Vidya Kendra
Mahābhārata
Home Introduction Reader Glossary All Resources
Vidyakendra
Vidyakendra Home

Navigate to Verse

Currently viewing: Parva 1 - Chapter 1.218 (50 verses)
Powered by Aksharamukha

Search Mahābhārata

Try searching for: dharma, युद्ध, Arjuna, 1.1.5 (verse reference)
Quick Navigation: Start Browse Parvas
❖ ❖ ❖

Chapter 1.218

तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्
View Padaccheda
तद् + अभिवृष् | वारि | पाण्डवः | प्रत्यवारयत्
शर + वर्ष | बीभत्सुर् | उत्तम + अस्त्र | दर्शयन्
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः छादयामास तद्वर्षमपकृष्य ततो वनात्
View Padaccheda
शरैः | समन्ततः | सर्वं | खाण्डवं | च + अपि | पाण्डवः
छादयामास | तद् | वर्षम् | अपकृष्य | ततो | वनात्
स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः संछाद्यमाने खगमैरस्यता सव्यसाचिना
View Padaccheda
न | च | स्म | किंचिच् | छक्नोति | भूतं | निश्चरितुं | ततः
संछाद्यमाने | खगमैर् | अस्यता | सव्यसाचिना
तक्षकस्तु तत्रासीत्सर्पराजो महाबलः दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा
View Padaccheda
तक्षक + तु | न | तत्र + अस् | सर्प + राज | महत् + बल
दह्यमाने | वने | तस्मिन् | कुरुक्षेत्रे | ऽभवत् | तदा
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात्
View Padaccheda
अश्वसेन + तु | तत्र + अस् | तक्षकस्य | सुतो | बली
स | यत्नम् | अकरोत् | तीव्रं | मोक्ष + अर्थ | हव्यवाहनात्
शशाक विनिर्गन्तुं कौन्तेयशरपीडितः मोक्षयामास तं माता निगीर्य भुजगात्मजा
View Padaccheda
न | शशाक | विनिर्गन्तुं | कौन्तेय + शर + पीडय्
मोक्षयामास | तं | माता | निगीर्य | भुजग + आत्मजा
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी
View Padaccheda
तस्य | पूर्वं | शिरो | ग्रस्तं | पुच्छम् | अस्य | निगीर्यते
ऊर्ध्वम् | आचक्रमे | सा | तु | पन्नगी | पुत्र + गृद्धिन्
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः
View Padaccheda
तद् + तीक्ष्ण | भल्लेन | पृथु + धारा | पाण्डवः
शिरस् + छिद् | गम् + तद् | अपश्यत् | सुरेश्वरः
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् मोहयामास तत्कालमश्वसेनस्त्वमुच्यत
View Padaccheda
तं | मुमोचयिषुर् | वज्री | वात + वर्ष | पाण्डवम्
मोहयामास | तद् + काल | अश्वसेन + तु + मुच्
तां मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः द्विधा त्रिधा चिच्छेद खगतानेव भारत
View Padaccheda
तां | च | मायां | तदा | दृष्ट्वा | घोरां | नागेन | वञ्चितः
द्विधा | त्रिधा | च | चिछेद | ख + गम् | एव | भारत
शशाप तं संक्रुद्धो बीभत्सुर्जिह्मगामिनम् पावको वासुदेवश्च अप्रतिष्ठो भवेदिति
View Padaccheda
शशाप | तं | च | संक्रुद्धो | बीभत्सुर् | जिह्म + गामिन्
पावको | वासुदेव + च | अप्रतिष्ठो | भवेद् | इति
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्
View Padaccheda
ततो | जिष्णुः | सहस्राक्षं | खं | वितन् + इषु | शितैः
योधयामास | संक्रुद्धो | वञ्चनां | ताम् | अनुस्मरन्
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः
View Padaccheda
देवराड् | अपि | तं | दृष्ट्वा | संरब्धम् | इव | फल्गुनम्
स्वम् | अस्त्रम् | असृजद् | दीप्तं | यत् | तन् + अखिल | नभः
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान्
View Padaccheda
ततो | वायुर् | महत् + घोष | क्षोभयन् | सर्व + सागर
वियन्त् + स्थ | ऽजनयन् | मेघाञ् | जल + धारा + मुच् | आकुलान्
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः
View Padaccheda
तद् + विघात + अर्थ | असृजद् | अर्जुनो | अपि + अस्त्र | उत्तमम्
वायव्यम् | प्रतिपत्ति + विशारद
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः
View Padaccheda
तद् + इन्द्र + अशनि + मेघ | वीर्य + ओजस् + तद् + विनाशय्
