभूवतुः
उशनसो | दुहिता | देवयानी | वृषपर्वन् + च | दुहिता | शर्मिष्ठा | नाम
अत्र + अनुवंश | भवति
यदुं तुर्वसुं चैव देवयानी व्यजायत द्रुह्युं चानुं पूरुं शर्मिष्ठा वार्षपर्वणी
View Padaccheda
यदुं | पूरुं | तुर्वसुं | च | द्रुह्युं | च + अनु | च | भारत
द्रुह्यु + च + अनु | पूरु + च | शर्मिष्ठायां | प्रजज्ञिरे
तत्र यदोर्यादवाः पूरोः पौरवाः
View Padaccheda
तत्र | यदोर् | यादवाः
पूरोः | पौरवाः
पूरोर्भार्या कौसल्या नाम तस्यामस्य जज्ञे जनमेजयो नाम यस्त्रीनश्वमेधानाजहार विश्वजिता चेष्ट्वा वनं प्रविवेश
View Padaccheda
पूरोर् | भार्या | कौसल्या | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
यद् + त्रि | अश्वमेधान् | आजहार
विश्वजिता | च + यज् | वनं | प्रविवेश
जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् तस्यामस्य जज्ञे प्राचिन्वान् यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् ततस्तस्य प्राचिन्वत्वम्
View Padaccheda
जनमेजयः | खलु + अनन्ता | नाम + उपयम् | माधवीम्
तस्याम् | अस्य | जज्ञे | प्राचिन्वान्
यः | प्राचीं | दिशं | जिगाय | यावत् | सूर्य + उदय
ततस् + तद्
प्राचिन्वान्खल्वश्मकीमुपयेमे तस्यामस्य जज्ञे संयातिः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
प्राचिन्वान् | खलु + अश्मकी | उपयेमे
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञे अहंपातिः
Samvarana married Tapati, the daughter of Vivasvata and she gave birth to a son, named Kuru.
View Padaccheda
संयातिः | खलु | दृषद्वतो | दुहितरं | वराङ्गीं | नाम + उपयम्
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम तस्यामस्य जज्ञे सार्वभौमः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
अहंपाति + तु | खलु | कृतवीर्य + दुहितृ | उपयेमे | भानुमतीं | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम तस्यामस्य जज्ञे जयत्सेनः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
सार्वभौमः | खलु | जि + आहृ | कैकेयीं | सुनन्दां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम तस्यामस्य जज्ञे अराचीनः
Vikunthana married Sudeva, the princess of Dasarha and she gave birth to a son, named Ajamidha.
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम तस्यामस्य जज्ञे महाभौमः
Vidura married Sungpriya, the daughter of Madhava and she gave birth to a son, named Anashva.
View Padaccheda
अराचीनो | ऽपि | वैदर्भीम् | एव + अपर | उपयेमे | मर्यादां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम तस्यामस्य जज्ञे अयुतनायी यः पुरुषमेधानामयुतमानयत् तदस्यायुतनायित्वम्
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
View Padaccheda
महाभौमः | खलु | प्रासेनजितीम् | उपयेमे | सुयज्ञां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
यः | पुरुष + मेध | अयुतम् | आनयत्
तद् | इदम् + अयुत + नायिन् + त्व
अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम तस्यामस्य जज्ञे अक्रोधनः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
अयुतनायी | खलु | पृथुश्रवसो | दुहितरम् | उपयेमे | भासां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे तस्यामस्य जज्ञे देवातिथिः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
अक्रोधनः | खलु | कालिङ्गीं | करण्डुं | नाम + उपयम्
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः
Parikshit married Suyasha, the daughter of Vahuda and she gave birth to a son, named Bhimasena.
View Padaccheda
देवातिथिः | खलु | वैदेहीम् | उपयेमे | मर्यादां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम तस्यां पुत्रमजनयदृक्षम्
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
View Padaccheda
ऋचः | खलु + आङ्गेयी | उपयेमे | सुदेवां | नाम
तस्यां | पुत्रम् | अजनयद् | ऋक्षम्
ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम तस्यां पुत्रं मतिनारं नामोत्पादयामास
Bhimasena married Kumari, the princess of Kekaya and she gave birth to a son, named Pratishrava.
