Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 1 - Chapter 1.56 (33 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 1.56

कथितं वै समासेन त्वया सर्वं द्विजोत्तम महाभारतमाख्यानं कुरूणां चरितं महत्
Janamejaya said : O best of Brahmanas, you have told me in brief the history called Mahabharata, containing the great deeds of the Kurus.
View Padaccheda
कथितं | वै | समासेन | त्वया | सर्वं | द्विजोत्तम
महाभारतम् | आख्यानं | पाण्डवानां | यशस्करम्
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि विस्तरश्रवणे जातं कौतूहलमतीव मे
O great ascetic, recite now fully this wonderful history. I feel a great curiosity to hear it.
View Padaccheda
कथां | तु + अनघ | चित्र + अर्थ | इमां | कथयति | त्वयि
विस्तर + श्रवण | जातं | कौतूहलम् | अतीव | मे
भवान्विस्तरेणेमां पुनराख्यातुमर्हति हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
You should, therefore, recite it in full. I am not satisfied with hearing in the abstract this great history of my ancestors.
View Padaccheda
स | भवान् | विस्तर + इदम् | पुनर् | आख्यातुम् | अर्हति
न | हि | तृप्यामि | पूर्वेषां | श्रु + चरित | महत्
तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते मानवैः
It could not be a trifling cause for which the virtuous Pandavas killed those whom they should not have killed and for which they are still praised by men.
View Padaccheda
न | तत् | कारणम् | अल्पं | हि | धर्म + ज्ञ | यत्र | पाण्डवाः
अवध्यान् | सर्वशो | जघ्नुः | प्रशस्यन्ते | च | मानवैः
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्
Why did those best of men, (the Pandavas), capable of avenging themselves on enemies, though innocent, quietly suffered the persecutions of the wicked Kurus?
View Padaccheda
किमर्थं | ते | नर + व्याघ्र | शक्ताः | सन्तो | हि + अनागस्
प्रयुज्यमानान् | संक्लेशान् | क्षान्तवन्तो | दुरात्मनाम्
कथं नागायुतप्राणो बाहुशाली वृकोदरः परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम
O best of Brahmanas, why did the mighty armed Bhima, having the strength of ten thousand elephants, though persecuted, patiently kept his anger down?
View Padaccheda
कथं | नाग + अयुत + प्राण | बाहु + शालिन् | वृकोदरः
परिक्लिश्यन्न् | अपि | क्रोधं | धृतवान् | वै | द्विजोत्तम
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा
Why did not the chaste Krishnaa, the daughter of Drupada, though persecuted by the wicked (Kurus), burn the sons of Dhritarashtra by her angry eyes, capable as she was to do it?
View Padaccheda
कथं | सा | द्रौपदी | कृष्णा | क्लिश्यमाना | दुरात्मभिः
शक्ता | सती | धार्तराष्ट्रान् | न + दह् | घोर + चक्षुस्
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः
Why did the two sons of Pritha, (Bhima and Arjuna) and the two sons of Madri (Nakula and Sahadeva) those best of men, though persecuted by the wretches, follow Yudhishthira, who was addicted to the evil habit of gambling?
View Padaccheda
कथं | व्यतिक्रमन् | द्यूते | पार्थौ | माद्री + सुत | तथा
अनुव्रजन् | नर + व्याघ्र | वञ्च्यमानं | दुरात्मभिः
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः
Why did Yudhishthira, the best of all virtuous men and the son of Dharma himself, though acquainted with all duties, suffer great afflictions?
View Padaccheda
कथं | धर्म + भृत् | श्रेष्ठः | सुतो | धर्मस्य | धर्म + विद्
अनर्हः | परमं | क्लेशं | सोढवान् | स | युधिष्ठिरः
कथं बहुलाः सेनाः पाण्डवः कृष्णसारथिः अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः
Why did the son of Pandu, Arjuna, Krishna himself being his charioteer and who could by his arrows send to the other world hosts of fighting men, suffer so many persecutions?
View Padaccheda
कथं | च | बहुलाः | सेनाः | पाण्डवः | कृष्णसारथिः
अस्यन्न् | एको | ऽनयत् | सर्वाः | पितृ + लोक | धनंजयः
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः
O great, Rishi, tell me all this as they happened. (Tell me) everything that those highly mighty car-warriors did.