जल + धारा + च | ताः | शोषं | जग्मुर् | नश् + च | विद्युतः
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम्
View Padaccheda
क्षणेन | च + भू | व्योम | संप्रशम् + रजस् + तमस्
सुख + शीत + अनिल + गुण | प्रकृतिस्थ + अर्क + मण्डल
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत्
View Padaccheda
निष्प्रतीकार + हृष् + च | हुतभुग् | विविध + आकृति
प्रज्वल् + अतुल + अर्चिष्मत् | स्व + नाद | पूरयञ् | जगत्
कृष्णाभ्यां रक्षितं दृष्ट्वा तं दावमहंकृताः समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः
View Padaccheda
कृष्णाभ्यां | रक्षितं | दृष्ट्वा | तं | च | दावम् | अहंकृताः
समुत्पेतुर् | अथ + आकाश | सुपर्ण + आद्य | पतत्रिणः
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ
View Padaccheda
गरुडा | वज्र + सदृश | पक्ष + तुण्ड + नख + तथा
प्रहर्तु + काम | संपेतुर् | आकाशात् | कृष्ण + पाण्डव
तथैवोरगसंघाताः पाण्डवस्य समीपतः उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः
View Padaccheda
तथा + एव + उरग + संघात | पाण्डवस्य | समीपतः
उत्सृजन्तो | विषं | घोरं | निश्चेरुर् | ज्वल् + आनन
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् विवशाश्चापतन्दीप्तं देहाभावाय पावकम्
View Padaccheda
तद् + कृत् | शरैः | पार्थः | स + रोष | दृश्य | खेचरान्
विवश + च + पत् | दीप्तं | देह + अभाव | पावकम्
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः
View Padaccheda
ततः | सुराः | स + गन्धर्व | यक्ष + राक्षस + पन्नग
उत्पेतुर् | नादम् | अतुलम् | उत्सृजन्तो | रण + अर्थिन्
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः
View Padaccheda
अयःकणप + चक्राश्मन् + भुशुण्डि + उद्यम् + बाहु
कृष्ण + पार्थ | जिघांसन्तः | क्रोध + सम्मूर्छ् + ओजस्
तेषामभिव्याहरतां शस्त्रवर्षं मुञ्चताम् प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः
View Padaccheda
तेषाम् | अभिव्याहरतां | शस्त्र + वर्ष | च | मुञ्चताम्
प्रमथ् + उत्तमाङ्ग | बीभत्सुर् | निशितैः | शरैः
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा दैत्यदानवसंघानां चकार कदनं महत्
View Padaccheda
कृष्ण + च | सु + महत् + तेजस् | तदा
दैत्य + दानव + संघ | चकार | कदनं | महत्
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा वेलामिव समासाद्य व्यातिष्ठन्त महौजसः
View Padaccheda
अथ + अपर | शरैर् | व्यध् + चक्र + वेग + ईरय् + तदा
वेलाम् | इव | समासाद्य | व्यातिष्ठन्त | महत् + ओजस्
ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत्
View Padaccheda
ततः | शक्रो | अभिसंक्रुध् + त्रिदश | महत् + ईश्वर
पाण्डुरं | गजम् | आस्थाय | तद् + उभ् | समभिद्रवत्
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् हतावेताविति प्राह सुरानसुरसूदनः
View Padaccheda
अशनिं | गृह्य | तरसा | वज्रम् | अस्त्रम् | अवासृजत्
हन् + एतद् + इति | प्राह | सुरान् | असुरसूदनः
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा
View Padaccheda
ततस् + तु | निहतं | दृष्ट्वा | राक्षस + इन्द्र | महत् + बल
जगृहुः | सर्व + शस्त्र | स्वानि | स्वानि | सुर + तदा
कालदण्डं यमो राजा शिबिकां धनेश्वरः पाशं वरुणस्तत्र विचक्रं तथा शिवः
View Padaccheda
काल + दण्ड | यमो | राजा | शिबिकां | च | धनेश्वरः
पाशं | च | वरुण + तत्र | विचक्रं | च | तथा | शिवः
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि जगृहे धनुर्धाता मुसलं जयस्तथा
View Padaccheda
ओषधीर् | दीप् + च | जगृहाते | अश्विन् + अपि
जगृहे | च | धनुर् | धाता | मुसलं | च | जय + तथा
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्
View Padaccheda
पर्वतं | च + अपि | जग्राह | क्रुध् + त्वष्टृ | महत् + बल
अंश + तु | शक्तिं | जग्राह | मृत्युर् | देवः | परश्वधम्
प्रगृह्य परिघं घोरं विचचारार्यमा अपि मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत
View Padaccheda
प्रगृह्य | परिघं | घोरं | विचर् + अर्यमन् | अपि
मित्र + च | क्षुर + पर्यन्त | चक्रं | गृह्य | व्यतिष्ठत
पूषा भगश्च संक्रुद्धः सविता विशां पते आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः
View Padaccheda
पाण्डव + च | सहद्रोणाः | सकृप + च | विशां | पते
आदा + कार्मुक + निस्त्रिंश | कृष्ण + पार्थ + अभिद्रु
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा
The Adityas, the Vasus, the Rudras, the Marutas, the Ashvinis, the Vishvadevas, the Sadhyas, the Pitris, all possessing the speed of mind, (wait upon the Grandsire).
View Padaccheda
दुर्योधन + च | कर्ण + च | युयुत्सु + च | महत् + बल
विश्वेदेव + तथा | साध्या | दीप्यमानाः | स्व + तेजस्
एते चान्ये बहवो देवास्तौ पुरुषोत्तमौ कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः
View Padaccheda
एते | च + अन्य | च | बहवो | नाना + जनपद + ईश्वर
कृष्ण + पार्थ | जिघांसन्तः | क्रोध + सम्मूर्छ् + ओजस्
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे युगान्तसमरूपाणि भूतोत्सादाय भारत
View Padaccheda
तत्र + अद्भुत + दृश् | निमित्तानि | महत् + आहव
युगान्त + सम + रूप | भूत + उत्साद | भारत
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ
View Padaccheda
तथा | तु | दृष्ट्वा | संरब्धं | शक्रं | देवैः | सह + अच्युत
अभीतौ | युधि | दुर्धर्षौ | तस्थतुः | सज्ज + कार्मुक
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा
View Padaccheda
आगम् + च + एव | तान् | दृष्ट्वा | देवान् | एक + एकशस् + ततस्
न्यवारयेतां | संक्रुद्धौ | बाणैर् | वज्र + उपम + तदा
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः
View Padaccheda
असकृद् | भञ्ज् + संकल्प | सुर + च | बहुशः | कृताः
भयाद् | रणं | परित्यज्य | शक्रम् | एव + अभिश्रि
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः
View Padaccheda
दृष्ट्वा | निवारितान् | देवान् | माधव + अर्जुन | च
आश्चर्यम् | अगमन् | देवा | मुनि + च | दिवि | स्थिताः
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे बभूव परमप्रीतो भूयश्चैतावयोधयत्
View Padaccheda
शक्र + च + अपि | तयोर् | वीर्यम् | उपलभ् + असकृत् | रणे
बभूव | परम + प्री | भूयस् + च + एतद् + योधय्
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः
View Padaccheda
ततो | अश्मन् + वर्ष | सु + महत् | व्यसृजत् | पाकशासनः
भूय | एव | तदा | वीर्यं | जिज्ञासुः | सव्यसाचिनः
तद् + शर | अर्जुनो | वर्षं | प्रतिजघ्ने | ऽत्यमर्षणः
विफलं क्रियमाणं तत्संप्रेक्ष्य शतक्रतुः भूयः संवर्धयामास तद्वर्षं देवराडथ
View Padaccheda
विफलं | क्रियमाणं | तत् | सम्प्रेक्ष्य | च | शतक्रतुः
भूयः | संवर्धयामास | तद् | वर्षं | देवराड् | अथ
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः विलयं गमयामास हर्षयन्पितरं तदा
View Padaccheda
ततो | अश्मन् + वर्ष | सु + महत् | व्यसृजत् | पाकशासनः
विलयं | गमयामास | हर्षयन् | पितरं | तदा
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्
View Padaccheda
समुत्पाट्य | तु | पाणिभ्यां | मन्दर + शिखर | महत्
स + द्रुम | विसृज् + शक्र | जिघांसुः | पाण्डु + नन्दन
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा
View Padaccheda
ततो | ऽर्जुनो | वेगवद्भिर् | ज्वल् + अग्र | अजिह्मगैः
बाणैर् | विध्वंसयामास | गिरेः | शृङ्गं | सहस्रधा
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः
View Padaccheda
गिरेर् | विशीर्यमाणस्य | तस्य | रूपं | तदा | बभौ
स + अर्क + चन्द्र + ग्रह + इव | नभसः | प्रविशीर्यतः
तेनावाक्पतता दावे शैलेन महता भृशम् भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः
View Padaccheda
तद् + अवाक् + पत् | दावे | शैलेन | महता | भृशम्
यत्र | यत्र | हि | दृश्यन्ते | प्राणिनः | खाण्डव + आलय