View Padaccheda
ऋक्षः | खलु | तक्षक + दुहितृ | उपयेमे | ज्वालां | नाम
तस्यां | पुत्रं | मतिनारं | नाम + उत्पादय्
मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार
View Padaccheda
मतिनारः | खलु | सरस्वत्यां | द्वादशन् + वार्षिक | सत्रम् | आजहार
निवृत्ते सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास तस्यां पुत्रमजनयत्तंसुं नाम
View Padaccheda
निवृत्ते | च | सत्रे | सरस्वती + अभिगम् | तं | भर्तारं | वरयामास
तस्यां | पुत्रम् | अजनयद् | ऋक्षम्
अत्रानुवंशो भवति
View Padaccheda
अत्र + अनुवंश | भवति
तंसुं सरस्वती पुत्रं मतिनारादजीजनत् इलिनं जनयामास कालिन्द्यां तंसुरात्मजम्
View Padaccheda
तंसुं | सरस्वती | पुत्रं | मतिनाराद् | अजीजनत्
इलिनं | जनयामास | कालिन्द्यां | तंसुर् | आत्मजम्
इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत्
View Padaccheda
इलिन् + तु | रथंतर्यां | दुःषन्त + आद्य | पञ्च | पुत्रान् | अजनयत्
दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे तस्यामस्य जज्ञे भरतः तत्र श्लोकौ भवतः
View Padaccheda
संयातिः | खलु | दृषद्वतो | दुहितरं | वराङ्गीं | नाम + उपयम्
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
तत्र | श्लोकौ | भवतः
माता भस्त्रा पितुः पुत्रो येन जातः एव सः भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
View Padaccheda
भस्त्रा | माता | पितुः | पुत्रो | येन | जातः | स | एव | सः
भरस्व | पुत्रं | दुःषन्त | मा + अवमन् | शकुन्तलाम्
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
View Padaccheda
रेतोधाः | पुत्र | उन्नयति | नरदेव | यम + क्षय
त्वं | च + इदम् | धाता | गर्भस्य | सत्यम् | आह | शकुन्तला
ततोऽस्य भरतत्वम्
View Padaccheda
ततस् + तद्
भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम तस्यामस्य जज्ञे भुमन्युः
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम तस्यामस्य जज्ञे सुहोत्रः
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम तस्यामस्य जज्ञे हस्ती इदं हास्तिनपुरं मापयामास एतदस्य हास्तिनपुरत्वम्
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
तद् | इदम् + अयुत + नायिन् + त्व
हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम तस्यामस्य जज्ञे विकुण्ठनः
View Padaccheda
तस्याम् | अस्य | जज्ञे | प्राचिन्वान्
विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम तस्यामस्य जज्ञेऽजमीढः
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति पृथक्पृथग्वंशकरा नृपतयः तत्र वंशकरः संवरणः
View Padaccheda
संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे तस्यामस्य जज्ञे कुरुः
View Padaccheda
संयातिः | खलु | दृषद्वतो | दुहितरं | वराङ्गीं | नाम + उपयम्
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम तस्यामस्य जज्ञे विडूरथः
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
तस्याम् | अस्य | जज्ञे | प्राचिन्वान्
विडूरथस्तु मागधीमुपयेमे संप्रियां नाम तस्यामस्य जज्ञेऽरुग्वान्नाम
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम तस्यामस्य जज्ञे परिक्षित्
View Padaccheda
तस्याम् | अस्य | जज्ञे | प्राचिन्वान्
परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम तस्यामस्य जज्ञे भीमसेनः
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम तस्यामस्य जज्ञे पर्यश्रवाः यमाहुः प्रतीपं नाम
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति
View Padaccheda
जयत्सेनः | खलु | वैदर्भीम् | उपयेमे | सुषुवां | नाम
देवापिः खलु बाल एवारण्यं प्रविवेश शंतनुस्तु महीपालोऽभवत् अत्रानुवंशो भवति
View Padaccheda
अत्र + अनुवंश | भवति
यं यं कराभ्यां स्पृशति जीर्णं सुखमश्नुते पुनर्युवा भवति तस्मात्तं शंतनुं विदुः
View Padaccheda
तदस्य शंतनुत्वम्
View Padaccheda
ततस् + तद्
शंतनुः खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः यमाहुर्भीष्म इति
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् यामाहुर्गन्धकालीति
View Padaccheda
तस्यां कानीनो गर्भः पराशराद्द्वैपायनः तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च
View Padaccheda
तद् + अन्ववाय | द्वौ | राजन् | राजानौ | संबभूवतुः
तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्रवीर्यस्तु राजा समभवत्
View Padaccheda
विचित्रवीर्यं | राजानं | जनयामास | वीर्यवान्
विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे
View Padaccheda
विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः
View Padaccheda
विचित्रवीर्य + क्षेत्र | यः | समुत्पादयेत् | प्रजाः