View Padaccheda
एतद् | आचक्ष्व | मे | सर्वं | यथावृत्तं | तपोधन
यद् | यद् + च | कृ + तद् | तत्र | तत्र | महत् + रथ
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
Vaishampayana said : O great king, appoint a time (to hear it). This history is very extensive. This is but the beginning. I shall recite the whole of this history, composed by the illustrious Krishna Dvaipayana, the great Rishi, Vyasa of immeasurable mental power, who is adored by all the world.
View Padaccheda
महत् + ऋषि | सर्व + लोक | विश्रु + इदम् | धीमतः
प्रवक्ष्यामि | मतं | कृत्स्नं | व्यास + अमित + तेजस्
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम् सत्यवत्यात्मजेनेह व्याख्यातममितौजसा
This (Bharata) contains one lac sacred slokas, composed by the son of Satyavati, Vyasa of immeasurable mental power.
View Padaccheda
इदं | शत + सहस्र | हि | श्लोकानां | पुण्य + कर्मन्
सत्यवती + आत्मज + इह | व्याख्यातम् | अमित + ओजस्
इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्
The learned man who reads it to others and those that hear it read, go to the world of Brahma and become equal to the celestials.
View Padaccheda
य | इदं | श्रावयेद् | विद्वान् | यद् + च + इदम् | शृणुयान् | नरः
ते | ब्रह्मणः | स्थानम् | एत्य | प्राप्नुयुर् | देव + तुल्य + ता
इदं हि वेदैः समितं पवित्रमपि चोत्तमम् श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्
This (Bharata) is equal to the Vedas; it is holy and excellent; it is the worthiest of all that should be listened to. It is a Purana, adored by the Rishis.
View Padaccheda
इदं | हि | वेदैः | समितं | पवित्रम् | अपि | च + उत्तम
श्राव्याणाम् | उत्तमं | च + इदम् | पुराणम् | ऋषि + संस्तु
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी
It contains many useful instructions on Artha and Kama. This sacred history makes the heart desire to attain salvation.
View Padaccheda
अस्मिन्न् | अर्थ + च | धर्म + च | निखिलेन + उपदिश्
इतिहासे | महत् + पुण्य | बुद्धि + च | परिनैष्ठिकी
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान् कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते
The learned men earn much wealth by reciting this Veda composed by Krishna (Dvaipayana) to those who are noble, liberal, truthful and believing.
View Padaccheda
अक्षुद्रान् | दान + शील + च | सत्य + शील | अनास्तिकान्
कार्ष्णं | वेदम् | इमं | विद्वाञ् | श्रावय् + अर्थ | अश्नुते
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः
Sins, even of killing embryo, are destroyed by (reading or hearing) it. Even a greatly sinful man, by hearing this history, escapes from all his sins, like the sun from Rahu. This history is called Jaya (victory); it should be heard by those that desire victory.
View Padaccheda
भ्रूणहत्या + कृ | च + अपि | पापं | जह्याद् | असंशयम्
इतिहासम् | इमं | श्रुत्वा | पुरुषो | ऽपि | सु + दारुण
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा महीं विजयते सर्वां शत्रूंश्चापि पराजयेत्
View Padaccheda
जयो | नाम + इतिहास | ऽयं | श्रोतव्यो | विजिगीषुणा
महीं | विजयते | सर्वां | शत्रु + च + अपि | पराजयेत्
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत् महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा
View Padaccheda
इदं | पुंसवनं | श्रेष्ठम् | इदं | स्वस्त्ययनं | महत्
महिषी + युवराज | श्रोतव्यं | बहुशस् + तथा
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम् मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना
It is the Dharma Shastra, it is also the sacred Artha Shastra, it is also the great Moksha Shastra, said Vyasa of immeasurable intelligence.
View Padaccheda
अर्थशास्त्रम् | इदं | पुण्यं | धर्म + शास्त्र | इदं | परम्
मोक्ष + शास्त्र | इदं | प्रोक्तं | व्यास + अमित + बुद्धि
संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः
It is recited in the present age and will be recited in future ages. He, who hears it, gets sons and survivors, who perform their favourite works.
View Padaccheda
सम्प्रति + आचक्ष् | च + एव | आख्यास्यन्ति | तथा + अपर
पुत्राः | शुश्रूषवः | सन्ति | प्रेष्य + च | प्रिय + कारिन्
शरीरेण कृतं पापं वाचा मनसैव सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा
He who hears it escapes immediately from all his sins that are committed by him in body, word or mind.
View Padaccheda
शरीरेण | कृतं | पापं | वाचा | च | मनस् + एव | च
सर्वं | तत् | त्यजति | क्षिप्रम् | इदं | शृण्वन् | नरः | सदा
भारतानां महज्जन्म शृण्वतामनसूयताम् नास्ति व्याधिभयं तेषां परलोकभयं कुतः
He who hears the history of the Bharata race without being fault-finding, can have no fear from diseases, let alone the fear of the other world.
View Padaccheda
भारतानां | महत् + जन्मन् | शृण्वताम् | अन् + असूय्
न + अस् | व्याधि + भय | तेषां | पर + लोक + भय | कुतः
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
View Padaccheda
धन्यं | यशस्यम् | आयुष्यं | स्वर्ग्यं | पुण्यं | तथा + एव | च
कृष्णद्वैपायन + इदम् | कृतं | पुण्य + चिकीर्षु
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम् अन्येषां क्षत्रियाणां भूरिद्रविणतेजसाम्
View Padaccheda
वर्धते | च | प्रभवतां | कोपो | ऽतीव | महात्मनाम्
अन्येषां | क्षत्रियाणां | च | भूरि + द्रविण + तेजस्
यथा समुद्रो भगवान्यथा हिमवान्गिरिः ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते
This Bharata is said to be a mine of gems, as the illustrious ocean or the great mountain Meru.
View Padaccheda
यथा | समुद्रो | भगवान् | यथा | च | हिमवान् | गिरिः
ख्या + उभ् | रत्न + निधि | तथा | भारतम् | उच्यते
इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु धूतपाप्मा जितस्वर्गो ब्रह्मभूयं गच्छति
The learned man, who recites it to Brahmanas during the sacred Parvas (lunar changes), is cleansed of all his sins and being victorious over heaven (not caring for it) attains to an union with Brahma.
View Padaccheda
य | इदं | श्रावयेद् | विद्वान् | यद् + च + इदम् | शृणुयान् | नरः
धू + पाप्मन् | जि + स्वर्ग | ब्रह्मन् + भूय | स | गच्छति
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि
He who causes even a single line of it to be heard by Brahmanas at a Shraddha, that Shraddha becomes inexhaustible and the Pitris (ancestors) become gratified with food presented to them.
View Padaccheda
यद् + च + इदम् | श्रावय् + श्राद्ध | ब्राह्मणान् | पादम् | अन्ततः
अक्षय्यं | तस्य | तद् + श्राद्ध | उपतिष्ठेत् | पितॄन् | अपि
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन् तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते
Are all destroyed by hearing the Mahabharata, The history of the great births of the Bharata princes is called Mahabharata.
View Padaccheda
अह्ना | यद् | एनस् + च + अज्ञान | प्रकरोति | नृ + चर्
तन् | महाभारत + आख्यान | श्रु + एव | प्रविलीयते
भारतानां महज्जन्म महाभारतमुच्यते निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
He who knows the etymology of the name (Bharata is cleansed of all his sins. As this history of the Bharata race is wonderful.
View Padaccheda
भारतानां | महत् + जन्मन् | शृण्वताम् | अन् + असूय्
निरुक्तम् | अस्य | यो | वेद | सर्व + पाप | प्रमुच्यते
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः महाभारतमाख्यानं कृतवानिदमुत्तमम्
The Rishi Krishna Dvaipayana, regularly rising (every morning) for three years, composed this wonderful history, called Mahabharata.
View Padaccheda
त्रिभिर् | वर्षैर् | लभ् + काम | कृष्णद्वैपायनो | मुनिः
महाभारतम् | आख्यानं | कुरूणां | चरितं | महत्
धर्मे चार्थे कामे मोक्षे भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति तत्क्वचित्
O best of the Bharata race, whatever about Dharma, Artha, Kama and Moksha, that is contained in this Bharata, may be met with elsewhere; but whatever is not in it, is not to be found anywhere.
View Padaccheda
धर्मे | च + अर्थ | च | कामे | च | मोक्षे | च | भरत + ऋषभ
यद् | इह + अस् | तद् | अन्यत्र | यन् | न + इह + अस् | न | तत् | क्वचित्