ततः सत्यवती चिन्तयामास दौःषन्तो वंश उच्छिद्यते इति
View Padaccheda
तत्त्वतः | काम + संतप् | चिन्तयामास | भामिनी
सा द्वैपायनमृषिं चिन्तयामास
View Padaccheda
तस्याः पुरतः स्थितः किं करवाणीति
View Padaccheda
सा तमुवाच भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः साध्वपत्यं तस्योत्पादयेति
View Padaccheda
वसुमना | उवाच
साधु + अत्र | रम्यताम् | इति
परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति
View Padaccheda
तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य
View Padaccheda
तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति
View Padaccheda
पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने
View Padaccheda
अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान
View Padaccheda
बाणविद्ध उवाच पाण्डुम् चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति
View Padaccheda
विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये
View Padaccheda
वाक्यं चोवाच स्वचापल्यादिदं प्राप्तवानहम् शृणोमि नानपत्यस्य लोका सन्तीति
View Padaccheda
व्यास | उवाच
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच
View Padaccheda
सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति
View Padaccheda
तां हृष्टरूपः पाण्डुरुवाच इयं ते सपत्न्यनपत्या साध्वस्यामपत्यमुत्पाद्यतामिति
View Padaccheda
साधु + अत्र | रम्यताम् | इति
एवमस्त्वित्युक्तः कुन्त्या
View Padaccheda
ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ
View Padaccheda
माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे
View Padaccheda
संगृह्यमाणां | तां | दृष्ट्वा | पाण्डवैर् | वाहिनीं | रणे
तां स्पृष्ट्वैव विदेहत्वं प्राप्तः
View Padaccheda
तत्रैनं चितास्थं माद्री समन्वारुरोह
View Padaccheda
उवाच कुन्तीम् यमयोरार्ययाप्रमत्तया भवितव्यमिति
View Padaccheda
कुन्ती
ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य निवेदिताः
View Padaccheda
तत्रापि जतुगृहे दग्धुं समारब्धा शकिता विदुरमन्त्रितेन
View Padaccheda
ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः
View Padaccheda
तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः
View Padaccheda
तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः
View Padaccheda
पुत्रांश्चोत्पादयामासुः प्रतिविन्ध्यं युधिष्ठिरः सुतसोमं वृकोदरः श्रुतकीर्तिमर्जुनः शतानीकं नकुलः श्रुतकर्माणं सहदेव इति
View Padaccheda
तस्यां | पुत्रं | मतिनारं | नाम + उत्पादय्
तत् | सर्वं | प्रतिजग्राह | धर्मराजो | युधिष्ठिरः
युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे तस्यां पुत्रं जनयामास यौधेयं नाम
View Padaccheda
तस्यां | पुत्रं | मतिनारं | नाम + उत्पादय्
भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् तस्यां पुत्रं सर्वगं नामोत्पादयामास
View Padaccheda
तस्यां | पुत्रं | मतिनारं | नाम + उत्पादय्
अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् तस्यां पुत्रमभिमन्युं नाम जनयामास
View Padaccheda
तस्यां | पुत्रम् | अजनयद् | ऋक्षम्
नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् तस्यां पुत्रं निरमित्रं नामाजनयत्
View Padaccheda
तस्यां | पुत्रं | मतिनारं | नाम + उत्पादय्
सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे तस्यां पुत्रमजनयत्सुहोत्रं नाम
View Padaccheda
तस्यां | पुत्रम् | अजनयद् | ऋक्षम्
भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास
View Padaccheda
इत्येते एकादश पाण्डवानां पुत्राः
View Padaccheda
इति | सेनापतेः | श्रुत्वा | पाण्डवानां | महत् + रथ
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे तस्यामस्य परासुर्गर्भोऽजायत
View Padaccheda
तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति
View Padaccheda
संजीवयित्वा चैनमुवाच परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति
View Padaccheda
परिक्षित्तु खलु माद्रवतीं नामोपयेमे तस्यामस्य जनमेजयः
View Padaccheda
तस्याम् | अस्य | जज्ञे | जनमेजयो | नाम
जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च
View Padaccheda
शतानीकस्तु खलु वैदेहीमुपयेमे तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः
View Padaccheda
तस्याम् | अस्य | जज्ञे | प्राचिन्वान्
इत्येष पूरोर्वंशस्तु पाण्डवानां कीर्तितः पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते
View Padaccheda
इति + एतद् | वंशः | सु + महत् | अग्नीनां | कीर्तितो | मया
य | एवं | सततं | ब्रूयात् | सो | ऽपि | पापैः | प्रमुच्यते